वसुरुवाच ॥
अथावगाहनादीनां कर्मणां फलमुच्यते ॥
सावधाना श्रृणुष्व त्वं ब्रह्मपुत्रि नृपप्रिये ॥ ४१-१ ॥
यैः पुण्यवाहिनी गङ्गा सकृद्भक्त्यावगाहिता ॥
तेषां कुलानां लक्षं तु भवात्तारयते शिवा ॥ ४१-२ ॥
सामान्यस्थानतो देवि तत्र सन्ध्या ह्युपासिता ॥
पुण्यं लक्षगुणं कर्तुं समर्था द्विजपावनी ॥ ४१-३ ॥
दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः ॥
अक्षयां तु प्रकुर्वन्ति तृप्तिं मोहिनि दुर्लभाम् ॥ ४१-४ ॥
यावन्तश्च तिला मर्त्यार्गृहीताः पितृकर्मणि ॥
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः ॥ ४१-५ ॥
पितृलोकेषु ये केचित्सर्वेषां पितरः स्थिताः ॥
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ ४१-६ ॥
य इच्छेत्सफलं जन्म सन्ततिं वा शुभानने ॥
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ ४१-७ ॥
ये मता दुर्गता मर्त्यास्तर्पितास्तत्कुलोद्भवैः ॥
कुशैस्तिलैर्गाङ्गजलैस्ते प्रयान्ति हरेः पदम् ॥ ४१-८ ॥
स्वर्गसस्थाश्च ये केचित्पितरः पुण्यशीलिनः ॥
ते तर्पिता गाङ्गजलैर्मोक्षे यान्ति विधेर्वचः ॥ ४१-९ ॥
मासं तर्पणमात्रेण पिण्डसम्पातनेन च ॥
गङ्गायां पितरः सर्वे सुप्रीताः सूर्यवर्चसः ॥ ४१-१० ॥
अप्सरो गणणसंयुक्तान्हेमरत्नविभूषितान् ॥
मुक्ताजालपरिच्छन्नान्वेणुवीणानिनादितान् ॥ ४१-११ ॥
भेरीशङ्खमृदङ्गादिनिर्घोषान्स्रग्विभूषितान् ॥
गन्धर्वदेहरुचिरान्दिव्यभोगसमन्वितान् ॥ ४१-१२ । ।
आरुह्य तु विमानाग्र्यान्ब्रह्यलोकं प्रयान्ति हि ॥
गङ्गायां तु नरः स्नात्वा यो नित्यं लिङ्गमर्चयेत् ॥ ४१-१३ ॥
एकेन जन्मना मोक्षं परमान्पोति स ध्रुवम् ॥
अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः ॥ ४१-१४ ॥
गङ्गायां लिङ्गपूजायाः कोट्यंशेनापि नो समाः ॥
पितॄनुदिश्य वा देवान्गङ्गाम्भिभिः प्रसिञ्चयेत् ॥ ४१-१५ ॥
तृप्ताः स्युस्तस्य पितरो नरकस्थाश्च तत्क्षणात् ॥
मृत्कुम्भात्ताम्रकुम्भैस्तु स्नानं दशगुणं स्मृतम् ॥ ४१-१६ ॥
रौप्यैः शतगुणं पुण्यं हेमैः कोटिगुणं स्मृतम् ॥
एवमर्घे च नैवेद्ये बलिपूजादिषु क्रमात् ॥ ४१-१७ ॥
पात्रां तरविशेषेण फलं चैवोत्तरोत्तरम् ॥
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् ॥ ४१-१८ ॥
न स तत्कर्मफलभाग्देवद्रोही प्रकीर्त्यते ॥
देवानां दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम् ॥ ४१-१९ ॥
स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् ॥
प्राहुर्गङ्गाजलैः स्नानं घृतस्नानसमं बुधाः ॥ ४१-२० ॥
अर्घ्यं द्रव्यविशेषेण गङ्गातोयेन यः सकृत् ॥
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ॥ ४१-२१ ॥
देवताभ्यः प्रदद्यात्तु स्वकीयपितृभिः सह ॥
पुत्रपौत्रैश्च संयुक्तः स च वै स्वर्गमाप्नुयात् ॥
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु ॥ ४१-२२ ॥
रक्तानि करवीराणि तथा वै रक्तचन्दनम् ॥
अष्टाङ्गैरेष युक्तोऽर्घो भानवे परिकीर्तितः ॥ ४१-२३ ॥
