वसुरुवाच ॥
अथ कालविशेषे तु गङ्गास्नानस्य ते फलम् ।
कीर्तयिष्यामि वामोरु सावधाना निशामय ॥ ४०-१ ॥
नैरन्तर्येण गङ्गाया माघे स्नाति च यो नरः ॥
सशक्रलोके सुचिरं कालं तिष्ठेत्सगोत्रजः ॥ ४०-२ ॥
ततो ब्रह्मपुरं याति कल्पकोटिशतायुतैः ॥
नैरन्तर्येण विधिवद्गङ्गायां स्नाति यो नरः ॥ ४०-३ ॥
षण्मासमेककालाशी सकृदेवोत्तरायणे ॥
सोऽपि विष्णुपदं याति कुलानां शतमुद्धरन् ॥ ४०-४ ॥
सङ्क्रान्तिषु तु सर्वासु स्नात्वा गङ्गाजले नरः ॥
विमानेनार्कवर्णेन स व्रजेद्विष्णुमन्दिरम् ॥ ४०-५ ॥
विषुवेऽयनसङ्क्रान्तौ विशेषात्फलमीरितम् ॥
तपःसमं कार्तिकेऽपि गङ्गास्नाने फलं विदुः ॥ ४०-६ ॥
मेषप्रवेशार्ककाले कार्तिक्यां वापि मोहिनि ॥
माघस्नानाधिकं प्राहुः कमलासनपूर्वकाः ॥ ४०-७ ॥
संवत्सरस्नानजन्यं फलमक्षयके तिथौ ॥
कार्तिके वापि वैशाखे इति प्राह पिता तव ॥ ४०-८ ॥
मन्वादौ च युगादौ यत्प्रोक्तं गङ्गाजले फलम् ॥
स्नानैन याज्यवनिते त्रिमास्यापि च तत्फलम् ॥ ४०-९ ॥
द्वादश्यां श्रवणर्क्षे च अष्टम्यां पुष्ययोगतः ॥
आर्द्रायां च चतुर्दश्यां गङ्गास्नानं सुदुर्लभम् ॥ ४०-१० ॥
पूर्णिमा माधवे पुण्या तथा कार्तिकमाघयोः ॥
अमावस्यास्तथैतेषां गङ्गास्नाने सुदुर्लभाः ॥ ४०-११ ॥
कृष्णाष्टम्यां सहस्रं तु शतं स्यात्सर्वपर्वसु ॥
अमायां च तथाष्टम्यां माघासितदले सति ॥ ४०-१२ ॥
अर्धोदयं तदा पर्वकिञ्चिन्न्यूनं महोदयः ॥
महोदये शतगुणं लक्षमर्द्धोदये स्मृतम् ॥। ४०-१३ ॥
स्नानं गङ्गाजले देवि ग्रहणाच्चन्द्रसूर्ययोः ॥
मासत्रयस्नानफलं फाल्गुनाषाढ मासयोः ॥ ४०-१४ ॥
जन्मर्क्षे तु कृते स्नाने गङ्गायां भक्तिभावतः ॥
जन्मप्रभृति पापं वै सञ्चितं हि विनश्यति ॥ ४०-१५ ॥
चतुर्दश्यां माघकृष्णे व्यतीपातश्च दुर्लभः ॥
कृष्णाष्टम्यां विशेषेण वैधृतिर्जाह्नवीजले ॥ ४०-१६ ॥
माघं सकलमेवापि नरो यो विधिपूर्वकम् ॥
अरुणोदयके स्नायी स तु जातिस्मरो भवेत् ॥ ४०-१७ ॥
सर्वशास्त्रार्थविज्ज्ञानी नीरोगश्च भवेद्भ्रुवम् ॥
सङ्क्रान्त्यां पक्षयोरन्ते ग्रहणे चन्द्रसूर्ययोः ॥ ४०-१८ ॥
गङ्गास्नातो नरः कामाद्ब्रह्मणः सदनं लभेत् ॥
इन्दोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः ॥ ४०-१९ ॥
गङ्गातीरे तु सम्प्राप्ता इन्दोः कोटी रवेर्दश ॥
वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ॥
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥ ४०-२० ॥
ज्येष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलादवतरदसौ जाह्नवी मर्त्यलोकम् ॥
पापान्यस्यां हरति हि तिथौ सा दशैषाद्यगङ्गा पुण्यं दद्यादपि शतगुणं वाजिमेधक्रतोश्च ॥ ४०-२१ ॥
महापातकसङ्घानि यानि पापानि सन्ति मे ॥
गोविन्दद्वादशीं प्राप्य तानि मे हन जाह्नवि ॥ ४०-२२ ॥
मघासञ्ज्ञेन ऋक्षेण चन्द्रः सम्पूर्णमण्डलः ॥
गुरुणा याति संयोगं तन्महत्वं तिथेः स्मृतम् ॥ ४०-२३ ॥
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥
अथ देशविशेषेण स्नानस्य फलमुच्यते ॥ ४०-२४ ॥
कुरुक्षेत्राद्दशगुणा यत्र तत्रावगाहिता ॥
कुरुक्षेत्राच्छतगुणा यत्र विन्ध्येन संयुता ॥ ४०-२५ ॥
विन्ध्याच्छतगुणा प्रोक्ता काशीपुर्यां तु जाह्नवी ॥
सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु चाधिका ॥ ४०-२६ ॥
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥
एषु स्नाता दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ४०-२७ ॥
गङ्गाद्वारे कुशावर्ते स्नाने पुण्यफलं श्रृणु ॥
सप्तानां राजसूयानां फलं स्यादश्वमेधयोः ॥ ४०-२८ ॥
उषित्वा तत्र मासार्द्धं षण्णां विश्वजितां फलम् ॥
दशायुतानां तु गवां दानपुण्यं विदुर्बुधाः ॥ ४०-२९ ॥
सरोत्तमेऽथ गोविन्दं रुद्रं कनखले स्थितम् ॥
स्नात्वा वाप्येषु गङ्गायां पुण्यमक्षयमाप्नुयात् ॥ ४०-३० ॥
तीर्थं च सौकरं नाम महापुण्यं शुभे श्रृणु ॥
यस्मिन्नाविरभूत्पूर्वं वाराहाकृतिरच्युतः ॥ ४०-३१ ॥
शतस्याग्निचितां पुण्यं ज्योतिष्टोमद्वयस्य च ॥
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ॥ ४०-३२ ॥
तत्रैव ब्रह्मणस्तीर्थे ज्योतिष्टोमायुतस्य च ॥
अश्वमेधत्रयस्यापि स्नातः पुण्यं लभेन्नरः ॥ ४०-३३ ॥
कुब्जाख्यं तीर्थमनघं यत्र च व्याधयोऽखिलाः ॥
नश्यन्ति सर्वजन्मोत्थं पातकं चापि मोहिनि ॥ ४०-३४ ॥
अत्रान्यत्कापिलं तीर्थं यत्र स्नातो नरः शुभे ॥
कपिलाष्टायुतस्यापि दानतुल्यफलं लभेत् ॥ ४०-३५ ॥
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ॥
तीर्थे कनखले स्नात्वा धूतपापो व्रजेद्दिवम् ॥ ४०-३६ ॥
पवित्रार्थं ततस्तीर्थं सर्वतीर्थोत्तमोत्तमम् ॥
द्वयोर्विश्वजितोस्तत्र स्नानात्पुण्यं लभेन्नरः ॥ ४०-३७ ॥
वेणीराज्यं ततस्तीर्थं सरयूर्यत्र गङ्गया ॥
सुपुण्यया महापुण्या स्वसा स्वस्रेव सङ्गता ॥ ४०-३८ ॥
हरेर्दक्षिणपादाब्जक्षालनादमरापगा ॥
वामपादोद्भवा वापि सरयूर्मानसप्रसूः ॥ ४०-३९ ॥
तीर्थे तत्रार्चयन् रुद्रं विष्णुं विष्णुत्वमाप्नुयात् ॥
पञ्चाश्वमेधफलदं स्नानं तत्र प्रकीर्तितम् ॥ ४०-४० ॥
ततस्तु गाण्डवं तीर्थं गण्डकी यत्र सङ्गता ॥
गोसहस्रस्य दानं च तत्र स्नानं समं द्वयम् ॥ ४०-४१ ॥
रामतीर्थं ततः पुण्यं वैकुण्ठं यत्र सन्निधौ ॥
सोमतीर्थं ततः पुण्यं यत्रासौ नकुलो मुनिः ॥ ४०-४२ ॥
समभ्यर्च्य शिवं ध्यायन्गणतां तु समाययौ ॥
चम्पकाख्यं पुण्यतीर्थं यद्गङ्गोत्तरवाहिनी ॥ ४०-४३ ॥
मणिकर्णिकया तुल्यं महापातकनाशनम् ॥
कलशाख्यं ततस्तीर्थं कलशादुत्थितो मुनिः ॥ ४०-४४ ॥
अगस्त्यः पूजयन्यत्र रुद्रं मुनिवरोऽभवत् ॥
सोमद्वीपं महापुण्यं तीर्थं वाराणसीसमम् ॥ ४०-४५ ॥
सोमो यत्रार्चयन्नीशं रुद्रेण शिरसा धृतः ॥
विश्वामित्रस्य भगिनी गङ्गया यत्र सङ्गता ॥ ४०-४६ ॥
तत्राप्लुतो नरो भूयाद्वासवस्य प्रियोऽतिथिः ॥
जह्नुह्रदे महातीर्थे स्नातो मर्त्यो हि मोहिनि ॥ ४०-४७ ॥
एकविंशतिकुल्यानां तारको भवति ध्रुवम् ॥
तस्माददितितीर्थं च यत्रावापादितिर्हरिम् ॥ ४०-४८ ॥
कश्यपात्तत्र सुभगे स्नानमाहुर्महोदयम् ॥
शिलोच्चयं महातीर्थँ यत्र तप्त्वा तपः प्रजाः ॥ ४०-४९ ॥
तृणादिभिः सह स्वर्गं यान्ति तीर्थगणाश्रयात् ॥
इन्द्राणीनामतीर्थं स्याद्यत्रेन्द्राणी तु वासवम् ॥ ४०-५० ॥
तपस्तप्त्वा पतिं लेभे सेव्यमेतत्प्रयागवत् ॥
पुण्यदं स्नातकं तीर्थं विश्वामित्रस्तपश्चरन् ॥ ४०-५१ ॥
यत्र ब्रह्मर्षितां लेभे क्षत्त्रियस्तीर्था सेवया ॥
प्रद्युम्नतीर्थं तपसा ख्यातं यत्र स्मरो हरेः ॥ ४०-५२ ॥
प्रद्युम्ननामा पुत्रोऽभूत्परं तत्र महोदयम् ॥
ततो दक्षप्रयागं तु गङ्गातो यमुनागत ॥ ४०-५३ ॥
स्नात्वा तत्राक्षयं पुण्यं प्रयाग इव लभ्यते ॥ ४०-५४ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये स्थलविशेषस्नानफलकथनं नाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