वसिष्ठ उवाच ॥
मोहिनी मोहमुत्सृज्य गता विबुधमन्दिरम् ॥
भर्त्सिता देवदूतेन स्थितिस्तेऽत्र न पापिनी ॥ ३६-१ ॥
पापशीले सुदुर्मेधे भर्तृनिन्दापरायणे ॥
हरिवासरलोपिन्यां वासस्ते न त्रिविष्टपे ॥ ३६-२ ॥
धर्मतो विमुखानां च नरके वास इष्यते ॥
एवमुक्त्वा तु तां वायुः क्रूरं वचनपद्भुतम् ॥ ३६-३ ॥
ताडयित्वा च दण्डेन प्रेरयामास यातनाम् ॥
एवं सन्ताडिता राजन् देवदूतेन मोहिनी ॥ ३६-४ ॥
ब्रह्मदण्डपराभूता सम्प्राप्ता नरकं नृप ॥
तत्र धर्माज्ञया सा तु दूतैः सन्ताडिता चिरम् ॥ ३६-५ ॥
सर्वेषु क्रमशो गत्वा नरकेषु निपातिता ॥
पापे धर्माङ्गदः पुत्रो घातितः पतिपाणिना ॥ ३६-६ ॥
त्वया यतस्ततो भुङ्क्ष्व कृतकर्मफलं त्विह ॥
प्रजाहितं स्थिरप्रज्ञं महेन्द्रवरुणोपमम् ॥ ३६-७ ॥
सप्तद्वीपाधिपं पुत्रं हत्वेदृक्फलभोगिनी ॥
प्राकृतस्यापि पुत्रस्य हिंसायां ब्रह्महा भवेत् ॥ ३६-८ ॥
किं पुनर्द्धर्मयुक्तस्य पापे धर्माङ्गदस्य च ॥
एवं निर्भत्सिता दूतैर्यमस्य नृपसत्तम ॥ ३६-९ ॥
बुभुजे यातनाः सर्वाः क्रमशः शमनोदिताः ॥
ब्रह्मदण्डहतायास्तु देहस्पर्शेन यातनाः ॥ ३६-१० ॥
ज्वलिताङ्गा बभूवुस्ता धारणाय न तु क्षमाः ॥
ततस्ते नरका राजन् धर्मराजमुपागताः ॥ ३६-११ ॥
प्रोचुः प्राञ्जलयो भीतास्तदङ्गस्पर्शपीडिताः ॥
देवदेव जगन्नाथ धर्मराज दयां कुरु ॥ ३६-१२ ॥
इमां निःसारयाशु त्वं यातनाभ्यः सुखाय नः ॥
यस्याः स्पर्शनतो नाथ भस्मभूताः क्षणादहो ॥ ३६-१३ ॥
भविष्यामस्ततस्त्वेनां नरकेभ्यो विवासय ॥
तच्छ्रुत्वा वचनं तेषां धर्मराजोऽतिविस्मितः ॥ ३६-१४ ॥
दूतान्स्वान्प्रत्युवाचेयं निःसार्या मम मन्दिरात् ॥
यो ब्रह्मदण्डनिर्दग्धः पुमान् स्त्री वा च तस्करः ॥ ३६-१५ ॥
तस्य पापस्य संस्पर्शं नेच्छति यातना मम ॥
तस्मादिमां महापापां भर्तुर्वचनलोपिनीम् ॥ ३६-१६ ॥
पुत्रघ्नीं धर्महन्त्रीं च ब्रह्मदण्डहतामपि ॥
निःसारयत मे बापि देहो ज्वलति दर्शन्नात् ॥ ३६-१७ ॥
इत्युक्तास्ते तदा दूता धर्मराजेन भूपते ॥
प्रहरन्तोऽस्त्रशस्त्रैश्च बहिश्चक्रुर्यमक्षयात् ॥ ३६-१८ ॥
ततः सा दुःखिता राजन् मोहिनी मोहसंयुता ॥
पातालं प्रययौ तत्र पातालस्थैर्निवारिता ॥ ३६-१९ ॥
ततस्तु व्रीडितात्यर्थः मोहिनी ब्रह्मणः सुता ॥
जनकस्यान्तिकं गत्वा दुःखं स्वं सन्न्यवेदयत् ॥ ३६-२० ॥
तात तन्नास्ति मे स्थानं त्रैलोक्ये सचराचरे ॥