विष्णोः शिवस्य सूर्य्यस्य दुर्गाया ब्रह्मणस्तथा ॥
गङ्गातीरे प्रतिष्ठां तु यः करोति नरोत्तमः ॥ ४१-२४ ॥
तथैवायतनान्येषां कारयत्यपि शक्तितः ॥
अन्यतीर्थेषु करणात्कोटिगुणं भवेत् ॥ ४१-२५ ॥
गङ्गातीरसमुद्भूतमृदा लिगानि शक्तितः ॥
सलक्षणानि कृत्वा तु प्रतिष्ठाप्य दिने दिने ॥ ४१-२६ ॥
मन्त्रेश्च पत्रपुष्पाद्यैः पूजयित्वा च शक्तितः ॥
गङ्गायां निक्षिपेन्नित्यं तस्य पुण्यमनन्तकम् ॥ ४१-२७ ॥
सर्वानन्दप्रदायिन्यां गङ्गायां यो नरोत्तमः ॥
अष्टाक्षरं जपेद्भक्त्य मुक्तिस्तस्य करे स्थिता ॥ ४१-२८ ॥
नमो नारायणायेति प्रणवाद्यं नियम्य च ॥
षण्मासं जपतः सर्वा ह्युपतिष्ठन्ति सिद्धयः ॥ ४१-२९ ॥
नमः शिवायेति मन्त्रं सतारं विधिना तु यः ॥
चतुर्विशतिलक्षं वै जपेत्साक्षात्सशङ्करः ॥ ४१-३० ॥
पञ्चाक्षरी सिद्धविद्या शिव एव न संशयः ॥
अपवित्रः पवित्रो वा जपन्निष्पातको भवेत् ॥ ४१-३१ ॥
पूजितायां तु गङ्गायां पूजिताः सर्व देवताः ॥
तस्मात्सर्वप्रयत्नेन पूजयेदमरापगाम् ॥ ४१-३२ ॥
चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् ॥
रत्नकुम्भसिताम्भोजवराभयकरं शुभाम् ॥ ४१-३३ ॥
श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् ॥
सुप्रसन्नां सुवदनां करुणार्द्रहृदम्बुजाम् ॥ ४१-३४ ॥
सुधाप्लावितभूपृष्ठां त्रैलोक्यनमितां सदा ॥
ध्यात्वा जलमयीं गङ्गां पूजयन्पुण्यभाग्भवेत् ॥ ४१-३५ ॥
मासार्द्धमपि यस्त्वेवं नैरन्तर्येण पूजयेत् ॥
स एव देवसदृशो बहुकाले फलाधिकः ॥ ४१-३६ ॥
वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी पुरा ॥
क्रोधात्पीता पुनस्त्यक्ता कर्णरङ्घ्रात्तु दक्षिणात् ॥ ४१-३७ ॥
तां तत्र पूजयेद्देवीं गङ्गां गगनमेखलाम् ॥
अक्षयायां तु वैशाखे कार्तिकेऽपि शुभानने ॥ ४१-३८ ॥
रात्रौ जागरणं कृत्वा यवान्नैश्च तिलैस्तथा ॥
विष्णुं गङ्गां च शम्भुं च पूजयेद्भक्ति भावतः ॥ ४१-३९ ॥
तथा सुगन्धैः कुसुमैः कुङ्कुमागरुमन्दनैः ॥
तुलसीबिल्वपत्राद्यैर्मातुलुङ्गफलादिभिः ॥ ४१-४० ॥
धूपैर्दीपैश्च नैवेद्यैर्यथा विभवविस्तरैः ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ४१-४१ ॥
दिव्यं विमानमास्थाय विष्णुलोके महीयते ॥
ततो महीतलं प्राप्य राजा भवति धार्मिकः ॥ ४१-४२ ॥
भुक्त्वा विविधसौख्यानि रूपशीलगुणान्वितः ॥
देहान्ते ज्ञानवान्भूत्वा शिवसायुज्यमाप्नुयात् ॥ ४१-४३ ॥
यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम् ॥
गङ्गायां तु कृतं सर्वं कोटिकोटिगुणं भवेत् ॥ ४१-४४ ॥
यस्त्वक्षयतृतीयायां गङ्गातीरे ददाति वै ॥
घृतधेनुं विधानेन तस्य पुण्यफलं श्रृणु ॥ ४१-४५ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
सहस्रादित्यसङ्काशः सर्वकामसमन्वितः ॥ ४१-४६ ॥
हेमरत्न मये चित्रे विमाने हंसभूषिते ॥
स्वकीयपितृभिः सार्द्धं ब्रह्मलोके महीयते ॥ ४१-४७ ॥
ततस्तु जायते विप्रो गङ्गातीरे धनान्वितः ॥
अन्ते तु ब्रह्मविद्भूत्वा मोक्षमाप्नोत्यसंशयः ॥ ४१-४८ ॥
