०५४

वसुरुवाच ॥
इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः ॥
ददौ तस्मै तु सुभगे सकलं मनसेप्सितम् ॥ ५४-१ ॥

यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः ॥
स्तोत्रेणानेन मतिमान्समोक्षं लभते ध्रुवम् ॥ ५४-२ ॥

त्रिसन्ध्यं यो जपेद्विद्वानिमं स्तोत्रवरं शुचिः ॥
धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ ५४-३ ॥

यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ॥
स लोकं शाश्वतं विष्णोर्याति निर्द्ध्रूतकल्मषः ॥ ५४-४ ॥

धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् ॥
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्य चित् ॥ ५४-५ ॥

न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने ॥
न दुष्टमतये दद्यान्नाभक्ताय कदाचन ॥ ५४-६ ॥

दातव्यं भक्तियुक्ताय गुणशीलान्विताय च ॥
विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशीलिने ॥ ५४-७ ॥

इदं समस्ताघविनाशहेतु कारुण्यसञ्ज्ञं सुखमोक्षदं च ॥
अशेषवाञ्छाफलदं वरिष्ठ स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ५४-८ ॥

ये तं सुसूक्ष्मं विमलाम्म्बराभं ध्यायन्ति नित्यं पुरुषं पुराणम् ॥
ते मुक्तिभाजः प्रविशन्ति विष्णुं मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ॥ ५४-९ ॥

एकः स देवो भवदुःखहन्ता परः परेषां न ततोऽस्ति चान्यः ॥
स्रष्टा स पाता सकलान्तकर्ता विष्णुः समश्चाखिलसारभूतः ॥ ५४-१० ॥

किं विद्यया किं सुगुणैश्च तेषां यज्ञैश्च दानैश्च तपोभिरुग्रैः ॥
येषां न भक्तिर्भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च ॥ ५४-११ ॥

लोके स धन्यः स शुचिः स विद्वान्स एव वक्ता स च धर्मशीलः ॥
ज्ञाता स दाता स च सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ ५४-१२ ॥

स्तुत्वैवं ब्रह्मतनयः प्रणम्य च सनातनम् ॥
वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ ५४-१३ ॥

चिन्ताविष्टो महीपालः कुशानास्तीर्य भूतले ॥
वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ ५४-१४ ॥

कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः ॥
मम चिन्ताहरो देवः कदासाविति चिन्तयन् ॥ ५४-१५ ॥

सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः ॥
आत्मानं दर्शयामास स्वप्ने तस्मै च चक्रधृक् ॥ ५४-१६ ॥

स ददर्श च तं स्वप्नेदेवदेवं जगत्पतिम् ॥
शङ्खचक्रधरं शान्तं गदापद्माग्रपाणिनम् ॥ ५४-१७ ॥

शार्ङ्गवाणासियुक्तं च ज्वलत्तेजोग्रमण्डलम् ॥
युगान्तादित्यवर्णाभं नीलवैडूर्यसन्निभम् ॥ ५४-१८ ॥

सुपर्णपृष्ठमासीनं षोडशार्द्धभुजं विभुम् ॥
स चासौ प्राब्रवीद्वीक्ष्य साधु राजन्महामते ॥ ५४-१९ ॥

क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया ॥
तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ॥ ५४-२० ॥

यदत्र प्रतिमा राजन्राजपूज्या सनातनी ॥
यथा तां प्राप्नुया भूप तदुपायं ब्रवीमि ते ॥ ५४-२१ ॥

गतायामद्य शर्वर्यां निर्मले भास्करोदये ॥
सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ ५४-२२ ॥

जलं तथैव वेलायां दृश्यते यत्र वै महत् ॥
लव?णस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥ ५४-२३ ॥

कूलालम्बी महावृक्षः स्थितः स्थलजलेषु च ॥
वेलाभिर्हन्यमानश्च न चासौ कम्पते ध्रुवः ॥ ५४-२४ ॥

हस्तेन पुर्शुमादाय ऊर्मेरन्तस्ततो व्रज ॥
एकाकी विहरन्राजन्यं त्वं पश्यसि पादपम् ॥ ५४-२५ ॥

