०४४

वसिष्ठ उवाच ॥
ततस्तु मोहिनी भूपश्रुत्वा माहात्म्यमुत्तमम् ॥
गङ्गायाः पापनाशिन्याः पुनः प्राह पुरोहितम् ॥ ४४-१ ॥

मोहिन्युवाच ॥
त्वया चानुगृहीतास्मि भगवन्ननुकम्पया ॥
यदुक्तं पुण्यमाख्यानं गङ्गायाः पापशोधनम् ॥ ४४-२ ॥

गयातीर्थं तु विख्यातं कथं लोके द्विजोत्तम ॥
तदहं श्रोतुमिच्छामि कृपां कृत्वाधुना वद ॥ ४४-३ ॥

वसुरुवाच ॥
पितृतीर्थं गयानाम सर्वतीर्थवरं स्मृतम् ॥
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ॥ ४४-४ ॥

यत्रैषा पितृभिर्गीता गाथा योगमभीप्सुभिः ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ ४४-५ ॥

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
सारात्सारतरं देवि गयामाहात्म्यमुत्तमम् ॥ ४४-६ ॥

प्रवक्ष्यामि समासेन भुक्तिमुक्तिप्रदं श्रृणु ॥
गयासुरोऽभवत्पूर्वं वीर्यवान्परमः स च ॥ ४४-७ ॥

तपश्चक्रे महाघोरं सर्वभूतोपतापनम् ॥
तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः ॥ ४४-८ ॥

शरणं हरिरूचे तान्भवितव्यं शिवात्मभिः ॥
पातितस्य महान्देहे तथेत्यूचुः सुरा हरिम् ॥ ४४-९ ॥

कदाचिच्छिवपूजार्थं क्षीराब्धेः कमलानि च ॥
आनीय निकटे देशे शयनं चाकरोद्धरेः ॥ ४४-१० ॥

विष्णुमायाविमूढोऽसौ गदया विष्णुना हतः ॥
ततो गदाधरो विष्णुर्गयायां मुक्तिदः स्मृतः ॥ ४४-११ ॥

तस्य देहे लिङ्ग रूपी स्थितः शुद्धः पितामहः ॥
विष्णुवाहार्थमर्यादां पुण्यक्षेत्रं भविष्यति ॥ ४४-१२ ॥

यज्ञं श्राद्धं पिण्डदानं स्नानादि कुरुते नरः ॥
स स्वर्गे ब्रह्मलोकं वा गच्छेन्न नरकं नरः ॥ ४४-१३ ॥

गयातीर्थं परं ज्ञात्वा योगं चक्रे पितामहः ॥
ब्राह्मणान्पूजयामास ऋषींश्च समुपागतान् ॥ ४४-१४ ॥

नदीं सरस्वन्तीं सृष्ट्वा स्थितो व्याप्तदिगन्तरः ॥
भक्ष्यभोज्यफलादींश्च कामधेनूस्तथासृजत् ॥ ४४-१५ ॥

पञ्चक्रोशं गयातीर्थं ब्राह्मणेभ्यो धनं ददौ ॥
धर्मयागे तु लोभाद्वै प्रतिगृह्य धनादिकम् ॥ ४४-१६ ॥

स्थिता विप्रास्तदा शप्ता गयायां ब्रह्मणा ततः ॥
मा भूत्त्रिपुरुषी विद्या माभूत्त्रिपुरुषं धनम् ॥ ४४-१७ ॥

युष्माकं स्याद्धि विरसा नदी पाषाणपर्वतः ॥
स तैंस्तु प्रार्थितो ब्रह्मा तीर्थानिकृतवान्प्रभुः ॥ ४४-१८ ॥

लोकाः पुण्या गयायां वै श्राद्धेन ब्रह्मलोकगाः ॥
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥ ४४-१९ ॥

ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ॥
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥ ४४-२० ॥

समुद्राः सरितः सर्वे वापीकूपह्नदास्तथा ॥
स्नातुकामा गयातीर्थं देवि यान्ति न संशयः ॥ ४४-२१ ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥
पापं तत्सङ्गजं सर्वं गयाश्राद्धिनश्यति ॥ ४४-२२ ॥

असंस्कृता मृता ये च पशुभिः प्रहताश्च ये ॥
सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्गं व्रजन्ति ते ॥ ४४-२३ ॥

गयायां पिण्डदानेन यत्फलं लभते नरः ॥
न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ ४४-२४ ॥

अत्रैव श्रूयते देवि इतिहासः पुरातनः ॥
तं प्रवक्ष्यामि सुभगे श्रृणुष्वैकाग्रमानसा ॥ ४४-२५ ॥

