०४३

वसिष्ठ उवाच ॥
वसोर्वचनमाकर्ण्य गङ्गामाहात्म्यसूचकम् ॥
पुनः पप्रच्छ राजेन्द्रं तं विप्रं स्वपुरोहितम् ॥ ४३-१ ॥

मोहिन्युवाच ॥
श्रुतं विप्र मया सर्वं गोदानादि शुभावहम् ॥
अधुना श्रोतुमिच्छामि गङ्गाव्रतमनुत्तमम् ॥ ४३-२ ॥

गङ्गादीनां पूजनं च स्थापनं तत्र वा द्विज ॥
किं फलं वद सर्वज्ञ त्वामहं शरणं गता ॥ ४३-३ ॥

अधुना गतिदाता त्वं वर्जितायाश्च बन्धुभिः ॥
पत्या विरहिता चाहं पुत्रहीना विदांवर ॥ ४३-४ ॥

त्वामेव शरणं प्राप्ता पितुर्वचनगौरवात् ॥
तद्भवान्प्रणताया मे गङ्गामाहात्म्यंसंयुतम् ॥
देवताराधनं ब्रूहि यच्छ्रुत्वा मुच्यते ह्यघात् ॥ ४३-५ ॥

वसिष्ठ उवाच ॥
तच्छ्रुत्वा मोहिनीवाक्यं वसुर्विप्रः प्रतापवान् ॥
सभाज्य मोहिनीं भूप प्राह वेदविदां वरः ॥ ४३-६ ॥

वसुरुवाच ॥
साधु पृष्टं त्वया देवि लोकानां हितकाम्यया ॥ ४३-७ ॥

गङ्गामाहात्म्यमखिलं महापापप्रणाशनम् ॥
वृषध्वजेन कथितं शिवेन दयया पुरा ॥ ४३-८ ॥

प्रीत्या देव्याभि पृष्टेन गङ्गातीरनिवासिना ॥
देवैस्तु भुक्तं पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा ॥ ४३-९ ॥

अपराह्णे च पितृभिः शर्वंर्यां गुह्यकादिभिः ॥
सर्वा वेला अतिक्रम्य नक्तभोजनमुत्तमम् ॥ ४३-१० ॥

उपवासाद्वारं भैक्ष्यं भैक्ष्याद्वरमयाचितम् ॥
अयाचिताद्वारं नक्तं तस्मान्नक्तं समाचरेत् ॥ ४३-११ ॥

हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ॥
अग्निकार्य्यमधःशय्यां नक्ताशी षट् समाचरेत् ॥ ४३-१२ ॥

गङ्गातीरे माघमासे यः कुर्यान्नक्तभोजनम् ॥
शिवायतनपार्श्वे तु कृशरं घृतसंयुतम् ॥ ४३-१३ ॥

नैवेद्यं च निवेद्यैव कृशरान्नं शिवस्य तु ॥
काष्ठमौनेन भुञ्जानो जिह्वालौल्यं विवर्जयेत् ॥ ४३-१४ ॥

पलाशपत्रे भुञ्जानः शिवं स्मृत्वा जितेन्द्रियः ॥
धर्मराजस्य देव्याश्च पृथक्पिण्डं प्रकल्पयेत् ॥ ४३-१५ ॥

सोपवासश्चतुर्द्दश्यां भवेदुभयपक्षयोः ॥
पौर्णमास्यां तु गन्धैश्च गङ्गायाः सलिलैस्तथा ॥ ४३-१६ ॥

शिवं संस्नाप्य पयसा मध्वाज्यदधिभिः पृथक् ॥
तथैव हेमपुष्पं च लिङ्गमूर्ध्नि विनिक्षिपेत् ॥ ४३-१७ ॥

ततो दद्यात्तु शक्त्यैवापूपञ्च घृतपाचितम् ॥
तिलाढकं प्रगृह्याथ शिवलिङ्गोपरि क्षिपेत् ॥ ४३-१८ ॥

नीलोत्पलैश्च सर्वेशं पूजयेत्पङ्कजैरपि ॥
तदलाभे तु सौवर्णैः पङ्कजैः पूजयेद्धरम् ॥ ४३-१९ ॥

पायसं चात्र मध्वक्तं घृतयुक्तं च गुग्गुलम् ॥
घृतदीपं तथा चैव चन्दनाद्यैर्विलेपनम् ॥ ४३-२० ॥