इदं चिह्नं समालोक्य च्छेदयत्वमशङ्कितः ॥
शात्यमानं तु तं वृक्षं प्रांशुमद्भुतदर्शनम् ॥ ५४-२६ ॥

दृष्ट्वा तेनैव सञ्चिन्त्य तदा भूपाल दर्शनम् ॥
कुरु तत्प्रतिमां दिव्यां जहिचिन्तां विमोहिनीम् ॥ ५४-२७ ॥

एवमुक्त्वा महाभागो जगामादर्शनं हरिः ॥
स चापि स्वप्नमालक्ष्य परं विस्मयमागतः ॥ ५४-२८ ॥

तां निशां समुदीक्षन्स ततस्तद्गतमानसः ॥
व्याहरन्वैष्णवान्मन्त्रान्सूक्तं चैव तदात्मकम् ॥ ५४-२९ ॥

प्रभातायां रजन्यां तु तद्गतोऽनन्यमानसः ॥
स स्नात्वा सागरे सम्यग्यथावद्विधिना ततः ॥ ५४-३० ॥

दत्वा दानं तु विप्रेभ्यो ग्रामांश्च नगराणि च ॥
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ ५४-३१ ॥

न रथो न पदातिश्च न गजो न च सारथिः ॥
एकाकी स महावेलां प्रविवेश महीपतिः ॥ ५४-३२ ॥

तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् ॥
महान्तकं महारोहं पुण्यं विफलमेव च ॥ ५४-३३ ॥

महोत्सवं महाकायं प्रसुप्तं च जलान्तिके ॥
सान्द्रमाञ्जिष्ठवर्णाभं नाम जातिविवर्जितम् ॥ ५४-३४ ॥

नरनाथस्तथा विष्णोर्द्रुमं दृष्ट्वा मुदान्वितः ॥
पर्शुना शातयामास शितेन च दृढेन च ॥ ५४-३५ ॥

द्वैधीभूता मतिस्तत्र बभूवेन्द्रसखस्य च ॥
निरीक्षमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ ५४-३६ ॥

विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ ॥
आजग्मतुर्महात्मानौ तथा तुल्याग्रजन्मनौ ॥ ५४-३७ ॥

ज्वलमानौ सुतेजोभिर्दिव्यस्रग्गन्धलेपनौ ॥
अथ तौ तं समासाद्य नृपमिन्द्रिसखं तदा ॥ ५४-३८ ॥

तावब्रूतां महाराज त्वं किमत्र करिष्यसि ॥
किमयं ते महाबाहो शातितश्च वनस्पतिः ॥ ५४-३९ ॥

असहायो महादुर्गे निर्जने गहने वने ॥
महासिन्धुतटे चैव शातितो वै महाद्रुमः ॥ ५४-४० ॥

तयोः श्रुत्वा वचः सुभ्रु स तु राजा मुदान्वितः ॥
बभाषे वचनान्याभ्यां मृदूनि मधुराणि च ॥ ५४-४१ ॥

दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवागतौ ॥
नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ॥ ५४-४२ ॥

देव देवमनाद्यन्तममेयं जगतः पतिम् ॥
आराधितुं वै प्रतिमां करोमीति मतिर्मम ॥ ५४-४३ ॥

अहं स देवदेवेन परमेण महात्मना ॥
स्वप्नाते च समुद्दिष्टो भवद्भ्यां श्रावितो मया ॥ ५४-४४ ॥

यज्ञस्तद्वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च ॥
प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ॥ ५४-४५ ॥

साधु साधु महीपाल यदेतन्मन उत्तमम् ॥
संसारसागरे घोरे कन्दलीदलसन्निभे ॥ ५४-४६ ॥

निःसारे दुःखबहुले कामक्रोधसमाकुले ॥
इन्द्रियावर्तकलिले दुस्तरे लोमहर्षणे ॥ ५४-४७ ॥

नानाव्याधिशतावर्ते चलबुद्‌बुदसन्निभे ॥
यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ॥ ५४-४८ ॥

धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलङ्कृतः ॥
सप्रजा धरणी धन्या सशैलवनपत्तना ॥ ५४-४९ ॥