तथैव गोप्रदानं च विधिना कुरुते तु यः ॥
गोलोमसङ्ख्यवर्षाणि स्वर्गलोके महीयते ॥ ४१-४९ ॥
जायते च कुले पश्चाद्धनधान्यसमाकुले ॥
रत्नकाञ्चनभूपूर्णे शीलविद्यायशोन्विते ॥ ४१-५० ॥
स भुक्त्वा विपुलान्भोगान्पुत्रपौत्रसमन्वितः ॥
मोक्षभागी भवेन्नृनं नात्रकार्या विचारणा ॥ ४१-५१ ॥
कपिला यदि दत्ता स्याद्विधिना वेदपारगे ॥
नरकस्थान्पितॄन्सर्वान्स्वर्गं नयति वै तदा ॥ ४१-५२ ॥
भूमिं निवर्तनमितां गङ्गातीरे ददाति यः ॥
भूमिरेणुप्रमाणाब्दं ब्रह्मविष्णुशिवातिगः ॥ ४१-५३ ॥
जायते च पुनर्भूमौ सप्तद्वीपपतिर्भवेत् ॥
भेरीशङ्खादिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥ ४१-५४ ॥
स्तुतिभिर्मागघानां च सुप्तोऽसौ प्रतिबुध्यते ॥
सर्वसौख्यान्यवाप्येह सर्वधर्मपरायणः ॥ ४१-५५ ॥
नरकस्थान्पितॄन्सर्वान्प्रापयित्वा दिवं तथा ॥
स्वर्गस्थितान्मोक्षयित्वा स्वयं ज्ञानी च मोहिनि ॥ ४१-५६ ॥
अन्ते ज्ञानासिना छित्वा अविद्यां पञ्चपर्विकाम् ॥
परं वैराग्यमापन्नः परं ब्रह्माधिगच्छति ॥ ४१-५७ ॥
सप्तहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम् ॥
त्रिभागहीनं गोचर्म मानमाह विधिः स्वयम् ॥ ४१-५८ ॥
ग्रामं गङ्गातटे यो वै ब्राह्मणेभ्यः प्रयच्छति ॥
ब्रह्मविष्णुशिवप्रीत्ये दुर्गाया भास्करस्य च ॥ ४१-५९ ॥
सर्वदानेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥
तपोव्रतेषु पुण्येषु यत्फलं परिकीर्तितम् ॥ ४१-६० ॥
सहस्रगुणितं तत्तु विज्ञेयं ग्रामदायिनः ॥
सूर्यकोटिप्रतीकाशे विमाने वैष्णवे पुरे ॥ ४१-६१ ॥
क्रीडते शाङ्करे वापि स्तुतो देवादिभिर्मुदा ॥
भूमिरेण्वब्दसङ्ख्याकं कालं स्थित्वा च तत्र सः ॥ ४१-६२ ॥
अणिमादिगुणैर्युक्ते योगिनां जायते कुले ॥
अक्षयायां तु यो देवि स्वर्णं षोडशमासिकम् ॥ ४१-६३ ॥
ददाति द्विजमुख्याय सोऽपि लोकेषु पूज्यते ॥
अन्नदानाद्विष्णुलोकं शैवं वै तिलदानतः ॥ ४१-६४ ॥
ब्राह्मं रत्नप्रदानेन गोहिरण्येन वासवम् ॥
गान्धर्वं स्वर्णवासोभिः कीर्तिं कन्याप्रदानतः ॥ ४१-६५ ॥
विद्यया मुक्तिदं ज्ञानं प्राप्य यायान्निरञ्जनम् ॥
गङ्गातीरे नरो यस्तु नानावृक्षैः समन्वितम् ॥ ४१-६६ ॥
आरामं कारयेद्भक्त्या गृहं चोपवनान्वितम् ॥
कदलीनारिकेरैश्च कपित्थाशोकचम्पकैः ॥ ४१-६७ ॥
पनसैर्बिल्ववृक्षैश्च कदम्बाश्वत्थपाटलैः ॥
आम्रैस्तालैर्नागरङ्गैर्वृक्षैरन्यैश्च संयुतम् ॥ ४१-६८ ॥
जातीविजयसंयुक्तं तथा पाटलराजितम् ॥
निचितं कारयित्वैवमावासं पुष्पशोभितम् ॥ ४१-६९ ॥
शिवाय विष्णवे वापि दुर्गायै भास्कराय च ॥
प्रयच्छति तथा भक्त्या सर्वार्थं परिकल्प्य च ॥ ४१-७० ॥
तस्य पुण्यफलं वक्ष्ये सङ्क्षेपान्नतु विस्तरात् ॥
यावन्ति तेषां वृक्षाणां पुष्पमूलफलानि च ॥ ४१-७१ ॥
बीजानि च विचित्राणि तेषां मूलानि वै तथा ॥
तावत्कल्पसहस्राणि तेषां लोकेषु संस्थितिः ॥ ४१-७२ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये दानादिविधिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