दद्याद्भक्त्या महेशाय तथा पत्रफलानि च ॥
कृष्णगोमिथुनं चैव सरूपं च निवेदयेत् ॥ ४३-२१ ॥

भोजयेद्ब्राह्मणानष्टौ मासान्ते तु सदक्षिणान् ॥
वर्जयेन्मधु मांसं च तं मासं ब्रह्मचर्यवान् ॥ ४३-२२ ॥

एवं कृत्वा यथोद्दिष्टमेकवारमिदं व्रतम् ॥
यमैश्च नियमैर्युक्तः श्रद्धाभक्तिपरायणः ॥ ४३-२३ ॥

इह भोगानवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुक्तैः ॥ ४३-२४ ॥

दिव्यरत्नमयैश्चैव दिव्यभोगसमन्वितैः ॥
गत्वा शिवपुरं रम्यं सर्वस्वकुलसंयुतः ॥ ४३-२५ ॥

सुहृद्भिर्विविधैश्चैव विविधानप्यभीप्सितान् ॥
भुक्त्वा भोगानशेषांश्च यावदाभूतसम्प्लवम् ॥ ४३-२६ ॥

ततो भवति धर्मात्मा जम्बूद्वीपपतिस्तथा ॥
तत्र भुङ्क्ते समस्ताँश्च भोगान्विगतकल्मषः ॥ ४३-२७ ॥

सुरूपः सुभगश्चैव तथा विहितशासनः ॥
सर्वरोगविनिर्मुक्तः सोऽप्येतत्फलभाग्भवेत् ॥ ४३-२८ ॥

वैशाखे शुक्लपक्षे वा चतुर्दश्यां समाहितः ॥
शाल्यन्नं क्षीरसंयुक्तं यः कुर्यान्नक्तभोजनम् ॥ ४३-२९ ॥

शिवं सम्पूज्य पुष्पाद्यैर्भोज्यं तु सन्निवेद्य च ॥
काष्ठमौनेन भुञ्जानो वटकाष्टेन वै तथा ॥ ४३-३० ॥

मौनेन प्रयतो भूत्वा कुर्याद्वै दन्तधावनम् ॥
शिवलिङ्गसमीपे तु गङ्गातीरे निशि स्वपेत् ॥ ४३-३१ ॥

पौर्णमास्यां प्रभाते तु गङ्गायां विधिना तथा ॥
स्नात्वोपवासं सङ्कल्प्य कुर्य्याज्जागरणं निशि ॥ ४३-३२ ॥

लिङ्गं घृतेन संस्नाप्य पुष्पगन्धादिभिस्तथा ॥
नैवेद्यधूपदीपैश्च सम्पूज्य वृषभं शुभम् ॥ ४३-३३ ॥

सुश्वेतपुष्पवस्त्राद्यैर्हारिद्रैश्चन्दनैस्तथा ॥
अलङ्कृत्य विधानेन शिवाय विनिवेदयेत् ॥ ४३-३४ ॥

ब्राह्मणांश्च यथाशक्ति पायसेन तु भोजयेत् ॥
एवं सकृच्च यो भक्त्या करोति श्रद्धयान्वितः ॥ ४३-३५ ॥

लभते दैवपादोनयुगानां द्विसहस्रकम् ॥
तपः कृत्वा तु नियमाद्यत्पुण्यं तदसंशयम् ॥ ४३-३६ ॥

हंसकुन्दप्रभायुक्तैर्विमानैश्चन्द्रसन्निभैः ॥
सुश्वेतवृषयुक्तैश्च मुक्ताजालविभूषितैः ॥ ४३-३७ ॥

स्वकीयपितृभिः सार्द्धं प्रयातीश्वरमन्दिरम् ॥
नीलोत्पलसुङ्गन्धाभिः सुरूपाभिः समन्ततः ॥ ४३-३८ ॥

कान्ताभिर्दिव्यरूपाभिर्भुक्त्वा भोगाननेकशः ॥
अनन्तकालमैश्वर्ययुक्तो भूत्वा ततो भुवि ॥ ४३-३९ ॥

जायते स महीपालः कीर्त्यैश्वर्यसमन्वितः ॥
एकच्छत्रेण स महीं पालयत्याज्ञया सह ॥ ४३-४० ॥

अन्ते वैराग्यसम्पन्नो गङ्गां स लभते पुनः ॥
स तया श्रद्धया युक्तो गङ्गायां मरणं लभेत् ॥ ४३-४१ ॥

