वसुरुवाच ॥
श्रृणु मोहिनी वक्ष्यामि तीर्थानां लक्षणं पृथक् ॥
येन विज्ञातमात्रेण पापिनां गतिरुत्तमा ॥ ३८-२ ॥
सर्वेषामपि तीर्थानां श्रेष्ठा गङ्गा धरातले ॥
न तस्या सदृशं किञ्चिद्विद्यते पापनाशनम् ॥ ३८-३ ॥
तच्छ्रुत्वा वचनं तस्य वसोः स्वस्य पुरोधसः ॥
प्रणता मोहिनी प्राह गङ्गास्नानकृतादरा ॥ ३८-४ ॥
मोहिन्युवाच ॥
भगवन्वाडवश्रेष्ठ गङ्गामाहात्म्यमुत्तमम् ॥
सर्वेषां च पुराणानां सम्मतं वद साम्प्रतम् ॥ ३८-५ ॥
श्रुत्वा माहात्म्यमतुलं गङ्गायाः पापनाशनम् ॥
पश्चात्पापविनाशिन्यां स्नातुं यास्ये त्वया सह ॥ ३८-६ ॥
तच्छ्रुत्वा मोहिनीवाक्यं वसुः सर्वपुराणवित् ॥
माहात्म्यं कथयामास गङ्गायाः पापनाशनम् ॥ ३८-७ ॥
वसुरुवाच ॥
ते देशास्ते जनपदास्ते शैला स्तेऽपि चाश्रमाः ॥
येषां भागीरथी पुण्या समीपे वर्तते सदा ॥ ३८-८ ॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ॥
तां गतिं न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ ३८-९ ॥
पूर्वे वयसि पापानि कृत्वा कर्माणि ये नराः ॥
शेषे गङ्गां निषेवन्ते तेऽपि यान्ति परां गतिम् ॥ ३८-१० ॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ॥
मासमेकं तु गङ्गायां स्नातस्तुल्यफलावुभौ ॥ ३८-११ ॥
तिष्ठेतार्वाक्छिरा यस्तु युगानामयुतं पुमान् ॥
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ ३८-१२ ॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ॥
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ ३८-१३ ॥
प्रकृष्टैः पातकै र्घोरैः पापिनः पुरुषाधमान् ॥
प्रसह्य तारयेद्गुङ्गा गच्छतो निरयेऽशुचौ ॥ ३८-१४ ॥
ते समानास्तु मुनिभिर्नूनं देवैः सवासवैः ॥
येऽभिगच्छन्ति सततं गङ्गामभिमतां सुरैः ॥ ३८-१५ ॥
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा सम्पावयेद्बृहती विश्वरूपा ॥
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकालं समृद्ध्ये ॥ ३८-१६ ॥
पक्षादौ कृष्णपक्षे तु भूमौ सन्निहिता भवेत् ॥
यावत्पुण्या ह्यमावास्या दिनानि दश मोहिनि ॥ ३८-१७ ॥
शुक्लप्रतिपदादेश्च दिनानि दश सङ्ख्यया ॥
पाताले सन्निधानं तु कुरुते स्वयमेव हि ॥ ३८-१८ ॥
आरभ्य शुक्लैकादश्या दिनानि दश यानि तु ॥
पञ्चम्यं तानि सा स्वर्गे भवेत्सन्निहिता सदा ॥ ३८-१९ ॥
कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् ॥
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥ ३८-२० ॥
कलौ तु सर्वतीर्थानि स्वं स्वं वीर्यं स्वभावतः ॥
गङ्गायां प्रतिमुञ्चन्ति सा तु देवी न कुत्रचित् ॥ ३८-२१ ॥
गङ्गाम्भः कणदिग्धस्य वायोः संस्पर्शनादपि ॥