यत्र यत्र तु गच्छामि तत्र तत्र क्षिपन्ति माम् ॥ ३६-२१ ॥
अहं निर्वासिता लोकैर्घातयित्वायुधैर्दृढम् ॥
भवदाज्ञां समादाय गता रुक्मविभूषणम् ॥ ३६-२२ ॥
मया व्यवसितं चेदं सर्वलोकविगर्हितम् ॥
क्लेशयित्वा तु भर्तारं पुत्रं हत्वा वरासिना ॥ ३६-२३ ॥
सन्ध्यावलीं क्षोभयित्वा पितः प्राप्ता दशामिमाम् ॥
न गतिर्विद्यते देव पापाया मम साम्प्रतम् ॥ ३६-२४ ॥
विशेषाद्द्विजशापेन जाताहं दुःखभागिनी ॥
विप्रवाक्यहताना च दग्धानां चित्रभानुना ॥ ३६-२५ ॥
दिवाकीर्तिहतानां च भक्षितानां मृगादिभिः ॥
शतह्रदाविपन्नानां मुक्तिदा स्वर्णदीपितः ॥ ३६-२६ ॥
यदि त्वं त्रिदशैः सार्द्धं विप्रं तं शापदायिनम् ॥
प्रसादयसि मत्प्रीत्या तर्हि मे विहिता गतिः ॥ ३६-२७ ॥
तां तथावादिनीं राजन् ब्रह्मा लोकपितामहः ॥
शिवेन्द्रधर्मसूर्याग्निदेवेशैर्मुनिभिर्युतः ॥ ३६-२८ ॥
मोहिनीमग्रतः कृत्वा जगाम द्विजसन्निधौ ॥
तत्र गत्वा महीपाल ब्रह्मा देवादिभिर्वृतः ॥ ३६-२९ ॥
महता गौरवेणापि नमश्चक्रे स्वयं विधिः ॥
भूप रुद्रादिदेवैस्तु पूज्यो मान्यः पितामहः ॥ ३६-३० ॥
मोहिनीप्रीतये मुग्धः स्वयं चक्रे नमस्क्रियाम् ॥
कार्ये महति सम्प्राप्ते ह्यसाध्ये भुवनत्रये ॥ ३६-३१ ॥
न दूषितं भवेद्भूप यविष्ठस्याभिवादनम् ॥
स द्विजो वेदवेदाङ्गपरगस्तपसि स्थितः ॥ ३६-३२ ॥
सम्प्रेक्ष्य लोककर्तारं देवैः सह समागतम् ॥
समुत्थाय नमश्चक्रे ब्रह्माणं तान्मुनीन्सुरान् ॥ ३६-३३ ॥
वासयामास भक्त्या च स्तुतिं चक्रेऽब्जजन्मनः ॥
ततः प्रसन्नो भगवान् लोककर्त्ता जगद्गुरुः ॥ ३६-३४ ॥
ते द्विजं प्रार्थयामासुर्मोहिन्यर्थे नृपार्चितम् ॥
तात विप्र सदाचार परलोकोपकारक ॥ ३६-३५ ॥
कृपां कुरु कृपासिन्धो मोहिनीगतिदो भव ॥
मया सम्प्रेषिता ब्रह्मन् रुक्माङ्गदविमोहने ॥ ३६-३६ ॥
सुता मे यमलोकं तु शून्यं दृष्ट्वा च मानद ॥
वैकुण्ठं सङ्कुलं प्रेक्ष्य लोकैः सर्वैर्निराकुलैः ॥ ३६-३७ ॥
मनसोत्पादिता देवी देवानां हितकारिणी ॥
निशामय धरादेव यद्ब्रवीमि तवाग्रतः ॥ ३६-३८ ॥
गतिं धर्मस्यातिसूक्ष्मां लोककल्याणकारिणीम् ॥
अनया निकषाश्याङ्ग्या परीक्ष्य स्वर्णभूषणः ॥ ३६-३९ ॥
सदारः ससुतो ब्रह्मन्प्रापितो हरिमन्दिरम् ॥
राज्ञाऽप्रहतया भक्त्या हरिवासरपालनात् ॥ ३६-४० ॥
कृतं शून्यं यमस्थानं लिपिमार्जनकर्मणा ॥
देवापकारो विप्रर्षे न क्षमो बाहुजन्मना ॥ ३६-४१ ॥
