मोहिन्युवाच ॥
धन्योऽसि विप्रवर्य त्वं कृपालुः सर्वदेहिषु ॥
यच्छ्रुतं ते मुखाम्भोजात्काशीमाहात्म्यमुत्तमम् ॥ ५२-१ ॥
अधुनाहं कृतार्थास्मि त्वया हि प्रतिबोधिता ॥
कृपालुना निपतिताभ्युद्धता भवसागरात् ॥ ५२-२ ॥
अधुना श्रोतुमिच्छामि हरेः क्षेत्रस्य मानद ॥
माहात्म्यं यत्र गमनात्कृतार्थो जायते नरः ॥ ५२-३ ॥
पुरुषोत्तमविष्णोस्तु क्षेत्रं मुक्तिविधायकम् ॥
श्रूयते हि पुराणेषु वर्णितं मुनिभिर्द्विजैः ॥ ५२-४ ॥
तत्कथ्यतां महाभाग शिष्याहं यदि ते प्रिया ॥
साधवः सर्वलोकस्य सततोपकृतौ स्थिताः ॥ ५२-५ ॥
वसुरुवाच ॥
श्रृणु देवि प्रवक्ष्यामि तुभ्यं माहात्म्यमुत्तमम् ॥
पुरुषोत्तमनाम्नस्तु क्षेत्रस्य ब्रह्मणोदितम् ॥ ५२-६ ॥
पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता ॥
तत्रास्ते भारते वर्षे दक्षिणोदधितीरगः ॥ ५२-७ ॥
उत्कलेति समाख्यातः स्वर्गमोक्षप्रदायकः ॥
समुद्रादुत्तरं तावद्यावद्विरजमण्डलम् ॥ ५२-८ ॥
देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलङ्कृतः ॥
सर्वतीर्थानि पुण्यानि पुण्यान्यायतनानि च ॥ ५२-९ ॥
उत्कले तु विशालाक्षि वेदितव्यानि तानि तु ॥
समुद्रस्योत्तरे तीरे तस्मिन्देशेऽखिलोत्तमे ॥ ५२-१० ॥
आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥
सर्वत्र वालुकाकीर्णे पवित्रं धर्मकामदम् ॥ ५२-११ ॥
दशयोजनविस्तीर्णं क्षेत्रम्म परमदुर्लभम् ॥
नक्षत्राणां यथा सोमः सरसां सागरो यथा ॥ ५२-१२ ॥
तथा समस्ततीर्थानां वरिष्ठं पुरषोत्तमम् ॥
वसूनां पावको यद्वद्रुद्राणां शङ्करो यथा ॥ ५२-१३ ॥
तथा श्रेष्ठं हि तीर्थानां सर्वेषां पुरुषोत्तमम् ॥
वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम् ॥ ५२-१४ ॥
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा ॥ ५२-१५ ॥
ऐरावतो गजेन्न्द्राणां महर्षीणां भृगुर्यथा ॥
मेरुः शिखरिणां यद्वन्नगानां च हिमालयः ॥ ५२-१६ ॥
उच्चैः श्रवा यथाश्वानां कवीनामुशना यथा ॥
मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् ॥ ५२-१७ ॥
इन्द्रियाणां मनो यद्वद्भूतानामवनी यथा ॥
अश्वत्थः सर्ववृक्षाणां पवनः पवतां यथा ॥ ५२-१८ ॥
अरुन्धती यथा स्त्रीणां शस्त्राणां कुलिशं यथा ॥
अकारः सर्ववर्णानां गायत्री छन्दसां यथा ॥ ५२-१९ ॥
सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं विधातृजे ॥
यथा समस्तविद्यानां मोक्षविद्या परा स्मृता ॥ ५२-२० ॥
मनुष्याणां यथा राजा धेनूनां कामधुग्यथा ॥
सुवर्णं सर्वधातूनां सर्पाणां वासुकिर्यथा ॥ ५२-२१ ॥
प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा ॥
झषाणां मकरो यद्वन्मृगाणां मृगराड् यथा ॥ ५२-२२ ॥
वरुणो यादसां यद्वद्यमः संयमिनां यथा ॥
क्षीरोदः सागराणां च देवर्षिणां च नारदः ॥ ५२-२३ ॥
पुरोधसां यथा जीवः कालः कलयतां यथा ॥
ग्रहाणां भास्करो यद्वन्मन्त्राणां प्रणवो यथा ॥ ५२-२४ ॥
कृत्यानां धर्मकार्यञ्च तद्वच्छ्रीपुरुषोत्तमम् ॥
पुरुषाख्यं सकृद्दृष्ट्वा सागरान्तः सकृन्मतः ॥ ५२-२५ ॥
ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते ॥
एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ ५२-२६ ॥
आस्ते यत्र वरारोहे विख्यातं पुरुषोत्तमम् ॥
जगव्द्यापी स विश्वात्मा देवेशः पुरुषोत्तमः ॥ ५२-२७ ॥
जगद्योनिर्जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् ॥
अजः शक्रश्च रुद्रश्च देवाश्चाग्निपुरोगमाः ॥ ५२-२८ ॥
निवसन्ति महाभागे तस्मिन्देशे सदैव हि ॥
गन्धर्वाप्सरसः सिद्धाः पितरो देवमानुषाः ॥ ५२-२९ ॥
यक्षा विद्याघराश्चैव मुनयः शंसितव्रताः ॥
ऋषयो वालखिल्याद्याः कश्यपाद्याः प्रजेश्वराः ॥ ५२-३० ॥
सुपर्णाः किन्नरा नागास्तथान्ये स्वर्गवासिनः ॥
साङ्गा वेदाश्च चत्वारो शास्त्राणि विविधानि च ॥ ५२-३१ ॥
इतिहासपुराणानि यज्ञाश्च बहुदक्षिणाः ॥
नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ ५२-३२ ॥
सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्थिताः ॥
एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ५२-३३ ॥
सर्वोपभोगसहिते वासः कस्य न रोचते ॥
श्रेष्ठत्वं तस्य देवस्य किं चान्यदधिकं ततः ॥ ५२-३४ ॥
आस्ते यत्र जगद्देवो मुक्तिदः पुरुषोत्तमः ॥
धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले नराः ॥ ५२-३४ ॥
तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् ॥
स्वर्गे वसन्ति ते मर्त्या न तु ते राजसालये ॥ ५२-३६ ॥
ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे ॥
सफलं जीवितं तेषामौत्कलानां सुमेधसाम् ॥ ५२-३७ ॥
ये पश्यन्ति सुताम्रौष्ठप्रसन्नायतलोचनम् ॥
चारुभ्रूकेशमुकुटं चारुकर्णलताञ्चितम् ॥ ५२-३८ ॥
चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् ॥
सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ५२-३९ ॥
त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥
पुरा कृतयुगे देवि शक्रतुल्यपराक्रमः ॥ ५२-४० ॥
बभूव नृपतिः श्रीमानिन्द्रद्युम्न इति श्रुतः ॥
सत्यवादी शुचिर्दक्षः सर्वशस्त्रभृतां वरः ॥ ५२-४१ ॥
रूपवान्सुम्भगः शूरो दाता भोक्ता प्रियंवदः ॥
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसङ्गरः ॥ ५२-४२ ॥
धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥
वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ॥ ५२-४३ ॥
आदित्य इव दुष्प्रेक्ष्यो मधुरश्चन्द्रमा इव ॥
वैष्णवः सत्यसम्पन्नो जितक्रोधो जितेन्द्रियः ॥ ५२-४४ ॥
अध्यात्मविद्यानिरतो युयुत्सुर्धर्मतत्परः ॥
एवं स पालयेत्पृथ्वीं राजा सर्वगुणाकरः ॥ ५२-४५ ॥
तस्य बुद्धिः समुत्पन्ना विष्णोराराधनं प्रति ॥
कथमाराधयिष्यामि देवदेवं जनार्दनम् ॥ ५२-४६ ॥
कस्मिन्क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे ॥
एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम् ॥ ५२-४७ ॥
आलोक्य सर्वतीर्थानि यानि पापहराणि च ॥।
तानि सर्वाणि सञ्चित्य जगाम मनसा पुनः ॥ ५२-४८ ॥
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥
स गत्वा नृपतिस्तत्र समृद्धबलवाहनः ॥ ५२-४९ ॥
अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः ॥
कारयित्वा महोत्सेधं प्रासादं भूरिदक्षिणम् ॥ ५२-५० ॥
तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥
पञ्चतीर्थं च विधिवत्कृत्वा तत्र महीपतिः ॥ ५२-५१ ॥
स्नानं दानं जपं होमं देवताप्रेक्षणं तथा ॥
भक्त्या चाराध्य विधिवत्प्रत्यहं पुरुषोत्तमम् ॥
प्रसादाद्देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ५२-५२ ॥
मोहिन्युवाच ॥
तस्मिन् क्षेत्रे वरे पुण्ये वैष्णवे पुरुषोत्तमे ॥ ५२-५३ ॥
किं तत्र प्रतिमा पूर्वं सुस्थिता वैष्णवी प्रभो ॥
येनासौ नृपतिस्तत्र गत्वा सबलवाहनः ॥ ५२-५४ ॥
स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥
संशयोऽस्ति महांस्तत्र विस्मयश्च द्विजोत्तम ॥ ५२-५५ ॥
श्रोतुमिच्छामि तत्सर्वं ब्रूहि तत्कारणं च यत् ॥
वसुरुवाच ॥
श्रृणुष्व पूर्ववृत्तान्तं कथां पापप्रणशिनीम् ॥ ५२-५६ ॥
प्रवक्ष्यामि समासेन श्रिया पृष्टं च यत्पुरा ॥
सुमेरोः काञ्चने श्रृङ्गे सर्वाश्चर्यसमन्विते ॥ ५२-५७ ॥
तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥
प्रणम्य शिरसा देवी लोकानां हितकाम्यया ॥ ५२-५८ ॥
पप्रच्छेदं महाप्रश्नं भूमौ स्थानमनुत्तमम् ॥
श्रीरुवाच ॥
ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् ॥ ५२-५९ ॥
मर्त्यलोके महाश्चर्ये भूमौ कर्मसुदुर्लभे ॥
लोभमोहमहाग्राहे कामक्रोधमहार्णवे ॥ ५२-६० ॥
येन मुच्येत आत्मेश दुर्गसंसारसागरात् ॥
त्वामृते नास्ति लोकेऽस्मिन्वक्ता संशयनिर्णये ॥ ५२-६१ ॥
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः ॥
प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥
सुखोपायं सुसाध्यं च निरायासं महाफलम् ॥ ५२-६२ ॥
श्रीभगवानुवाच ॥
आस्ते तीर्थवरं देवि विख्यातं पुरुषोत्तमम् ॥ ५२-६३ ॥
न तेन सदृशं किञ्चित्त्रिषु लोकेषु विद्यते ॥
कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः ॥ ५२-६४ ॥
न विज्ञातो नरैः सर्वैर्न दैत्यैर्न च दानवैः ॥
मरीच्याद्यैर्मुनिवरैर्दर्शितोऽयं वरानने ॥ ५२-६५ ॥
दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति ॥
यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे ॥ ५२-६६ ॥
विनाशं नैव चाभ्येति स्वयं तत्रैव संस्थितः ॥
दृष्टमात्रे वटे तस्मिञ्छायामाश्रित्य चासकृत् ॥ ५२-६७ ॥
ब्रह्मह्त्या प्रमुच्येत पापेष्वन्येषु का कथा ॥
प्रदक्षिणं कृतं यैस्तु नमस्कारैस्तु जन्तुभिः ॥ ५२-६८ ॥
सर्वे विधूतपापास्ते गता वै केशवालयम् ॥
न्यग्रोधस्योत्तरे किञ्चिद्दक्षिणे केशवस्य तु ॥ ५२-६९ ॥
प्रासादे तत्र तिष्ठेत्तु पदं धर्ममयं हि तत् ॥
प्रतिमां तत्र तां दृष्ट्वा स्वयं देवेन निर्मिताम् ॥ ५२-७० ॥
अनायासेन वै यान्ति भवनं मे ततो नराः ॥
गच्छन्नेव तु तं दृष्ट्वा एकदा धर्मराट् स्वयम् ॥ ५२-७१ ॥
मदन्तिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥
नमस्ते भगवन्देव लोकनाथाय तेजसे ॥ ५२-७२ ॥
क्षीरोदवासिनं देवं शेषभोगोरुशायिनम् ॥
वरं वरेण्यं वरदं कर्तारं ह्यक्षयं प्रभुम् ॥ ५२-७३ ॥
विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥
नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् ॥ ५२-७४ ॥
