०४९

वसुरुवाच ॥
वायव्ये तु दिशो भागे तस्य पीठस्य सुन्दरि ॥
लिङ्गं प्रस्थापितं तत्र सगरेण चतुर्मुखम् ॥ ४९-१ ॥

सागराद्वायुकोणे तु भद्रदेहं सरः स्मृतम् ॥
गवां क्षीरेण सञ्जातं सर्वपातकनाशनम् ॥ ४९-२ ॥

कपिलानां सहस्रस्य सम्यग्दत्तस्य यत्फलं ॥
तत्फलम् लभते मर्त्यः स्नानमात्रेण मोहिनि ॥ ४९-३ ॥

पूर्वाभाद्रपदायुक्ता पौर्णमासी यदा भवेत् ॥
तदा पुण्यतमः कालोह्यश्वमेधफलप्रदः ॥ ४९-४ ॥

यत्र सा दृश्यते देवी विख्याता भीष्मचण्डिका ॥
श्मशाने तां समभ्यर्च्य न नरो दुर्गतिं व्रजेत् ॥ ४९-५ ॥

अन्तकेश्वरपूर्वेण दक्षे सर्वेश्वरस्य च ॥
मातलीश्वरसौम्ये तु कृत्तिवासेश्वरः स्मृतः ॥ ४९-६ ॥

कृत्तिवासेश्वरं दृष्ट्वा तं सम्पूज्य परां गतिम् ॥
एकेन जन्मना देवि कृत्तिवासे तु लभ्यते ॥
पूर्वजन्मकृतं पापं तपसापि न शुद्ध्यति ॥ ४९-७ ॥

तत्क्षणान्नश्यते पापं तस्य लिङ्गस्य दर्शनात् ॥
कृते तु त्र्यम्बकं पूर्वं त्रेतायां कृत्तिवाससम् ॥ ४९-८ ॥

महेश्वरं तु देवस्य द्वापरे नाम गीयते ॥
हस्तिपालेश्वरं नाम कलौ सिद्धैस्तु गीयते ॥ ४९-९ ॥

कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनः पुनः ॥
यदीहेत्तारकं ज्ञानं शाश्वतं चामृतप्रदम् ॥ ४९-१० ॥

दर्शनाद्देवदेवस्य ब्रह्महापि प्रमुच्यते ॥
स्पर्शने पूजने चैव सर्वयज्ञफलं लभेत् ॥ ४९-११ ॥

श्रद्धया परया देवं येऽर्चयन्ति सनातनम् ॥
फाल्गुनस्य चतुर्दश्यां कृष्णपक्षे समाहिताः ॥ ४९-१२ ॥

पुष्पैः फलैस्तथा पत्रैर्भक्ष्यैरुच्चावचैस्तथा ॥
क्षीरेण मधुना चैव तोयेन सह सर्पिषा ॥ ४९-१३ ॥

तर्पयन्ति परं लिङ्गमर्चयन्ति शुभं शिवम् ॥
डुण्डुकारनमस्कारैर्नृत्यगीतैस्तथैव च ॥ ४९-१४ ॥

मुखवाद्यैरनेकैश्च स्तोत्रैर्मन्त्रैस्तथैव च ॥
उपोष्य रजनीमेकां भक्त्या परमया हरम् ॥ ४९-१५ ॥

ते यान्ति परमं स्थानं पूजयित्वा च मोहिनि ॥
भूतायां चैत्रमासस्य योऽर्चयेत्परमेश्वरम् ॥ ४९-१६ ॥

स च वित्तेश्वरं प्राप्य क्रीडते यक्षराडिव ॥
वैशाखस्य चतुर्द्दश्यां योऽर्चयेत्प्रयतः शिवम् ॥ ४९-१७ ॥

वैशाखलोकमासाद्य तस्यैवानुचरो भवेत् ॥
ज्येष्ठमासे चतुर्दश्यां योऽर्चयेच्छ्रद्धया हरम् ॥ ४९-१८ ॥

