०४७

वसुरुवाच ॥
पञ्चमेऽह्नि गदालोले कृत्वा स्नानादि पूर्ववत् ॥
श्राद्धं सपिण्डकं कुर्यात्ततोऽक्षयवटे नरः ॥ ४७-१ ॥

तत्र श्राद्धादिकं कृत्वा पितॄन्ब्रह्मपुरं नयेत् ॥
ब्रह्मप्रकल्पितान् विप्रान्भोजयेत्पूजयेदथ ॥ ४७-२ ॥

कृतश्राद्धोऽक्षयवटे अनेनैव प्रयत्नतः ॥
दृष्ट्वा नत्वाथ सम्पूज्य वटेशं च समाहितः ॥ ४७-३ ॥

पितॄन्नयेद्ब्रह्मपुरमक्षयं तु सनातनम् ॥
“गदालोले महातीर्थे गदाप्रक्षालने वरे ॥ ४७-४ ॥

स्नानं करोमि शुद्ध्यर्थमक्षय्याय स्वराप्तये ॥
एकान्तरे वटस्याग्रे यः शेते योगानिद्रया ॥ ४७-५ ॥

बालरूपधरस्तस्मै नमस्ते योगशायिने ॥
संसारवृक्षशस्त्रायाशेषपापक्षयाय च ॥ ४७-६ ॥

अक्षय्यब्रह्मदात्रे च नमोऽक्षय्यवटाय वै” ॥
“कलौ माहेश्वरा लोका येन तस्माद् गदाधरः ॥ ४७-७ ॥

लिङ्गरूपोऽभवत्तं च वन्दे त्वां प्रपितामहम्” ॥
नयेत्पितॄन्न्रुपदं नत्वा तं प्रपितामहम् ॥ ४७-८ ॥

हेतिं हत्वासुरं तस्य शिरश्चैव द्विधा कृतम् ॥
गदया सा गदा यत्र क्षालिता प्रभुणाऽभवत् ॥ ४७-९ ॥

गदालोलमिति ख्यातं तत्तीर्थप्रवरं ह्यभूत् ॥
हेती रक्षो ब्रह्मपुत्ररतपस्तेपेऽद्भुतं महत् ॥ ४७-१० ॥

ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान् ॥
दैत्यादिभिश्च शश्त्राद्यैर्विविधैर्मनुजैरपि ॥ ४७-११ ॥

कृष्णेशानादिचक्राद्यैरवध्यः स्यां महाबलः ॥
तथेत्युक्त्वान्तर्हितास्ते हेतिर्देवानथा जयत् ॥ ४७-१२ ॥

इन्द्रत्वमकरोद्भेतिस्तदा ब्रह्महरादतयः ॥
देवा हरिं प्रपन्नास्तमूचुर्हेतिं जहीति च ॥ ४७-१३ ॥

ऊचे हरिरवध्योऽयं हेतिर्देवाः सुरासुरैः ॥
ब्रह्मास्त्रं मे प्रयच्छद्ध्वं हेतिं हन्यां हि येन तम् ॥ ४७-१४ ॥

इत्युक्तास्ते ततो देवा विष्णवे तां गदौ ददुः ॥
उपेन्द्र त्वं जहीत्येव हेतिं प्रोचुरजादयः ॥ ४७-१५ ॥

दधार तां गदामाजौ देवैरुक्तो गदाधरः ॥
गदया हेतिमाहत्य देवेभ्यस्त्रिदिवं ददौ ॥ ४७-१६ ॥

उपोषितोऽथ गायत्रीतीर्थे महानदीस्थिते ॥
गायत्र्या पुरतः स्नातस्ततः सन्ध्यां समाचरेत् ॥ ४७-१७ ॥

श्राद्धं सपिण्डकं कृत्वा नयेद्ब्राह्मणतां कुलम् ॥
तीर्थे समुद्यते स्नात्वा सावित्र्याः पुरतो नरः ॥ ४७-१८ ॥