सर्वङ्गं निर्गुणं शान्तं जगद्वातारमव्ययम् ॥
सर्वलोकविधातारं लोकनाथं सुखावहम् ॥ ५२-७५ ॥
पुराणपुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥
पुरा पुराणं स्रष्टारं लोकतीर्थँ जगद्गुरुम् ॥ ५२-७६ ॥
श्रीवत्सवक्षसा युक्तं वनमाला विभूषितम् ॥
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ५२-७७ ॥
हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥
सर्वलक्षणसंयुक्तं सर्वेन्द्रियविवर्जितम् ॥ ५२-७८ ॥
कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥
भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् ॥ ५२-७९ ॥
तं नमस्ये जगन्नाथमीश्वरं सुखदं प्रभुम् ॥
इत्येवं धर्मराजस्तु पुरा न्यग्रोधसन्निधौ ॥ ५२-८० ॥
स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा ॥
तं दृष्ट्वा च महाभागे प्रणतं प्राञ्जलिं स्थितम् ॥ ५२-८१ ॥
स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् ॥
वैवस्वत महाबाहो सर्वदेवमयो ह्यसि ॥ ५२-८२ ॥
किमर्थं स्तुतवानित्थं सङ्क्षेपाद् ब्रूहि तन्मम ॥ ५२-८३ ॥
यम उवाच ॥
अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे ॥
इन्द्रिनीलमयी सृष्टा प्रतिमा सार्वकामिकी ॥ ५२-८४ ॥
तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया ॥
श्वेताख्यं भुवनं यान्ति निष्कामाश्चैव मानवाः ॥ ५२-८५ ॥
अतश्चैवं न शक्नोमि व्यापारमरिसूदन ॥
प्रसीदं त्वं महादेव संहर प्रतिमां विभो ॥ ५२-८६ ॥
श्रुत्वा वैवस्वतस्यैतद्वाक्यं तमहमुक्तवान् ॥
यमैतां गोपयिष्यामि सिकताभिः समन्ततः ॥ ५२-८७ ॥
ततः सा प्रतिमा देवि वल्लीभिर्गोपिता तथा ॥
यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ ५२-८८ ॥
प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः ॥
यमं प्रस्थापयामास तां पुरीं दक्षिणां दिशम् ॥ ५२-८९ ॥
गुप्तायां प्रतिमायां तु इन्द्रनीलस्य वै तदा ॥
तस्मिन्क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ५२-९० ॥
यत्कृतं तत्र वृत्तान्ते देवदेवो जनार्दनः ॥
तत्सर्वं कथयामास स तस्मै भगवान्पुरा ॥ ५२-९१ ॥
इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा ॥
क्षेत्रस्य वर्णनं चैव व्युष्टिं तस्य च मोहिनि ॥ ५२-९२ ॥
दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥
सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः ॥ ५२-९३ ॥
दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा ॥
अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् ॥ ५२-९४ ॥
श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य वर्णनम् ॥
उदधेर्दर्शनं चैव स्नानं तर्पणमेव च ॥ ५२-९५ ॥
समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य चापि वै ॥
पञ्चतीर्थफलं चैव महाज्यैष्ठ्यां तथैव च ॥ ५२-९६ ॥
स्नानं कृष्णस्य हलिनः सर्वयात्राफलं तथा ॥
वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः स्वयम् ॥
पूर्वं कथितवांस्तथ्यं तस्यै स पुरुषोत्तमः ॥ ५२-९७ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