स्वर्गलोकमवाप्नोति यावदाभूत सम्प्लवम् ॥
चतुर्द्दश्यां शुचौ भद्रे योऽर्चयेत्प्रयतः शिवम् ॥ ४९-१९ ॥

सूर्यलोकं समासाद्य क्रीडते यावदीप्सितम् ॥
श्रावणस्य चतुर्द्दश्यां कामलिङ्गं समुत्थितम् ॥ ४९-२० ॥

ददाति वारुणं लोकं क्रीडते चाप्सरोन्वितः ॥
मासि भाद्रपदे युक्तमर्चयित्वा तु शङ्करम् ॥ ४९-२१ ॥

पुष्पैः फलैश्च विविधैरिन्द्रस्यैति सलोकताम् ॥
पितृपक्षे चतुर्द्दश्यां पूजयित्वा यथेश्वरम् ॥ ४९-२२ ॥

प्राप्नोति पितृलोकं तु क्रीडते पूजितश्च तैः ॥
प्रबोधमासे देवेशमर्चयित्वा महेश्वरम् ॥ ४९-२३ ॥

चन्द्रलोकं समासाद्यक्रीडते यावदीप्सितम् ॥
बहुले मार्गशीर्षस्य पूजयित्वा पिनाकिनम् ॥ ४९-२४ ॥

विष्णुलोकमवाप्नोति क्रीडते कालमक्षयम् ॥
अर्चयित्वा तथा पौषे स्थाणुं हृष्टेन चेतसा ॥ ४९-२५ ॥

प्राप्नोति नैर्ऋतं स्थानं तेनैव सह मोदते ॥
माघे समर्चयित्वा वै पुष्पमूलफलैः शुभैः ॥ ४९-२६ ॥

प्राप्नोति शिवलोकं तु त्यक्त्वा संसारसागरम् ॥
कृत्तिवासेश्वरं देवमर्चयेत्तु प्रयत्नतः ॥ ४९-२७ ॥

अविमुक्ते वसेच्चैव यदीच्छेच्छाङ्करं पदम् ॥
घण्टा कर्णो ह्रदस्तत्र व्यासेशस्य तु पश्चिमे ॥ ४९-२८ ॥

स्नानं कृत्वा ह्रदे तस्मिन्व्यासेशस्य च दर्शनात् ॥
यत्र तत्र मृतो देवि वाराणस्यां मृतो भवेत् ॥ ४९-२९ ॥

दण्डखाते नरः स्नात्वा तर्पयित्वा स्वकान्पितॄन् ॥
नरकस्थास्तु ये देवि पितृलोकं व्रजन्ति ते ॥ ४९-३० ॥

पिशाचत्वं गता देवि ये नराः पापकर्मिणः ॥
तेषां पिण्डप्रदानेन देहस्योद्धरणं स्मृतम् ॥ ४९-३१ ॥

दर्शनात्तस्य खातस्य कृतकृत्योऽभिजायते ॥
तत्रैव ललिता देवी वर्तते लोकशर्मदा ॥ ४९-३२ ॥

ये च तां पूजयिष्यन्ति तस्मिन्स्थाने स्थिताः स्वयम् ।
तेषां सा विविधान्भोगान्सम्प्रदास्यति मानदे ॥ ४९-३३ ॥

जागरं ये तु तस्याश्च पुरः कुर्वन्ति दीपकैः ॥
तेषां सा ह्यक्षयान् लोकान् वितरिष्यति मोहिनि ॥ ४९-३४ ॥

आलयं ये प्रकुर्वन्ति भूमिं सम्मार्जयन्ति च ॥
तेषामष्टसहस्रस्य सुवर्णस्य फलं भवेत् ॥ ४९-३५ ॥

तामुद्दिश्य तु यो देवि ब्राह्मणान्वेदपारगान् ॥
भोजयिष्यति मिष्टान्नैस्तस्य पुण्यफलं श्रृणु ॥ ४९-३६ ॥

दुर्गालोके वसेत्कल्पमिहैवागच्छते पुनः ॥
नरो वा यदि वा नारी सर्वभोगसमन्वितौ ॥ ४९-३७ ॥