पापशीला अपि नराः परां गतिमवाप्नुयुः ॥ ३८-२२ ॥
योऽसौ सर्वगतो विष्णुश्चित्स्वरूपी जनार्दनः ॥
स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः ॥ ३८-२३ ॥
ब्रह्महा गुरुडा गोघ्नः स्तेयी च गुरुतल्पगः ॥
गङ्गाम्भसा च पूयन्ते नात्र कार्या विचारणा ॥ ३८-२४ ॥
क्षेत्रस्थमृद्धृतं वापि शीतमुष्णमथापि वा ॥
गाङ्गेयं तु हरेत्तोयं पापमामरणान्तिकम् । ३८-२५ ॥
वर्ज्यं पर्युषितं तोयं वर्ज्यं पुर्युषितं दलम् ॥
न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम् ॥ ३८-२६ ॥
मेरोः सुवर्णस्य च सर्वरत्नैः सङ्ख्योपलानामुदकस्य वापि ॥
गङ्गाजलानां न तु शक्तिरस्ति वक्तुं गुणाख्यापरिमाणमत्र ॥ ३८-२७ ॥
तीर्थयात्राविधिं कृत्स्नमकुर्वाणोऽपि यो नरः ॥
गङ्गातोयस्य माहात्म्यात्सोऽप्यत्र फलभाग्भवेत् ॥ ३८-२८ ॥
चिन्तामणिगुणाच्चापि गङ्गायास्तोयबिन्दवः ॥
विशिष्टा यत्प्रयच्छन्ति भक्तेभ्यो वाञ्छितं फलम् ॥ ३८-२९ ॥
गण्डूषमात्रतो भक्त्या सकूद्गङ्गाम्भसा नरः ॥
कामधेनु स्तनोद्भूतान्भुङ्क्ते दिव्यरसान्दिवि ॥ ३८-३० ॥
शालग्रामशिलायां यस्तु गङ्गाजलं क्षिपेत् ॥
अपहत्य तमस्तीव्रं भाति सूर्यो यथोदये ॥ ३८-३१ ॥
मनोवाक्कायजैर्ग्रस्तः पापैर्बहुविधैरपि ॥
वीक्ष्य गङ्गां भवेत्पूतः पुरुषो नात्र संशयः ॥ ३८-३२ ॥
गङ्गातोयाभिषिक्तां तु भिक्षामश्नाति यः सदा ॥
सर्पवत्कञ्चुकं मुक्त्वा पापहीनो भवेत्स वै ॥ ३८-३३ ॥
हिमवद्विन्ध्यसदृशा राशयः पापकर्मणाम् ॥
गङ्गाम्भसा विनश्यन्ति विष्णुभक्त्या यथापदः ॥ ३८-३४ ॥
प्रवेशमात्रे गङ्गायां स्नानार्थं भक्तितो नृणाम् ॥
ब्रह्महत्यादिपापानि हाहेत्युक्त्वा प्रयान्त्यलम् ॥ ३८-३५ ॥
गङ्गातीरे वसेन्नित्यं गङ्गातोयं पिबेत्सदा ॥
यः पुमान्स विमुच्येत पातकैः पूर्वसञ्चितैः ॥ ३८-३६ ॥
यो वै गङ्गां समाश्रित्य नित्यं तिष्ठति निर्भयः ॥
स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः ॥ ३८-३७ ॥
किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः ॥
वास एव हि गङ्गायां सर्वतोऽपि विशिष्यते ॥ ३८-३८ ॥
किं यज्ञैर्बहुभिर्जाप्यैः किं तपोभिर्धनार्पणैः ॥
स्वर्गमोक्षप्रदा गङ्गा सुखसेव्या यतः स्थिता ॥ ३८-३९ ॥
यज्ञैर्यमैश्च नियमैर्दानैः सन्न्यासतोऽपि वा ॥
न तत्फलमवाप्रोति गङ्गां सेव्य यदाप्नुयात् ॥ ३८-४० ॥
प्रभासे गोसहस्त्रेण राहुग्रस्ते दिवाकरे ॥
यत्फलं लभते मर्त्यो गङ्गायां तद्दिनेन वै ॥ ३८-४१ ॥
अन्योपायांश्च यस्त्यक्त्वा मीक्षकामः सुनिश्चितः ॥
गङ्गातीरे सुखं तिष्ठेत्स वै मोक्षस्य भाजनम् ॥ ३८-४२ ॥
वाराणस्यां विशेषण गङ्गा सद्यस्तु मोक्षदा ॥