त्रेतायुगे वै नृपतिर्बभूव विशालनामा स पुरीं विशालाम् ॥
उवास धन्यो धृतिमानपुत्रः स्वयं विशालाधिपतिर्द्विजाग्र्यान् ॥ ४४-२६ ॥

पप्रच्छ पुत्रार्थममित्रहन्ता तं ब्राह्मणाः प्रोचुरदीनसत्वाः ॥
राजन् पितॄंस्तर्पय पुत्रहेतोर्गत्वा गयायां विधिवत्तु पिण्डैः ॥ ४४-२७ ॥

ध्रुवं ततस्ते भविता तु वीर सहस्रदाता सकलक्षितीशः ॥
इतीरितो विप्रगणैः स दृष्टो राजा विशालाधिपतिः प्रयत्नात् ॥ ४४-२८ ॥

समस्ततीर्थप्रवरां द्विजेन गयामियात्तद्गतमानसः सन् ॥
आगत्य तीर्थप्रवरं सुतार्थी गयाशिरो यागपरः पितॄणाम् ॥ ४४-२९ ॥

पिण्डप्रदानं विधिना प्रयच्छत्तावद्वियत्युत्त ममूर्तियुक्तान् ॥
पश्यन् स पुंसः सितरक्तकृष्णानुवाच राजा किमिदं भवन्तः ॥ ४४-३० ॥

समुंह्यते शंसत सर्वमेतत्कुतूहलं मे मनसि प्रवृत्तम् ॥

॥ सित उवाच ॥
अहं सितस्ते जनकोऽस्मि राजन्नाम्ना च वर्णेन च कर्मणा च ॥ ४४-३१ ॥

अयं च मे जनको रक्तवर्णो नृशंसकृद्ब्रह्महा पापकारी ॥
अतः परं श्रृणु प्रपितामहश्च कृष्णो नाम्ना कर्मणा वर्णतश्च ॥ ४४-३२ ॥

एतेन कृष्णेन हता पुरा वै जन्मन्यनेका ऋषयः पुराणाः ॥
एतौ स्मृतौ द्वावपि पितृपुत्रौ अवीचिसञ्ज्ञं नरकं प्रविष्टौ ॥ ४४-३३ ॥

अतः परोऽयं जनकः परोऽस्य तत्कृष्णवक्त्रावपि दीर्घकालम् ॥
अहं च शुद्धेन निजेन कर्मणा शक्रासनं प्राप्य सुदुर्लभं तकत् ॥ ४४-३४ ॥

त्वया पुनर्मन्त्रविदा गयायां पिण्डप्रदानेन बलादिमौ च ॥
मोक्षायितौ तीर्थवरप्रभावाद वीचिसञ्ज्ञं नरकं गतौ तौ ॥ ४४-३५ ॥

पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ॥
प्रीणयामीति यत्तोयं त्वया दत्तमरिन्दम ॥ ४४-३६ ॥

तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ॥
तीर्थप्रभावाद्गच्छामः पितृलोकं न संशयः ॥ ४४-३७ ॥

तत्र पिण्डप्रदानेन एतौ तव पितामहौ ॥
त्वद्गतावपि संसिद्धौ पापाद्विकृतलिङ्गकौ ॥ ४४-३८ ॥

एतस्मात्कारणात्पुत्र अहमेतौ प्रगृह्य तु ॥
आगतोऽस्मि भवन्तं वै द्रंष्टु यास्यामिसाम्प्रतम् ॥ ४४-३९ ॥

तीर्थप्रभावाद्यत्नेन ब्रह्मघ्नस्यापि वै पितुः ॥
गयायां पिण्डदानेन कुर्यादुद्धरणं सुतः ॥ ४४-४० ॥

इत्येवमुक्त्वा तु पितासितोऽस्य सार्द्धं च ताभ्यां हि पितामहाभ्याम् ॥
जगाम सद्यो हि सुतं विशालं संयोज्य चाशीर्भिरपि स्वलोकम् ॥ ४४-४१ ॥

सकृद्गयाभिगमनं सकृत्पिण्डप्रपातनम् ॥
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितिः ॥ ४४-४२ ॥

क्रियते पतितानां तु गते संवत्सरे क्वचित् ॥
देशकालप्रमाणत्वाद्गया कूपे स्वबन्धुभिः ॥ ४४-४३ ॥

प्रेतराजोऽथ वणिजं कञ्चित्प्राह स्वमुक्तये ॥
गयातीर्थं तु दृष्ट्वा त्वं स्नात्वा शौचसमन्वितः ॥ ४४-४४ ॥