सपुरग्रामनगरा चतुर्वणैरलङ्कृता ॥
यत्र त्वं नृपशार्दूल प्रजापालयिता प्रभुः ॥ ५४-५० ॥

एह्येहि त्वं महाभाग द्रुमेऽस्मिन्सुखशीतले ॥
आवाभ्यां सह तिष्ठ त्वं कथाभिर्द्धर्मसंश्रितः ॥ ५४-५१ ॥

अयं तव सहायार्थमागतः शिल्पिनां वरः ॥
विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु ॥ ५४-५२ ॥

मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ।
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः ॥ ५४-५३ ॥

सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥
तस्थौ स नृपतिश्रेष्ठो वृक्षच्छायां सुशीतलाम् ॥ ५४-५४ ॥

ततस्तस्मै स विश्वात्मा तदाकारां तदाकृतिम् ॥
शिल्पिमुख्याय विधिजे कुरुष्वेत्यभ्यभाषत ॥ ५४-५५ ॥

कृष्णरूपं परं शान्तं पद्मपत्रायतेक्षणम् ॥
श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् ॥ ५४-५६ ॥

गौरं गोक्षीरवर्णाभे द्वितीयं स्वस्तिकाङ्कितम् ॥
लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम् ॥ ५४-५७ ॥

देवदानवगन्धर्वयक्षविद्याधरोरगैः ॥
न विज्ञातो हि तस्यान्तस्तेनानन्त इति स्मृतः ॥ ५४-५८ ॥

भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥
तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥ ५४-५९ ॥

श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत् ॥
तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः ॥ ५४-६० ॥

कुण्डलाभ्यां विचित्राभ्यां कर्णाभ्यां सुविराजिताः ॥
चक्रलाङ्गलविन्यासहताभ्यां भानुसम्मताः ॥ ५४-६१ ॥

प्रथमं शुक्लवर्णानां शारदेन्दुसमप्रभम् ॥
सुरक्ताक्षं महाकायं फटाविकटमस्तकम् ॥ ५४-६२ ॥

नीलाम्बरधरं चोग्रं बलमद्भुतकुण्डलम् ॥
महाहलधरं दिव्यं महामुसलधारिणम् ॥ ५४-६३ ॥

द्वितीयं पुण्डरीकाक्षं नीलजीमृतसन्निभम् ॥
अतसीपुष्पसङ्काशं पद्मपत्रायतेक्षणम् ॥ ५४-६४ ॥

श्रीवत्सवक्षसं भ्राजत्पीतवाससमच्युतम् ॥
चक्रकम्बुकरं दिव्यं सर्वपापहरं हरिम् ॥ ५४-६५ ॥

तृतीयां स्वर्णवर्णाभां पद्मपत्रायतेक्षणाम् ॥
विचित्रवस्त्रसञ्छन्नां हारकेयूरभूषिताम् ॥ ५४-६६ ॥

विचित्राभरणोपेतां रत्नमालावलम्बिताम् ॥
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥ ५४-६७ ॥

स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः ॥
दिव्यवस्त्रयुगाच्छन्ना नानारत्नैरलङ्कृताः ॥ ५४-६८ ॥

सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः ॥
विस्मयं परमं गत्वा इदं वचनमब्रवीत् ॥ ५४-६९ ॥

किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ ॥
द्वावप्यद्भुतकर्माणौ देववृत्तौ त्वमानुषौ ॥ ५४-७० ॥

देवौ वा मानुषौ वापि यक्षविद्याधरौ वरौ ॥
किंवा ब्रह्महृषीकेशौ वसुरुद्रावुताश्विनौ ॥ ५४-७१ ॥

न वेद्मि सत्यवद्भावौ मायरूपेण संस्थितौ ॥
युवां गतोऽस्मि शरणमात्मानं वदतं मम ॥ ५४-७२ ॥

द्विज उवाच ॥
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ॥
न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ॥ ५४-७३ ॥

आर्तिघ्नं सर्वलोकानामनन्तबलपौरुषम् ॥
अर्चनीयो हि भूतानामन्तो यस्य न विद्यते ॥ ५४-७४ ॥

पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते ॥
यदुक्त ध्यानगम्यं च वासुदेवेति योगिभिः ॥ ५४-७५ ॥

अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवो ह्यहम् ॥
इद्रोऽहं देवराजश्च जगत्संयमनो यमः ॥ ५४-७६ ॥

पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुग्यथा ॥
वरुणोऽपाम्पतिश्चाह धरित्री च महीधराः ॥ ५४-७७ ॥

यत्किञ्चिद्वाङ्मयं लोके जगत्स्थावरजङ्गमम् ॥
विश्वरूपं च मां विद्धि मत्तोऽन्यन्नास्ति किचन ॥ ५४-७८ ॥

प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत ॥
यदिष्टं तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम् ॥ ५४-७९ ॥

मद्दर्शनमपुण्यानां स्वप्नान्तेऽपि न जायते ॥
त्वं पुनर्द्दढभक्तित्वात्प्रत्यक्षं दृष्टवानसि ॥ ५४-८० ॥

श्रुत्वैवं वासुदेवस्य वचनं तस्य मोहिनि ॥
रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥ ५४-८१ ॥

राजोवाच ॥
श्रियःकान्त नमस्तेऽस्तु श्रीपते पीतवाससे ॥
श्रीदश्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥ ५४-८२ ॥

आद्यं पुरुषमीशानं सर्वेशं सर्वशं सर्वतोमुखम् ॥
निष्कलं परमं देवं प्रणतोऽस्मि सनादनम् ॥ ५४-८३ ॥

शब्दातीतं गुणातीतं भावाभावविवर्जितम् ॥
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ ५४-८४ ॥

शंशचक्रधरं देवं गदामुसलधारिणम् ॥
नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ ५४-८५ ॥

नागपर्यङ्कशयनं क्षीरोदार्णववासिनम् ॥
नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम् ॥ ५४-८६ ॥

पुनस्त्वां देवदेवेश नमस्ये वरदं विभुम् ॥
सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥ ५४-८७ ॥

एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः ॥
उवाच प्रणतो भूत्वा निपत्य वसुधातले ॥ ५४-८८ ॥

प्रीतोऽसि यदि मे नाथ वृणोमि वरमुत्तमम् ॥
देवाः सुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ ५४-८९ ॥

सिद्धविद्याधराः साध्याः किन्नरा गुह्यकास्तथा ॥
ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ ५४-९० ॥

प्रव्रज्यायोगयुक्ताश्च वेदतत्‌त्वानुचिन्तकाः ॥
मोक्षमार्गविदो येऽन्ये ध्यांयति परमं पदम् ॥ ५४-९१ ॥

निर्मलं निर्गुणं शान्तं यत्पश्यन्ति मनीषिणः ॥
तत्पदं गन्तुमिच्छामि प्रसादात्ते सुदुर्लभम् ॥ ५४-९२ ॥

श्रीभगवानुवाच ॥
सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि ॥
भविष्यति यथाकामं मत्प्रसादान्न संशयः ॥ ५४-९३ ॥

दश वर्षसहस्राणि तथा नव शतानि च ॥
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ ५४-९४ ॥

प्रपद्य परमं दिव्यं दुर्लभं यत्सुरासुरैः ॥
पूर्णं मनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥ ५४-९५ ॥

परात्परतरं सूक्ष्मं निर्लेपं निर्गुण ध्रुवम् ॥
चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ ५४-९६ ॥

तदहं दर्शयिष्यामि विज्ञेयाख्यं परं पदम् ॥
सम्प्राप्य परमानन्दं प्राप्स्यसे परमां गतिम् ॥ ५४-९७ ॥

कीर्तिश्च तव राजेन्द्र भवत्वत्र महीतले ॥
यावद्धरा नभो यावद्यावच्चन्द्रार्कतारकाः ॥ ५४-९८ ॥

यावत्समुद्राः सप्तैव यावन्मेर्व्वादिपर्वताः ॥
तिष्ठन्ति दिवि देवाश्च यावत्सर्वत्र चाव्ययाः ॥ ५४-९९ ॥