सन्ध्यामुपास्य मध्याह्ने नयेत्पितॄन्विधिक्षयम् ॥
प्राचीसरस्वतीस्नातः सरस्वत्यास्ततोऽग्रतः ॥ ४७-१९ ॥

सन्ध्यामुपास्य सायाह्ने नयेत्सर्वज्ञतां कुलम् ॥
बहुजन्मकृतात्सन्ध्यालोपपापाद्विशुद्ध्यति ॥ ४७-२० ॥

विशालायां लिलेहाने तीर्थे च भरतागश्रमे ॥
पदाङ्किते मुण्डपृष्ठे गदाधरसमीपतः ॥ ४७-२१ ॥

तीर्थ आकाशगङ्गायां गिरिकर्णमुखेषु च ॥
श्राद्धदः पिण्डदो ब्रह्मलोकं पितृशतं नयेत् ॥ ४७-२२ ॥

स्नातो गोदावैतरण्यां त्रिःसप्तकुलमुद्धरेत् ॥
देवनद्यां गोप्रचारे तथा मानसके पदे ॥ ४७-२३ ॥

पुष्करिण्यां गदालोले तीर्थे चामरके तथा ॥
कोटितीर्थे रुक्मकुण्डे पिण्डदः स्वर्नयेत्पितॄन् ॥ ४७-२४ ॥

मार्कण्डेयेशकोटिशौ नत्वा स्यात्पितृतारकः ॥
तथा पाण्डुशिलायास्तु पुण्यदायाः सुलोचने ॥ ४७-२५ ॥

दृष्टिमात्रेण सम्पूतान्नरकस्थान्दिवं नयेत् ॥
इत्युक्त्वा प्रययौ पाण्डुः शाश्वतं पदमव्ययम् ॥ ४७-२६ ॥

घृतकुल्या मधुकुल्या देविका च महानदी ॥
शिलायां सङ्गता तत्र मधुस्रवा प्रकीर्तिता ॥ ४७-२७ ॥

अयुतं ह्यश्वमेधानां स्नानेन लभते नरः ॥
तर्पयित्वा पितृर्गण्णं श्राद्धं कृत्वा सपिण्डकम् ॥ ४७-२८ ॥

सहस्रकुलमुद्धृत्य नयेद्विष्णुपुरं नरः ॥
उद्भिज्जाः स्वेदजा वापि ह्यण्डजा ये जरायुजाः ॥ ४७-२९ ॥

मधुस्रवां समासाद्य मृता विष्णुपदं ययुः ॥
दशाश्वमेधिके हंसतीर्थे श्राद्धाद्दिवं व्रजेत् ॥ ४७-३० ॥

दशाश्वमेधहंसौ च नत्वा शिवपुरं व्रजेत् ॥
मतङ्गस्य पदे श्राद्धकर्ता ब्रह्मपुरे वसेत् ॥ ४७-३१ ॥

निर्मथ्याग्नीन्शमीगर्भे विधिर्विष्ण्वादिभिः सह ॥
मन्थोकुण्डं हि तत्तीर्थं पितॄणां मुक्तिकारकम् ॥ ४७-३२ ॥

तर्पणात्पिण्डदानाच्च स्नानकृन्मुक्तिमाप्नुयात् ॥
पितॄन्स्वर्गं नयेन्नत्वा रामेशकरकेश्वरौ ॥ ४७-३३ ॥

गयाकूपे पिण्डदानादश्वमेधफलं लभेत् ॥
भस्मकूटे भस्मनाऽथ स्नानात्तारयते पितॄन् ॥ ४७-३४ ॥

धौतपापोऽथ निःक्षघीरासङ्गमे स्नानकृन्नरः ॥
श्राद्धी रामपुष्करिण्यां ब्रह्मलोकं नयेत्पितॄन् ॥ ४७-३५ ॥

सुषुम्नायां महानद्यां त्रिःसप्तकुलमुद्धरेत् ॥
स्नातो नत्वा वसिष्ठेशं तस्य तीर्थेऽश्वमेधभाक् ॥ ४७-३६ ॥