तथा तत्र स्मृतिं लब्ध्वा मोक्षमाप्नोति स ध्रुवम् ॥
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ॥ ४३-४२ ॥

गङ्गातीरे तु पुरुषो नारी वा भक्तिभावतः ॥
निशायां जागरं कृत्वा गङ्गां दशविधैस्ततः ॥ ४३-४३ ॥

पुष्पैर्गन्धैश्च नैवेद्यैः फलैश्च दशसङ्ख्याया ॥
तथैव दीपैस्ताम्बूलैः पूजयेच्छ्रद्धयान्वितः ॥ ४३-४४ ॥

स्नात्वा भक्त्या तु जाह्नव्यां दशकृत्वो विधानतः ॥
दशप्रसृति कृष्णंश्च तिलान्सर्पिश्च वै जले ॥ ४३-४५ ॥

सक्तुपिण्डान्गुडपिण्डान्दद्याच्च दशसङ्ख्यया ॥
ततो गङ्गातटे रम्ये हेम्ना रूप्येण वा तथा ॥ ४३-४६ ॥

गङ्गायाः प्रतिमां कृत्वा वक्ष्यमाणस्वरूपिणीम् ॥
पद्मस्वस्तिकचिह्नस्य संस्थितस्य तथोपरि ॥ ४३-४७ ॥

वस्त्रस्रग्दामकण्ठस्य पूर्णकुम्भस्य चोपरि ॥
संस्थाप्य पूजयेद्देवीं तदलाभे मृदादि वा ॥ ४३-४८ ॥

अथ तत्राप्यशक्तश्चेल्लिखेत्पिष्टेन वै भुवि ॥
चतुर्भुजां सुनेत्रां च चन्द्रायुतसमप्रभाम् ॥ ४३-४९ ॥

चामरैर्वीज्यमानां च श्वेतच्छत्रोपशिभिताम् ॥
सुप्रसन्नां च वरदां करुणार्द्रनिजान्तराम् ॥ ४३-५० ॥

सुधाप्लावितभूपृष्ठां देवादिभिरभिष्टुताम् ॥
दिव्यरत्नपरीतां च दिंव्यमाल्यानुलेपनाम् ॥ ४३-५१ ॥

ध्यात्वा जले यथाप्रोक्तां तत्रार्चायां तु पूजयेत् ॥
वक्ष्यमाणेन मन्त्रेण कुर्यात्पूजां विशेषतः ॥ ४३-५२ ॥

पञ्चामृतेन च स्नानमर्चायां तु विशिष्यते ॥
प्रतिमाग्रे स्थण्डिले तु गोमयेनोपलेपयेत् ॥ ४३-५३ ॥

नारायणं महेशं च ब्रह्माणं भास्करं तथा ॥
भगीरथं च नृपतिं हिमवन्तं नगेश्वरम् ॥ ४३-५४ ॥

गन्धपुष्पादिभिश्चैव यथाशक्ति प्रपूजयेत् ॥
दशप्रस्थांस्तिलान्दद्याद्दश विप्रेभ्य एव च ॥ ४३-५५ ॥

दशप्रस्थान्यवान्दद्याद्दश गव्यैर्यथाहितान् ॥
मत्स्यकच्छपमण्डूकमकरादिजलेचरान् ॥ ४३-५६ ॥

कारितान्वै यथाशक्ति स्वर्णेन रजतेन वा ॥
तदलाभे पिष्टमयानभ्यर्च्य कुसुमादिभिः ॥
गङ्गायां प्रक्षिपेत्पूर्व्वं मन्त्रेणैव तु मन्त्रवित् ॥ ४३-५७ ॥

रथयात्रादिने तस्मिन्विभवे सति कारयेत् ॥
रथारूढप्रतिकृतिं गङ्गायास्तूत्तरामुखाम् ॥ ४३-५८ ॥

भ्रमन्त्या दर्शनं लोके दुर्लभं पापकर्मणाम् ॥
दुर्गाया रथयात्रास्ति तथैवात्रापि कारयेत् ॥ ४३-५९ ॥

एवं कृत्वा विधानेन वित्तशाठ्यविवर्जितः ॥
दशपापैर्वक्ष्यमाणैः सद्य एव विमुच्यते ॥ ४३-६० ॥

अदत्तानामुपादानं हिंसा चैवाविधानतः ॥
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥ ४३-६१ ॥

