वसुरुवाच ॥
अथान्यते प्रवक्ष्यामि गङ्गामाहात्म्यमुत्तमम् ॥
वाराणसीस्थितं भद्रे भुक्तिमुक्तिफलप्रदम् ॥ ५१-१ ॥
अविमुक्ते कृतं यत्तु तदेवाक्षयतां व्रजेत् ॥
अविमुक्तगतः कश्चिन्नरकं नैति किल्बिषी ॥ ५१-२ ॥
अविमुक्तकृतं यत्तु पापं वज्रं भवेच्छुभे ॥
त्रैलोक्ये यानि तीर्थानि मोक्षदानि च कृत्स्नशः ॥ ५१-३ ॥
सेवन्ते सततं गङ्गां काश्यामुत्तरवाहिनीम् ॥
दशाश्वमेधे यः स्नात्वा दृष्ट्वा विश्वेश्वरं शिवम् ॥ ५१-४ ॥
सद्यो निष्पातको भूत्वा मुच्यते भवबन्धनात् ॥
गङ्गा हि सर्वतः पुण्या ब्रह्महत्यापहारिणी ॥ ५१-५ ॥
वाराणस्या विशेषेण यत्र चोत्तरवाहिनी ॥
वरणायास्तथास्याश्च जाह्नव्याः सङ्गमे नरः ॥ ५१-६ ॥
स्नानमात्रेण सर्वेभ्यः पातकेभ्यः प्रमुच्यते ॥
काश्यामुत्तरवाहिन्यां गङ्गायां कार्तिके तथा ॥ ५१-७ ॥
स्नात्वा माघे च मुच्यन्ते महापापादिपातकैः ॥
सर्वलोकेषु तीर्थानि यानि ख्यातानि तानि च ॥ ५१-८ ॥
सर्वाण्येतानि सुभगे काश्यामायान्ति जाह्नवीम् ॥
नित्यं पर्वसु सर्वेषु पुण्यैश्चायतनैः सह ॥ ५१-९ ॥
उत्तराभिमुखीं गङ्गां काश्यामायान्ति चान्वहम् ॥
महापातकदोषादिदुष्टानां स्पर्शनोद्भवम् ॥ ५१-१० ॥
व्यपोहितुं स्वपापं च जन्तुपापविमुक्तये ॥
जन्मान्तरशतेनापि सत्कर्मनिरतस्य च ॥ ५१-११ ॥
अन्यत्र सुधिया भद्रे मोक्षो लभ्येत वा न वा ॥
एकेन जन्मना त्वत्र गङ्गायां मरणेन च ॥ ५१-१२ ॥
मोक्षस्तु लभ्यते काश्यां नरेणावलितात्मना ॥
ख्यातो धर्मनदो नाम ह्रदस्तत्रैव सुन्दरि ॥ ५१-१३ ॥
धर्म एव स्वरूपेण महापातकनाशनः ॥
धूली च धूतपापा सा सर्वतीर्थमयी शुभा ॥ ५१-१४ ॥
हरेन्महापापसङ्घान्कूलजानिव पादपान् ॥
किरणा धूतपापा च पुण्यतोया सरस्वती ॥ ५१-१५ ॥
गङ्गा च यमुना चैव पञ्च नद्यः प्रकीर्तिताः ॥
अतः पञ्चनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ५१-१६ ॥
तत्राप्लुतो न गृह्णीयाद्देहितां पाञ्चभौतिकीम् ॥
अस्मिन्पञ्चनदीनां तु सङ्गमेऽघौघभेदने ॥ ५१-१७ ॥
स्नानमात्रान्नरो याति भित्वा ब्रह्माण्डमण्डपम् ॥
प्रयागे माघमासे तु सम्यक् स्नानस्य यत्फलम् ॥ ५१-१८ ॥
तत्फलं स्याद्दिनैकेन काश्यां पञ्चनदे ध्रुवम् ॥
स्नात्वा पञ्चनदे तीर्थे कृत्वा च पितृतर्पणम् ॥ ५१-१९ ॥
विष्णुं माधवमभ्यर्च्य न भूयो जन्मभाग्भवेत् ॥
यावत्सङ्ख्यास्तिला दत्ताः पितृभ्यो जलतर्पणे ॥ ५१-२० ॥
पुण्ये पञ्चनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी ॥
श्रद्धया यैः कृतं श्राद्धं तीर्थे पञ्चनदे शुभे ॥ ५१-२१ ॥
तेषां पितामहा मुक्तानानायोनिगता अपि ॥
यमलोके पितृगणैर्गार्थयं परिगीयते ॥ ५१-२२ ॥
महिमानं पाञ्चनदं दृष्ट्वा श्राद्धविधानतः ॥
अस्माकमपि वंश्योऽत्र कश्चिच्छ्राद्धं करिष्यति ॥ ५१-२३ ॥
काश्यां पञ्चनदं प्राप्य येन मुच्यामहे वयम् ॥
तत्र पञ्चनदे तीर्थे यत्किञ्चिद्दीयते वसु ॥ ५१-२४ ॥
कल्पक्षयेऽपि न भवेत्तस्य पुण्यस्य सङ्क्षयः ॥
वन्ध्यापि वर्षपर्यन्तं स्नात्वा पञ्चनदे ह्रदे ॥ ५१-२५ ॥