पिडन्दो धेनुकारण्ये कामधेनुपदेषु च ॥
स्नातो नत्वा तु तं देवं ब्रह्मलोकं नयेत्पितॄन् ॥ ४७-३७ ॥

कर्दमाले गयानाभौ मुण्डपृष्ठसमीपतः ॥
स्नात्वा श्राद्धी नयेत्स्वर्गं पितॄन्नत्वा च चण्डिकाम् ॥ ४७-३८ ॥

फल्गुचण्डीशनामानं सङ्गमाधीशमर्च्य च ॥
गयागजो गयादित्यो गायत्री च गदाधरः ॥ ४७-३९ ॥

गया गयाशिरश्चैव षड्गया मुक्तिदायिकाः ॥
गयायां तु वृषोत्सर्गात्त्रिः सप्तकुलमुद्धरेत् ॥ ४७-४० ॥

यत्र तत्र स्थितो विप्रगदितो विजितेन्द्रियः ॥
आद्यं गदाधरं ध्यायन् श्राद्धपिण्डानि कारयेत् ॥ ४७-४१ ॥

कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेद्ध्रुवम् ॥
ततो दध्योदनेनैव दत्वा नैवेद्यमुत्तमम् ॥ ४७-४२ ॥

जनार्दनाय देवाय समभ्यर्च्य यथाविधि ॥
दद्यान्निक्षिप्य पिण्डांस्तु तच्छेषेणैव जीवति ॥ ४७-४३ ॥

दैत्यस्य मुण्डपृष्ठे तु यस्मात्सा संस्थिता शिला ॥
तस्माद्वै मुण्डपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ॥ ४७-४४ ॥

रामे वनं गते शैलमारुह्य भरतः स्थितः ॥
पित्रे पिण्डादिकं दत्वा रामेशं स्थाप्य तत्र च ॥ ४७-४५ ॥

स्नात्वा नत्वा च रामेशं रामं सीतां समाहितः ॥
श्राद्धं पिण्डप्रदानं च कृत्वा विष्णुपुरं व्रजेत् ॥ ४७-४६ ॥

पितृभिः सह धर्मात्मा कुलानां च शतैः सह ॥
शिलादक्षिणहस्ते च स्थापितः कुण्डपृष्ठतः ॥ ४७-४७ ॥

तत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् ॥
कुण्डेनाथ तपस्तप्तं सीताद्रेर्दक्षिणे नगे ॥ ४७-४८ ॥

मतङ्गस्य पदे पुण्ये पिण्डदः स्वर्नयेत्पितॄन् ॥
वामहस्ते शिलायाश्च ह्यन्तको विधृतो गिरिः ॥ ४७-४९ ॥

उदयाद्रिरिहानीतो ह्यगस्त्येन महात्मना ॥
स्थापितः पिण्डदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥ ४७-५० ॥

कुण्डमुद्यन्तकं तत्र स्वात्मनस्तपसे कृतम् ॥
ब्रह्मा तत्र च सावित्री कुमाराभ्यां स्थितस्त्विह ॥ ४७-५१ ॥

हाहाहूंहूप्रभृतयो गीतं वाद्यं प्रचक्रमुः ॥
स्नातोऽगस्त्ये च मध्याह्ने सावित्रीं समुपास्य च ॥ ४७-५२ ॥

कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥
अगस्त्यस्य पदे स्नातः पिण्डदः स्वर्न्नयेत्पितॄन् ॥ ४७-५३ ॥

ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः ॥
परं ब्रह्म स यातीह विमुक्तो योनिसङ्कटात् ॥ ४७-५४ ॥

नत्वा गयाकुमारं च ब्राह्मण्यं लभते नरः ॥
सोमकुण्डाभिषेकाद्यैः सोमलोकं नयेत्पितॄन् ॥ ४७-५५ ॥

बलिः काकशिलायां तु काकेभ्यः क्षणमोक्षदः ॥
स्वर्गद्वारेश्वरं नत्वा स्वर्गाद्ब्रह्मपुरं नयेत् ॥ ४७-५६ ॥