पांरुष्यमनृतं वापि पैशुन्यं चापि सर्वशः ॥
असम्बद्धप्रलापश्च वाचिकं स्याच्चतुर्विधम् ॥ ४३-६२ ॥

परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ॥
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥ ४३-६३ ॥

एतैर्दशविधैः पापैः कोटिजन्मसमुद्भवैः ॥
मुच्यते नात्र सन्देहो ब्रह्मणो वचनं यथा ॥ ४३-६४ ॥

दश त्रिंशच्च तान्पूर्वान्पितॄनेव तथापरान् ॥
उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता ॥ ४३-६५ ॥

“ॐ नमो दशहरायै नारायण्यै गङ्गायै नमः ॥”
इति मन्त्रेण यो मर्त्यो दिने तस्मिन्दिवानिशम् ॥ ४३-६६ ॥

जपेत्पचसहस्राणि दशधर्मफलं लभेत् ॥
उद्दरेद्दश पूर्वाणि पराणि च भवार्णवात् ॥ ४३-६७ ॥

वक्ष्यमाणमिदं स्तोत्रं विधिना प्रतिगृह्य च ॥
गङ्गाग्रे तद्दिने जप्यं विष्णुपूजां प्रवर्तयेत् ॥ ४३-६८ ॥

ॐ नमः शिवायै गङ्गायै शिवदायै नमोऽस्तु ते ॥
नमोऽस्तु विष्णुरूपिण्यै गङ्गायै ते नमो नमः ॥ ४३-६९ ॥

सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये ॥
सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठे नमोऽस्तु ते ॥ ४३-७० ॥

स्थाणुजङ्गमसम्भूतविषहन्त्रि नमोऽस्तु ते ॥
संसारविषनाशिन्यै जीवनायै नमोनमः ॥ ४३-७१ ॥

तापत्रितयहन्त्र्यै च प्राणेश्वर्यै नमोनमः ॥
शान्त्यै सन्तापहारिण्यै नमस्ते सर्वमूर्तये ॥ ४३-७२ ॥

सर्वसंशुद्धिकारिण्यै नमः पापविमुक्तये ॥
भुक्तिमुक्तिप्रदायिन्यै भोगवत्यै नमोनमः ॥ ४३-७३ ॥

मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमोनमः ॥
नमस्त्रैलोक्यमूर्तायै त्रिदशायै नमोनमः ॥ ४३-७४ ॥

नमस्ते शुक्लसंस्थायै क्षेमवत्यै नमोनमः ॥
त्रिदशासनसंस्थायै तेजोवत्यै नमोऽस्तु ते ॥ ४३-७५ ॥

मन्दायै लिङ्गधारिण्यै नारायण्यै नमोनमः ॥
नमस्ते विश्वमित्रायै रेवत्यै ते नमोनमः ॥ ४३-७६ ॥

बृहत्यै ते नमो नित्यं लोकधात्र्यै नमोनमः ॥
नमस्ते विश्वमुख्यायै नन्दिन्यै ते नमोनमः ॥ ४३-७७ ॥

पृथ्व्यै शिवामृतायै च विरजायै नमोनमः ॥
परावरगताद्यैयै तारायै ते नमोनमः ॥ ४३-७८ ॥

नमस्ते स्वर्गसंस्थायै अभिन्नायै नमोनमः ॥
शान्तायै ते प्रतिष्ठायै वरदायै नमोनमः ॥ ४३-७९ ॥

उग्रायै नुखजल्पायै सञ्जीविन्यै नमोनमः ॥
ब्रह्मगायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥ ४३-८० ॥

प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोनमः ॥
विलुषायै दुर्गहन्त्र्यै दक्षायै ते नमोनमः ॥ ४३-८१ ॥

सर्वापत्प्रतिपक्षायै मङ्गलायै नमोनमः ॥
परापरे परे तुभ्य नमो मोक्षप्रदे सदा ॥
गङ्गा ममाग्रतो भूयाद्गङ्गा मे पार्श्वयोस्तथा ॥ ४३-८२ ॥

गङ्गा मे सर्वतो भूयात्त्वयि गङ्गेऽस्तु मे स्थितिः ॥
आदौ त्वमन्ते मध्ये च सर्वा त्वं गाङ्गते शिवे ॥ ४३-८३ ॥