धनधान्यसमायुक्तौ जायेते महतां कुले ॥
सुभगौ दर्शनीयौ च रूपयौवनगार्वितौ ॥ ४९-३८ ॥

भवेतामीदृशौ देवि सर्वसौख्यस्य भाजनौ ॥
मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ॥ ४९-३९ ॥

येन सा ललिता दृष्टा तस्य जन्मभयं कुतः ॥
पृथ्वीप्रदक्षिणां कृत्वा यत्फलं लभते नरः ॥ ४९-४० ॥

तत्फलं ललितायाश्च वाराणस्यां प्रदर्शनात् ॥
मासि मासि चतुर्थ्यां तु तस्मिन्काल उपोषितः ॥ ४९-४१ ॥

अर्चयित्वा तु तां देवीं जागरं तत्र कारयेत् ॥
तस्यार्द्धिः सकला देवि त्रैलोक्यस्यापि पूजितम् ॥ ४९-४२ ॥

नलकूबरकेशानं ते च सम्पूज्य मोहिनि ॥
सर्वसिद्धिप्रदातारं कृत्यकृत्यो नरो भवेत् ॥ ४९-४३ ॥

तस्यैव दक्षिणे देवि मणिकर्णीति च श्रुतम् ॥
तस्य चाग्रे महत्तीर्थं सर्वपापप्रणाशनम् ॥ ४९-४४ ॥

मणिकर्णीश्वरं देवं कुण्डमध्ये व्यवस्थितम् ॥
दृष्ट्वा नत्वा समभ्यर्च्य न भूयो जठरे वसेत् ॥ ४९-४५ ॥

तस्य दक्षिणपार्श्वे तु गङ्गायां स्थापितं परम् ॥
गङ्गेश्वरं समभ्यर्च्य सुरलोकमवाप्नुयात् ॥ ४९-४६ ॥

अन्यदायतनं वक्ष्ये वाराणस्यां सुमोहिनि ॥
यत्र वै देवदेवस्य रुचिरं स्थानमीप्सितम् ॥ ४९-४७ ॥

नीयमानं पुरा लिङ्गं सुभगे शशिमौलिनः ॥
राक्षसैरन्तरिक्षस्थैर्व्रजमानैश्च सत्वरम् ॥ ४९-४८ ॥

अस्मिन्देशे यदा प्राप्तं तदा देवेन चिन्तितम् ॥
अविमुक्तवियोगस्तु कथं मे न भवेदिति ॥ ४९-४९ ॥

इममर्थं तु देवेशो यावच्चिन्तयते शुभे ॥
तावत्कुक्कुटशब्दस्तु तस्मिन्स्थाने बभूव ह ॥ ४९-५० ॥

शब्दं श्रुत्वा तु तं देवि राक्षसास्त्रस्तचेतसः ॥
लिङ्गमुत्सृज्य तत्रैव प्रभातसमये गताः ॥ ४९-५१ ॥

गतेषु राक्षसेष्वेवं लिङ्गं तत्रैव संस्थितम् ॥
स्थानेऽतिरुचिरे शुभ्रे देवदेवः स्वयं प्रभुः ॥ ४९-५२ ॥

अविमुक्ते तत्र मध्ये अविमुक्ततरं स्मृतम् ॥ ४९-५३ ॥

तदा विमुक्तेति सुरैर्हरस्य नाम स्मृतं पुण्यतमाक्षराढ्यम् ॥
मोक्षप्रदं स्थावरजङ्गमानां ये प्राणिनः पञ्चतां यान्ति तत्र ॥ ४९-५४ ॥

कुक्कुटाश्चापि सुभगे तस्मिन्स्थाने स्थिताः सदा ॥
अद्यापि तत्र दृश्यन्ते पूज्यमानाः शुभात्मभिः ॥ ४९-५५ ॥

अविमुक्तं सदा देवि यः श्रयेदीक्षया नरः ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ४९-५६ ॥