पिण्डदो व्योमगङ्गायां निर्मलः स्वर्नयेत्पितॄन् ॥
शिलाया दक्षिणे हस्ते भस्मकूटमधारयत् ॥ ४७-५७ ॥

धर्म्मोऽस्तत्र च हरस्तन्नाम समकारयत् ॥
यत्रासौ भस्मकूटाद्रिर्भस्मनामा तु मोहिनि ॥ ४७-५८ ॥

वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः ॥
तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी ॥ ४७-५९ ॥

कपिलेशो नदीतीरे उमासोमसमागमः ॥
कपिलायां नरः स्नात्वा कपिलेशं नमेद्यजेत् ॥ ४७-६० ॥

श्राद्धदः स्वर्गभागी स्यान्महेशीकुण्ड एव च ॥
गौरी च मङ्गला तत्र सर्वसौभाग्यदार्चिता ॥ ४७-६१ ॥

जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः ॥
मन्त्रेण चात्मनोऽन्येषां सव्येनापि तिलैर्विना ॥ ४७-६२ ॥

पिण्डं च दधिसम्मिश्रं सर्वे ते विष्णुलोकगाः ॥
“एष पिण्डो मया दत्तस्तवहस्ते जनार्दन ॥ ४७-६३ ॥

गयाश्राद्धे त्वया देयो मह्यं पिण्डो मृते मयि ॥
तुभ्यं पिण्डो मया दतो यमुद्दिश्य जनार्दन ॥ ४७-६४ ॥

देहि देव गयाशीर्षे तस्मै तस्मै मृते ततः ॥
जनार्दन नमस्तुभ्यं नमस्ते पितृरूपिणे ॥ ४७-६५ ॥

पितृपात्र नमस्तुभ्यं नमस्ते मुक्तिहेतवे ॥
गयायां पितॄरूपेण स्वयमेव जनार्दनः ॥ ४७-६६ ॥

तं दृष्ट्वा पुण्डरीङ्काक्षं मुच्यते च ऋणत्रयात् ॥
नमस्ते पुण्डरीकाक्षं ऋणत्रयविमोचन ॥ ४७-६७ ॥

लक्ष्मीकान्त नमस्तेऽस्तु नमस्ते पितृमोक्षद” ॥
पुण्डरीकाक्षमभ्यर्च्य स्वर्गङ्गः स्याज्जनार्दनम् ॥ ४७-६८ ॥

वामजानुं तु सम्पात्य नत्वा भूमिं जनार्दनम् ॥
श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्विष्णुलोकभाक् ॥ ४७-६९ ॥

शिलाया वामपादे तु प्रेतकूटो गिरीर्धृतः ॥
धर्मराजेन पापढ्यो गिरिः प्रेतशिलामयः ॥ ४७-७० ॥

पादेन द्वरे निक्षिप्तः शिलायाः पादभारतः ॥
प्रेता धानुष्करूपेण करग्रहण कारकाः ॥ ४७-७१ ॥

पृथक् स्थिताश्च बहवो विघ्नकारिण एव ते ॥
श्राद्धादिकारीणं नॄणां तीर्थे पितृविमुक्तये ॥ ४७-७२ ॥

गतः शिलाद्रिसम्पर्कात्प्रेतकूटः पवित्रताम् ॥
प्रेतकुण्डं तु तत्रास्ते देवास्तत्र पदैः स्थिताः ॥ ४७-७३ ॥

श्राद्धपिण्डादिकृत्स्नातः प्रेतत्वान्मोचयेत्पितॄन् ॥
कीकटेषु गया पुण्या पुण्यं राज गृहं वनम् ॥ ४७-७४ ॥

च्यवनस्याश्रमः पुण्यो नदी पुण्या पुनः पुना ॥
वैकुण्ठो लोहदण्डश्च गिरिकूटश्च शोणगः ॥ ४७-७५ ॥