इन्द्रद्युस्मसरो नाम तीर्थँ यज्ञाज्यसम्भवम् ॥
यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्स्यति ॥ ५४-१०० ॥

दापयिष्यति यः पिण्डं तटेऽस्मिन्नम्बुधेः शुभे ॥
कुसैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥ ५४-१०१ ॥

पूज्यमानोऽप्सरोभिश्च गधवैर्गीतनिः स्वनैः ॥
विमानेन चरेत्तत्र यावदिन्द्राश्चतुर्दशा ॥ ५४-१०२ ॥

सरसो दक्षिणे भागे नैर्ऋत्यां तु समाश्रिते ॥
न्यग्रोधोऽस्ति द्रुमस्तत्र तत्समीपे तु मण्डपः ॥ ५४-१०३ ॥

केतकीवनसञ्छन्नो नानापादपसङ्कुलः ॥
आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते ॥ ५४-१०४ ॥

ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै ॥
मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः ॥ ५४-१०५ ॥

क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ॥
चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः ॥ ५४-१०६ ॥

व्यञ्जयन्त्यस्तदास्मभ्यं स्थास्यन्ति परमाङ्गनाः ॥
ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः ॥ ५४-१०७ ॥

वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च वै द्विजाः ॥
नानावर्णपदैः स्तोत्रैर्ऋग्यजुः सामनिःस्वनैः ॥ ५४-१०८ ॥

करिष्यन्ति स्तुतिं राजन्रामकेशवयोः पुनः ॥
ततः स्तुत्वा च दृष्ट्व च सम्प्रणम्य च भक्तितः ॥ ५४-१०९ ॥

नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥
पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिःस्वनैः ॥ ५४-११० ॥

हरेरनुचरस्तत्र क्रीडते केशवेन वै ॥ ५४-१११ ॥

विमानेनार्कवर्णेन रत्नहारेण राजते ॥
सर्वे कामा महाभागे तिष्ठन्ति भवनोत्तमे ॥ ५४-११२ ॥

तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् ॥
कोटीधनपतिः श्रीमांश्चतुर्वेदो भवेद्ध्रुवम् ॥ ५४-११३ ॥

एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः ॥
जगामादर्शनं भद्रे सहितो विश्वकर्मणा ॥ ५४-११४ ॥

स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः ॥
कृतकृत्यमिवात्मानं मेने सन्दर्शनाद्धरेः ॥ ५४-११५ ॥

ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् ॥
रथैर्विमानसङ्काशैर्मणिकाञ्चनचित्रितैः ॥ ५४-११६ ॥

संवाह्य तास्ततो राजा जयमङ्गलनिःस्वनैः ॥
आनया मास मतिमान्सामात्यः सपुरोहितः ॥ ५४-११७ ॥

नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः ॥
संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ ५४-११८ ॥

ततः शुभे तिथौ स्वर्क्षे काले च शुभलक्षणे ॥
प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ॥ ५४-११९ ॥

यथोक्तेन विधानेन विधिदृष्टेन कर्मणा ॥
आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥ ५४-१२० ॥

आचार्याय तदा दत्त्वा दक्षिणां विधिवत्प्रभुः ॥
ऋत्विग्भ्यः सविधानेन तथान्येभ्यो धनं ददौ ॥ ५४-१२१ ॥

कृत्वा प्रतिष्ठां विधिवत्प्रासादे भवनोत्तमे ॥
स्थापयामास तान्सर्वान्विश्वकर्मविनिर्मितान् ॥ ५४-१२२ ॥

ततः सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः ॥
सुवर्णमणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ॥ ५४-१२३ ॥

ददौ द्विजेभ्यो विषयान्पुराणि नगराणि च ॥
एवं बहुविधान्दत्त्वा राज्यं कृत्वा यथोचितम् ॥ ५४-१२४ ॥

इष्ट्वा च विविधैर्यज्ञैर्दत्त्वा दानान्यनेकशः ॥
कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः ॥
जगाम परमं स्थानं तद्विष्णोः परमं पदम् ॥ ५४-१२५ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे श्रीपुरुषोत्तममाहात्म्ये चतुष्पञ्चाशत्तमोऽध्यायाः ॥ ५४ ॥