मम नाम सम्रुद्दिश्य पिण्डनिर्वपणं कुरु ॥
तत्र पिण्डप्रदानेन प्रेतभावादहं सुखम् ॥ ४४-४५ ॥

मुक्तस्तु सर्वदादॄणां प्राप्स्यामि शुभलोकताम् ॥
इत्येवमुक्त्वा वणिज प्रेतराजोऽनुगैः सह ॥ ४४-४६ ॥

स्वनामानि यथान्यायं सम्यगाख्यातवान्रहः ॥
उपार्जियित्वा प्रययौ गयाशीर्षमनुत्तमम् ॥ ४४-४७ ॥

पांशुनिर्वपण चक्रे प्रेतानामनुपूर्वशः ॥
तकार वसुदानं च पितॄन्कृत्वा पुरःसरान् ॥ ४४-४८ ॥

आत्मनोऽसौ महाबुद्धिर्विधानापि तिलैर्विना ॥
पिण्डनिर्वपणं चक्रे तथा न्यानपि गोत्रजन् ॥ ४४-४९ ॥

एवं दत्ते तु वै पिण्डे वणिजा प्रेतभावतः ॥
विमुक्ता द्विजतां प्राप्य ब्रह्मलोकं ततो गताः ॥ ४४-५० ॥

पायसं खङ्गमांसं च पुत्रैर्दत्तं पितृक्षयं ॥
कृष्णो लोहस्तथा छाग आनन्त्याय प्रकल्पते ॥ ४४-५१ ॥

गयायामक्षयं श्राद्धं जपहोमतपांसि च ॥
पितृक्षये हि तत्पुत्रैः कृतमानन्त्यतां व्रजेत् ॥ ४४-५२ ॥

काङ्क्षन्ति पितरः पुत्रान्नरकस्य भयार्द्दिताः ॥
गयां यास्यति यः पुत्रः सोऽस्मान्सन्तारयिष्यति ॥ ४४-५३ ॥

गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा ॥
गयाशीर्थेऽक्षयवटे पितॄणां दत्तमक्षयम् ॥ ४४-५४ ॥

ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ॥
दृष्ट्वैतानि पितॄंश्चार्च्य वंश्यान्विंशतिमुद्धरेत् ॥ ४४-५५ ॥

महाकल्पकृतं पापं गयां प्राप्य विनश्यति ॥
गवि गृध्रवटे चैव श्राद्धं दत्तं महाफलम् ॥ ४४-५६ ॥

मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥
ख्यापितं धर्मसर्वस्वं लोकस्यैव निदर्शनात् ॥ ४४-५७ ॥

तत्पङ्कजवनं पुण्यं पुण्यवद्भिर्निषेवितम् ॥
यस्मिन्पाण्डुर्विशत्येव तीर्थं सर्वनिदर्शनम् ॥ ४४-५८ ॥

तृतीयां तथा पादे निक्षीरायाश्च मण्डले ॥
महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् ॥ ४४-५९ ॥

मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥
बहुवर्षशतं तप्तं तपस्तीर्थेषु दुष्करम् ॥ ४४-६० ॥

अल्पेनाप्यत्र कालेन नरो धर्मपुरायणः ॥
पाप्मनमुत्सृजन्याशु जीर्णान्त्वचमिवोरगः ॥ ४४-६१ ॥

नाम्ना कनकनन्देति तीर्थं तत्रैव विश्रुतम् ॥
उदीच्यां मुण्डपृष्ठस्य ब्रह्मर्षिगणसेवितम् ॥ ४४-६२ ॥

तत्र स्नात्वा दिवं यान्ति स्वशरीरेण मानवः ॥
दत्तं तत्र सदा श्राद्धमक्षयं समुदाहृतम् ॥ ४४-६३ ॥

स्नात्वा दिनत्रयं तत्र निःक्षीरायां सुलोचने ॥
मानसे सरसि स्नात्वा श्राद्धं तत्र समाचरेत् ॥ ४४-६४ ॥

उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥
यस्तत्र निर्वपेच्छ्राद्धं यथाशक्ति यथाबलम् ॥ ४४-६५ ॥

कामान्संलभते दिव्यान्मोक्षोपायांश्च कृत्स्नाशः ॥
ततो ब्रह्मसिरो गच्छेद्ब्रह्मवश्योभितम् ॥ ४४-६६ ॥

ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ॥
ब्रह्मणा तत्र सरसि यूपः पुण्यः प्रकल्पितः ॥ ४४-६७ ॥

यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥
ततो गच्छेत्तु सुभगे धेनुकं लोकविश्रुतम् ॥ ४४-६८ ॥

एकरात्रोषितो यत्र प्रयच्छेत्तिधेनुकाम् ॥
सर्वपापविनिर्मुक्तः सोमलोकं व्रजेद्ध्रुवम् ॥ ४४-६९ ॥

तत्र चिह्नं महाभागे अद्यापि महदद्भुतम् ॥
कपिला सह वत्सेन पर्वते विचरत्युत ॥ ४४-७० ॥

पदानि तत्र दृश्यन्ते सवत्सायाश्च मोहिनि ॥
सवत्सायाः प्रदृष्येषु पदेषु नरपुङ्गवैः ॥ ४४-७१ ॥

यत्किञ्चिदशुभं कर्म तेषां तन्निश्यति क्षणात् ॥
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ॥ ४४-७२ ॥

स्नायीत भास्मना तत्र अभिगम्य वृषध्वजम् ॥
ब्राह्मणानां भवेद्देवि व्रतं द्वादशवार्षिकम् ॥ ४४-७३ ॥

इतरेषां तु वर्णानां सर्व पापं प्रणश्यति ॥
उद्यन्तं च ततो गच्छेत्पर्वन्तं गीतनादितम् ॥ ४४-७४ ॥

सावित्र्यास्तु पदं यत्र दृश्यते पुण्यदं महत् ॥
तत्र सन्ध्यामुपासीत ब्राह्मणः शंसितव्रतः ॥ ४४-७५ ॥

उपासिता भवेत्सन्ध्या तेन द्वादशवार्षिकी ॥
योनिद्वारं च तत्रैव विद्यते विधिनन्दिनि ॥ ४४-७६ ॥

तत्राधिगम्य मुच्येत पुरुषो योनिसङ्कटात् ॥
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नृपः ॥ ४४-७७ ॥

पुनात्यासप्तमं चैव कुलान्यत्र न संशयः ॥
ततो गच्छेच्च सुभगे धर्मपृष्ठं महाफलम् ॥ ४४-७८ ॥

यत्र धर्मः स्थितः साक्षात्पितृलोकस्य पालकः ॥
अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ॥ ४४-७९ ॥

ततो गच्छेत मनुजो ब्रह्मणस्तीर्थमुत्तमम् ॥
तत्राधिगम्य ब्रह्माणं राजसूयफलं लभेत् ॥ ४४-८० ॥

फल्गुतीर्थं च विख्यातं बहुमुलफलान्वितम् ॥
कौशिकी च नदी यत्र श्राद्धं तत्राक्षयं स्मृतम् ॥ ४४-८१ ॥

ततो महीधरं गच्छेद्धर्मज्ञेनाभिरक्षितम् ॥
राजर्षिणा पुण्यकृता गयेनानुपभुज्यते ॥ ४४-८२ ॥

सरो गयशिरो यत्र पुण्या चैव महानदी ॥
ऋषिजुष्टं महापुण्यं तीर्थं ब्रह्मसरोवरम् ॥ ४४-८३ ॥

अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति ॥
उवास सततं यत्र धर्मराजः सनातनः ॥ ४४-८४ ॥

सर्वासां सरितां यत्र समुद्भेदो हि दृश्यते ॥
यत्र सन्निहितो नित्य महादेवः पिनाकधृक् ॥ ४४-८५ ॥

यत्राक्षयो वटो नाम वर्तते लोकविश्रुतः ॥
गयेन यजमानेन तत्रेष्टं क्रतुना पुरा ॥ ४४-८६ ॥

आस्थिता तु सरिच्छ्रेष्ठा गययज्ञेषु रक्षिता ॥
मण्डपृष्ठं गयां चैव रैवतं देवपर्वतम् ॥ ४४-८७ ॥

तृतीयं क्रौञ्चपादं च दृष्ट्वा पापात्प्रमुच्यते ॥
शिवनद्यां शिवकरं गयायां च गदाधरम् ॥ ४४-८८ ॥

सर्वत्र परमात्मानं दृष्ट्वा मुच्येदघव्रजात् ॥
वाराणस्यां विशालाक्षी प्रयागे ललिता तथा ॥ ४४-८९ ॥

गयायां मङ्गला नाम कृतशौचे तु सैंहिका ॥
यद्ददाति गयास्थस्तत्सर्वमानन्त्यमश्नुते ॥ ४४-९० ॥

नन्दन्ति पितरस्तस्य सुप्रकृष्टेन कर्मणा ॥
यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ॥ ४४-९१ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