श्राद्धपिण्डादिकृत्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥
शिलादक्षिणपादे तु गृध्रकूटो गिरिर्धृतः ॥ ४७-७६ ॥

धर्मराजेन स्वस्थैर्यकरणायाशु पावनः ॥
गृध्ररूपेण संसिद्धास्तपः कृत्वा महर्षयः ॥ ४७-७७ ॥

अतो गिरिर्गृध्रकूडस्तत्र गृध्रेश्वरः शिवः ॥
दृष्ट्वा गृध्रेश्वरं स्नात्वा याति शम्भोः पुरं नरः ॥ ४७-७८ ॥

तत्र गृध्रपुरं गत्वा प्राप्तकालो दिवं व्रजेत् ॥
ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् ॥ ४७-७९ ॥

आदिप्रादेन गिरिणा समाक्रान्तं शिलोदकम् ॥
तत्रास्ते गजरूपेण विघ्नेशो विध्ननाशनः ॥ ४७-८० ॥

तं दृष्ट्वा मुच्यते विघ्नैः पितॄञ्छिवपुरं नयेत् ॥
गायत्रीं च गयादित्यं स्नातो दृष्ट्वा दिवं व्रजेत् ॥ ४७-८१ ॥

ब्रह्माणं चादिपादस्थं दृष्ट्वा स्यात्पितृतारकः ॥
नाभौ च पिण्डदो यस्तु पितॄन्ब्रह्मपुरं नयेत् ॥ ४७-८२ ॥

शोभार्थे मुण्डपृष्ठस्य अरविन्दवरं त्वभूत् ॥
मुण्डपृष्ठारविन्दे च दृष्ट्वा पापैर्विमुच्यते ॥ ४७-८३ ॥

श्रृङ्गिभिर्दंष्ट्रिभिर्व्यालैर्विषवह्निस्त्रिया जलैः ॥
सुदूरात्परिहर्तव्यः कुर्वन् क्रीडां मृतस्तु यः ॥ ४७-८४ ॥

नागानां विप्रियं कृर्वन्हतश्चाप्यथ विद्युता ॥
निगृहीतः स्वयं राज्ञा चौर्यदोषेण च क्वचित् ॥ ४७-८५ ॥

परदारा न्रमन्तश्च द्वेषात्तत्पतिभिर्हताः ॥
असमानैश्च सङ्कीर्णैश्चाण्डालाद्यैश्च विग्रहम् ॥ ४७-८६ ॥

कृत्वा तैर्निहतास्तांश्च चाण्डालादीन्समाश्रिताः ॥
गवाग्निविषदाश्चैव पाखण्डाः क्रूरबुद्धयः ॥ ४७-८७ ॥

क्रोधात्प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम् ॥
गिरिवृक्षात्प्रपातं च ये कुर्वन्ति नराधमाः ॥ ४७-८८ ॥

कुशिल्पजीविनो ये च पञ्चसूनाधिकारिणः ॥
मखे सभासु ये केचिद्दीनप्राया नपुंसकाः ॥ ४७-८९ ॥

ब्रह्मदण्डहता ये तु ये चापि ब्राह्मणैर्हताः ॥
महापातकिनो ये च पतितास्ते प्रकीर्तिताः ॥ ४७-९० ॥

स्नानेन शुद्धिमायान्ति गयाकूपस्य भस्मना ॥
इति ते कथितं देवि गयामाहात्म्यमुत्तमम् ॥ ४७-९१ ॥

सर्वपापप्रशमनं पितॄणां मुक्तिदायकम् ॥
यः श्रृणोति नरो भक्त्या श्राद्धे पर्वणि वान्वहम् ॥ ४७-९२ ॥

श्रावयेद्वावरारोहे सोऽपि स्याद्ब्रह्मलोकभाक् ॥
इदं स्वस्त्ययनं पुण्यं धन्यं स्वर्गतिदन्नृणाम् ॥ ४७-९३ ॥

यशस्यमपि चायुष्यं पुत्रपौत्रविवर्द्धनम् ॥ ४७-९४ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्यं नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