भूसुराणां विशेषेणं यातास्ते तत्सहायकाः ॥ ३६-४२ ॥
न प्राप्यते साङ्घ्यविदा तु यच्च नाष्टाङ्गयोगेन तु भक्तिगम्यम् ॥
तत्प्रापितं भूसुर भूपभर्तुर्निजस्य पुत्रस्य तथा सपत्न्याः ॥ ३६-४३ ॥
यत्पुण्यशीलस्य नृपस्य भूपशिरोमणेराचरितं प्रतीपम् ॥
तत्पापवेगेन बभूव विद्रुता भस्मावशेषा तव शापदग्धा ॥ ३६-४४ ॥
देवार्थमेषा भववर्द्धनार्थँ नृपोपकाराय च सम्प्रवृत्ता ॥
न स्वार्थकामा लभतेऽवमानं कथं द्विजातोऽपकृतिं क्षमस्व ॥ ३६-४५ ॥
दयां कुरुष्व प्रशमं भजस्व पिष्टस्य पेषो नहि नीतियुक्तः ॥
शापप्रदानेननिपातितेयं कुरु प्रसादं गतिदो भवत्वम् ॥
यस्मिन्कृते ब्राह्मण मोहिनीयं बुद्धिं त्यजेत्क्रूरतरां त्वयीज्ये ॥ ३६-४६ ॥
स एवमुक्तः कमलासनेन विमृश्य बुद्ध्या विससर्ज कोपम् ॥
उवाच देवं त्रिदशाधिनाथं विमोहिनीदेहकृतं द्विजेन्द्रः ॥ ३६-४७ ॥
बहुपापयुता देव मोहिनी तनया तव ॥
न लोकेषु स्थितिस्तस्मात्प्राणिभिः सङ्कुलेषु च ॥ ३६-४८ ॥
मया विमृश्य सुचिरं मोद्दिन्यर्थँ विचिन्तितम् ॥
तद्दास्यमि तव प्रीत्या त्वं हि पूज्यतरो मम ॥ ३६-४९ ॥
यथा तव वचः सत्यं मम चापि सुरेश्वर ॥
देवकार्यं च भविता मोहिनीकृतत्यमेव च ॥ ३६-५० ॥
यन्नाक्रान्तं हि भूतौघैस्तत्स्थाने मोहिनीस्थितिः ॥
जङ्गमाजङ्गमैर्भूमिर्व्याप्ता द्वीपवती सदा ॥ ३६-५१ ॥
तलानि चापि दैत्याद्यैराकाशः पक्षिपूर्वकैः ॥
नाकः सुकृतिभिर्जीवैर्नरकाः पापकर्मभिः ॥ ३६-५२ ॥
झषाद्यैः सागरा व्याप्ता नैष्वस्पृष्यास्थितिस्ततः ॥
ततो ब्रह्मा सुरैः सर्वैः सम्मन्त्र्य नृपसत्तम ॥ ३६-५३ ॥
उवाच मोहिनीं देवीं नास्ति स्थानं तव क्वचित् ॥
तच्छ्रुत्वा मोहिनी वाक्यं पितुराज्ञाविधायिनी ॥ ३६-५४ ॥
उवाच प्रणता सर्वान् हरिवासरनाशिनी ॥
पुरोधसा समेतानो देवानां लोकसाक्षिणाम् ॥ ३६-५५ ॥
भवतां त्रिदशश्रेष्ठा एष बद्धो मयाञ्जलिः ॥
प्रणिपातशतेनापि प्रसन्नेन हृदा सुराः ॥ ३६-५६ ॥
दातव्यं याचितं मंह्यं सर्वेषां प्रीतिकारकम् ॥
एकादश्याः प्रभावेण सर्वेषां पापिनां गतिः ॥ ३६-५७ ॥
साध्यते तां सुरश्रेष्ठा वर्धितुं मे प्रयोजनम् ॥
पतिः सपत्नी पुत्रश्च मया वैकुण्ठगाः कृताः ॥ ३६-५८ ॥
भूर्लोके विधवाद्याहं वर्तामि भवतां कृते ॥
यथा हरिदिनं दुष्टं जायते मम मानदाः ॥ ३६-५९ ॥
एतत्प्रयाचे ददत स्वार्थार्थं तद्धि नान्यथा ॥ ३६-६० ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