देवस्य दक्षिणे भागे वापी तिष्ठति शोभना ॥
तस्यास्तथोदकं पीत्वा नावृत्तिः पुनरत्र च ॥ ४९-५७ ॥

त्रीणि लिङ्गानि वर्तन्ते हृदये पुरुषस्य तु ॥
तथा यैस्तज्जलं पीतं ते कृतार्थास्तु मानवाः ॥ ४९-५८ ॥

तेषां तु तारकं ज्ञानमस्त्येवेति न संशयः ॥
वापीजले नरः स्नात्वा दृष्ट्वा दण्डकनामकम् ॥ ४९-५९ ॥

अविमुक्तं ततो दृष्ट्वा कैवल्यं लभते क्षणात् ॥
तत्र सन्ध्यामुपासित्वा ब्राह्मणः सकृदेव तु ॥ ४९-६० ॥

पञ्चषष्टिसमाः सन्ध्या तेन चोपासिता भवेत् ॥
पुरीं वाराणसीं तां तु श्मशानं चाविमुक्तकम् ॥ ४९-६१ ॥

अविमुक्तेश्वरं चैव दृष्ट्वा गणपतिर्भवेत् ॥
अविमुक्तेश्वरं लिङ्गं तत्र दृष्ट्वैव मानवः ॥ ४९-६२ ॥

सद्यः पापैस्तथा रोगैः पशुपाशैर्विमुच्यते ॥
अविमुक्तस्य चाग्रे तु लिङ्गं पश्चान्मुखं स्थितम् ॥ ४९-६३ ॥

अविमुक्तं च तं भद्रे नाम्ना वै लक्षणेश्वरम् ॥
तेन वै दृष्टमात्रेण ज्ञानवान् जायते नरः ॥ ४९-६४ ॥

तस्य चोत्तरतो देवि लिङ्गं चैव चतुर्मुखम् ॥
चतुर्थेश्वरनामेदं पापभीमोचनं परम् ॥ ४९-६५ ॥

क्षेत्रं वाराणसीनाम मुक्तिदं प्राणिनां भुवि ॥
अविमुक्तेश्वरं तत्र जीवन्मुक्तं प्रकीर्तितम् ॥ ४९-६६ ॥

यत्र तत्र स्थितस्यापि गाणपत्यं विधीयते ॥
प्राणांस्तु तत्र सन्त्यज्य मुक्तिमात्यन्तिकीं व्रजेत् ॥ ४९-६७ ॥

एतदभ्यन्तरे क्षेत्रे प्रथमावरणं स्मृतम् ॥
तथा द्वितीयावरणे प्राच्यां तु मणिकर्णिका ॥ ४९-६८ ॥

सप्तकोट्यस्तुलिङ्गानि तत्र स्थाने स्थितानि हि ॥
तेषां दर्शनमात्रेण यज्ञानां फलमाप्नुयात् ॥ ४९-६९ ॥

एतानि सिद्धलिङ्गानि कूपाः पुण्यास्तस्था ह्रदाः ॥
वाप्यो नद्योऽथ कुण्डानि तथा तेऽपि प्रकीर्तिताः ॥ ४९-७० ॥

एतेषु चैव यः स्नानं करिष्यति समाहितः ॥
लिङ्गानि स्पर्शयित्वा च संसारे न विशेत्पुनः ॥ ४९-७१ ॥

पृथिव्यां यानि तीर्थानि ह्यन्तरिक्षे च यानि तु ॥
तेषां मध्ये तु मुख्यानि कीर्तितानि मया हि ते ॥ ४९-७२ ॥

तीर्थयात्रा वरारोहे कथिता पापनाशिनी ॥
येन चैषा कृता दृष्टा सोऽपि वै मुक्तिभाग्भवेत् ॥ ४९-७३ ॥

अविमुक्तं तु सुश्रोणि मध्यमावरणं शुभम् ॥
एतत्तु कण्टकं नाम मृत्युकालेऽभृतप्रदम् ॥ ४९-७४ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्ये तीर्थयात्रावर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