समर्च्य मङ्गलां गौरीं पुत्रं जनयति ध्रुवम् ॥
जलैः पाञ्चनदैः पुण्यैर्वाससा परिशोधितैः ॥ ५१-२६ ॥
महाफलमवाप्नोति स्नापयित्वेह दिक्श्रुताम् ॥
पञ्चामृतानां कलशैरष्टोत्तरशतोन्मितैः ॥ ५१-२७ ॥
तुलितोऽधिकतां प्राप्तो बिन्दुः पाञ्चनदस्तु सः ॥
पञ्चकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ॥ ५१-२८ ॥
सा शुद्धिः श्रद्धया प्राश्य बिन्दुं पञ्चनदाम्भसाम् ॥
भवेदथ ह्रदस्नानाद्राजसूयाश्वमेधयोः ॥ ५१-२९ ॥
यत्फलं तच्छतगुणं स्मृतं पञ्चनदाम्बुना ॥
राजसूयाश्वमेधौ च भवेतां स्वर्गसाधने ॥ ५१-३० ॥
आब्रह्मपट्टिकाद्वन्द्वान्मुक्तिः पञ्चनदाम्बुभिः ॥
स्वर्गनद्यभिषेकोऽपि न तथा सम्मतः सताम् ॥ ५१-३१ ॥
अभिषेकः पाञ्चनदो यथानन्यो वरप्रदः ॥
शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ॥ ५१-३२ ॥
तत्कार्तिके पञ्चन्दे सकृत्स्नानेन लभ्यते ॥
इष्टापूर्तेषु धर्मेषु यावज्जन्मकृतेषु यत् ॥ ५१-३३ ॥
अन्यत्र स्यात्फलं तस्याधिकं पञ्चनदाम्बुभिः ॥
न धूतपापसदृशं तीर्थं क्वापि महीतले ॥ ५१-३४ ॥
यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम् ॥
कृते धर्मन्नदं नाम त्रेतायां धूतपातकम् ॥ ५१-३५ ॥
द्वापरे बिन्दुतीर्थँ च कलौ पञ्चनदं स्मृतम् ॥
बिन्दुतीर्थे नरो दत्वा काञ्चनं कृष्णकलोन्मितम् ॥ ५१-३६ ॥
न दरिद्रो भवेत्क्वापि न सुखेन वियुज्यते ॥
गोभूतिलहिरण्याश्ववासोन्नस्थानभूषणम् ॥ ५१-३७ ॥
यत्किञ्चिद्बिन्दुतीर्थेऽत्र दत्वाक्षयमवाप्नुयात् ॥
एकामप्याहुतिं कृत्वा समिद्धेऽग्नौ विधानतः ॥ ५१-३८ ॥
पुण्ये धर्मनदीतीर्थे कोटिहोमफलं लभेत् ॥
न पञ्चनदतीर्थस्य महिमानमनन्तकम् ॥। ५१-३९ ॥
कोऽपि वर्णयितुं शक्तश्चतुर्वर्गशुभौकसः ॥
इति ते कथितं भद्रे काशीमाहात्म्यमुत्तमम् ॥ ५१-४० ॥
सुखदं मोक्षदं नॄणां महापातकनाशनम् ॥
ब्रह्मघ्नो मधुपः स्वर्णस्तेयी च गुरुतल्पगः ॥ ५१-४१ ॥
महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः ॥
अविमुक्तस्य माहात्म्यश्रवणाच्छुद्धिमाप्नुयात् ॥ ५१-४२ ॥
ब्राह्मणो वेदविद्वान्स्यात्क्षत्त्रियो विजयी रणे ॥
वैश्यो धनपतिः शूद्रो विष्णुभक्तसमागमी ॥ ५१-४३ ॥
श्रवणादस्य सुभगे भूयात्पठनतोऽपि वा ॥
सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ ५१-४४ ॥
तत्सर्वं समवाप्नोति पठनाच्छ्रवणादपि ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ५१-४५ ॥
भार्यार्थी लभते भार्यां सुतार्थी पुत्रमाप्नुयात् ॥
अविमुक्तस्य माहात्म्यं मया ते परिकीर्तितम् ॥ ५१-४६ ॥
विष्णुभक्ताय दातव्यं शिवभक्तिरताय च ॥
जगज्जननिभक्ताय सूर्यहेरम्बसेविने ॥ ५१-४७ ॥
गुरुशुश्रूषवे दत्वा तीर्थास्नानफलं लभेत् ॥
शठाय निन्दकायापि गोविप्रसुरविद्विषे ॥
गुरुद्रुहेऽसूयकाय दत्वा मृत्युमवाप्नुयात् ॥ ५१-४८ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे काशीमाहात्म्ये एकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