प्रतिमासं चतुर्दश्यामष्टम्यां चैव सर्वदा ॥ ३८-४३ ॥
गङ्गातीरे निवासश्च यावज्जीवं च सिद्धिदः ॥
कृच्छ्राणि सर्वदा कृत्वा यत्फलं सुखमश्नुते ॥ ३८-४४ ॥
सदा चान्द्रायणं चैव तल्लभेज्जाह्नवीतटे ॥
गङ्गासेवापरस्येह दिवसार्द्धेन यत्फलम् ॥ ३८-४५ ॥
न तच्छक्यं ब्रह्मसुते प्राप्तुं क्रतुशतैरपि ॥
सर्वयज्ञतपोदानयोगस्वाध्यायकर्मभिः ॥ ३८-४६ ॥
यत्फलं तल्लभेद्भक्त्या गङ्गातीरनिवासतः ॥
यत्पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारिणाम् ॥ ३८-४७ ॥
यदग्निहोत्रिणां पुण्यं तत्तु गङ्गानिवासतः ॥
समातृपितृदाराणां कुलकोटिमनन्तकम् ॥ ३८-४८ ॥
गङ्गाभक्तिस्तारयते संसारार्णवतो ध्रुवम् ॥
सन्तोषः परमैश्वर्यं तत्त्वज्ञानं सुखात्मनाम् ॥ ३८-४९ ॥
विनयाचारसम्पत्तिर्गङ्गाभक्तस्य जायते ॥
कृतकृत्यो भवेन्मर्त्यो गङ्गां प्राप्यैव केवलम् ॥ ३८-५० ॥
तद्भक्तस्तत्परश्च स्यान्मृतो वापि न संशयः ॥
भक्त्या तज्जलसंस्पर्शी तज्जलं पिबते च यः ॥ ३८-५१ ॥
अनायासेन हि नरो मोक्षोपायं स विन्दति ॥
दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥ ३८-५२ ॥
सर्वाणि येषां गङ्गायास्तोयैः कृत्यानि सर्वदा ॥
देहं त्यक्त्वा नरास्ते तु मोदन्ते शिवसन्निधौ ॥ ३८-५३ ॥
देवाः सोमार्कसंस्थानि यथा शक्रादयो मुखैः ॥
अमृतान्युपभुञ्जन्ति तथा गङ्गाजलं नराः ॥ ३८-५४ ॥
कन्यादानैश्च विधिवद्भूमिदानैश्च भक्तितः ॥
अन्नदानैश्च गोदानैः स्वर्णदानादिभिस्तथा ॥ ३८-५५ ॥
रथाश्वगजदानैश्च यत्पुण्यं परिकीर्तितम् ॥
ततः शतगुणं पुण्यं गङ्गाम्भश्चुलुकाशनात् ॥ ३८-५६ ॥
चान्द्रायणसहस्राणां यत्फलं परिकीर्तितम् ॥
ततोऽधिकफलं गङ्गातोयपानादवाप्यते ॥ ३८-५७ ॥
गण्डूषमात्रपाने तु अश्वमेधफलं लभेत् ॥
स्वच्छन्दं यः पिबेदम्भस्तस्य मुक्तिः करे स्थिता ॥ ३८-५८ ॥
त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ॥
नार्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्यति ॥ ३८-५९ ॥
शास्त्रेणाकृततोयानां मृतानां क्वापि देहिनाम् ॥
तदुत्तरफलावाप्तिर्गङ्गायामस्थियोगतः ॥ ३८-६० ॥
चान्द्रायणसहस्रं तु यश्चरेत्कायशोधनम् ॥
यः पिबेत्तु यथेष्ठं हि गङ्गाम्भः स विशिष्यते ॥ ३८-६१ ॥
गङ्गां पश्यति यः स्तौति स्नाति भक्त्या पिबेज्जलम् ॥
स स्वर्गं ज्ञानममलं योगं मोक्षं च विन्दति ॥ ३८-६२ ॥
यस्तु सूर्य्यांशुनिष्टप्तं गाङ्गेयं पिबते जलम् ॥
गोमूत्रयावकाहाराद्गाङ्गपानं विशिष्यते ॥ ३८-६३ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्यवर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ३८ ॥