त्वमेव मूलप्रकृतिस्त्वं हि नारायणः प्रभुः ॥
गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमोनमः ॥ ४३-८४ ॥

इतीदं पठति स्तोत्रं नित्यं भक्तिपरस्तु यः ॥
श्रृणोति श्रद्धया वापि कायवाचिकसम्भवैः ॥ ४३-८५ ॥

दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते ॥
रोगी प्रमुच्यते रोगान्मुच्येतापन्न आपदः ॥ ४३-८६ ॥

द्विषभ्द्यो बन्धनाच्चापि भयेभ्यश्च विमुच्यते ॥
सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते ॥ ४३-८७ ॥

इदं स्तोत्रं गृहे यस्य लिखितं परिपूज्यते ॥
नाग्निचौरभयं तत्र पापेभ्योऽपि भयं नहि ॥ ४३-८८ ॥

तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः ॥
जपंस्तु दशकृत्वश्च दरिद्रो वापि चाक्षमः ॥ ४३-८९ ॥

सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य भक्तितः ॥
पूर्वोक्तेन विधानेन फलं यत्परिकीर्तितम् ॥ ४३-९० ॥

यथा गौरी तथा गङ्गा तस्माद्गौर्यास्तु पूजने ॥
विधिर्यो विहितः सम्यक्सोऽपि गङ्गाप्रपूजने ॥ ४३-९१ ॥

यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा ॥
उमा यथा तथा गङ्गा चात्र भेदो न विद्यते ॥ ४३-९२ ॥

विष्णुरुद्रान्तरं यश्च गगागौर्यन्तरं तथा ॥
लक्ष्मीगौर्यतरं यश्च प्रब्रूते मूढधीस्तु सः ॥ ४३-९३ ॥

शुक्लपक्षे दिवा भूमौ गङ्गायामुत्तरायणे ॥
धन्या देहं विमुञ्चन्ति हृदयस्थे जनार्दने ॥ ४३-९४ ॥

ये मुञ्चन्ति नरा- प्राणान् गङ्गायां विधिनं दिनि ॥
ते विष्णुलोकं गच्छन्ति स्तूयमाना दिविस्थितैः ॥ ४३-९५ ॥

अर्द्धोदकेन जाह्नव्यां म्रियतेऽनशनेन यः ॥
स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च ॥ ४३-९६ ॥

या गतिर्योगयुक्तस्य सात्विकस्य मनीषिणः ॥
सा गेतिस्त्यजतः प्राणान् गङ्गायां तु शरीरिणः ॥ ४३-९७ ॥

अनशनं गृहीत्वा यो गङ्गातीरे मृतो नरः ॥
सत्यमेव परं लोकमाप्नोति पितृभिः सह ॥ ४३-९८ ॥

गङ्गायां मरणात्प्राणान्योः प्राज्ञस्त्यक्तुमिच्छति ॥
गतानि बहुजन्मानि यत्र यत्र मृतानि च ॥ ४३-९९ ॥

महाँश्चापि गतः कालो यत्र तत्रापि गच्छतः ॥
अत्रदूरे समीपे च सदृशं योजनद्वयम् ॥ ४३-१०० ॥

गङ्गायां मरणेनेह नात्र कार्या विचारणा ॥
ज्ञानतोऽज्ञानतो वापि कामतोऽपि वा ॥ ४३-१०१ ॥

गङ्गायां तु मृतो मर्त्यः स्वर्गं मोक्षं च विन्दति ॥
प्राणेषूत्सृज्यमानेषु यो गङ्गां संस्मरेन्नरः ॥ ४३-१०२ ॥

स्पृशेद्वा पापशीलोऽपि स वै याति परां गतिम् ॥ ४३-१०३ ॥

गङ्गां गत्वा यैः शरीरं विसृष्टं प्राप्ता धीरास्ते तु देवैः समत्वम् ॥
तस्मात्सुर्वान्प्रोह्य मुक्तिप्रदान्वै सेवेद्गङ्गामा शरीरस्य पातम् ॥ ४३-१०४ ॥

अन्तरिक्षे क्षितौ तोये पापीयानपि यो मृतः ॥
ब्रह्मविष्णुशिवैः पूज्यं पदमक्षय्यमश्नुते ॥ ४३-१०५ ॥

यो धर्मिष्ठश्च सप्राणः प्रयतः शिष्टसम्मतः ॥
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ ४३-१०६ ॥

यत्र तत्र मृतो वापि मरणे समुपस्थिते ॥
भक्त्या गङ्गां स्मरन्याति शैवं वा वैष्णवं पुरम् ॥ ४३-१०७ ॥

शम्भोर्जटाकलापात्तु विनिष्क्रान्तातिकर्कशात् ॥
प्लावयित्वा दिवं निन्ये या पापान्यगरात्मजान् ॥ ४३-१०८ ॥

यावन्त्यस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य वै ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ४३-१०९ ॥

गगातोये तु यस्यास्थि नीत्वा प्रक्षिप्यते नरैः ॥
तत्कालमादितः कृत्वा स्वर्गलोके भवेत्स्थितिः ॥ ४३-११० ॥

गङ्गातोये तु यस्यास्थि प्राप्यते शुभकर्मणः ॥
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कथञ्चन ॥ ४३-१११ ॥

दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थि सङ्गतम् ॥
गङ्गायां मरणे यादृक्तादृक्फलमवाप्नुयात् ॥ ४३-११२ ॥

स्नात्वा ततः पञ्चगव्येन सिक्त्वा हिरण्यमध्वाज्यतिलैर्नियोज्य ॥
तदस्थिपिण्डं पुटके निधाय पश्यन् दिशं प्रेतगणोपगूढाम् ॥ ४३-११३ ॥

नमोऽस्तु धर्माय वदन्प्रविश्य जलं स मे प्रीत इति क्षिपेच्च ॥
स्नात्वा ततस्तीर्थवटाक्षयं च दृष्ट्वा प्रदद्यादथ दक्षिणां तु ॥ ४३-११४ ॥

एवं कृत्वा प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात्त महेन्द्रतुल्या ॥ ४३-११५ ॥

प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ॥
तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥ ४३-११६ ॥

न तत्र प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि ॥
भाद्रशुक्लचतुर्दश्यां यावदाक्रमते जलम् ॥ ४३-११७ ॥

तावद्गभं विजानीयात्तद्दूरं तीरमुच्यते ॥
सार्द्धहस्तशतं यावद्गर्भस्तीरं ततः परम् ॥ ४३-११८ ॥

इति केषां मतं देवि श्रुतिस्मृतिषु सम्मतम् ॥
तीराद्गव्यूतिमात्रं तु परितः क्षेत्रमुच्यते ॥ ४३-११९ ॥

तीरं त्यक्त्वा वसेत्क्षेत्रे तीरे वासो न चेष्यते ॥
एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयात् ॥ ४३-१२० ॥

गङ्गासीमां न लघन्ति पापान्यप्यखिलान्यपि ॥
तां तु दृष्ट्वा पलायन्ते यथा सिंहं वनौकसः ॥ ४३-१२१ ॥

यत्र गङ्गा महाभागे रामशम्भुतपोवनम् ॥
सिद्धक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनम् ॥ ४३-१२२ ॥

तीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च ॥
निमित्तेषु च सर्वेषु तन्निवृत्तो भवेन्नरः ॥ ४३-१२३ ॥

तीर्थे यः प्रतिगृह्णाति पुण्येष्वायतनेषु च ॥
निष्फलं तस्य तत्तीर्थं यावत्तद्धनमुच्यते ॥ ४३-१२४ ॥

गङ्गाविक्रयाणाद्देवि विष्णोर्विक्रयणं भवेत् ॥
जनार्दने तु विक्रीते विक्रीतं भुवनत्रयम् ॥ ४३-१२५ ॥

गङ्गा तीरसमुद्भूतां मृदं मूर्घ्ना बिभर्ति यः ॥
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय केवलम् ॥ ४३-१२६ ॥

गङ्गापुलिनजां धूलिमास्तीर्याथ निजान् पितॄन् ॥
प्रीणयन्यो नरः पिण्डान्दद्यात्तान् स्वर्नयेदपि ॥ ४३-१२७ ॥

इदं तेऽभिहितं भद्रे गङ्गामाहात्म्यमुत्तमम् ॥
पठन् श्रृण्वन्नरो ह्येति तद्विष्णोः परमं पदम् ॥ ४३-१२८ ॥

नित्यं जप्यमिदं भक्त्या प्रयतैः श्रद्धयान्वितैः ॥
वैष्णवीं गतिमिच्छद्भिः शैवीं वा विधिनन्दिनि ॥ ४३-१२९ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये पूजादिकथं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