वसिष्ठ उवाच ॥
तत्पुत्रवचनं श्रुत्वा राजा रुक्माङ्गदस्तदा ॥
सन्ध्यावलीमुखं प्रेक्ष्य प्रहृष्टकमलोपमम् ॥ ३४-१ ॥
मोहिनीवचनं श्रृण्वन्भुङ्क्ष्व मा हन देहजम् ॥
मा भुङ्क्ष्व तनयं हिंस चेत्याग्रहसमन्वितम् ॥ ३४-२ ॥
एतस्मिन्नेव काले तु भगवान्कमलेक्षणः ॥
अन्तर्द्धानगतस्तस्थौ व्योम्नि धैर्यावलोककः ॥ ३४-३ ॥
त्रयाणां नृपशार्दूल मेघश्यामो निरञ्जनः ॥
धर्माङ्गदस्य वीरस्य तस्य रुक्माङ्गदस्य तु ॥ ३४-४ ॥
सन्ध्यावल्या समेतस्य वीशसंस्थो जनार्दनः ॥
वचने भुङ्क्ष्व भुङ्क्ष्वेति मोहिन्या व्याहृते तदा ॥ ३४-५ ॥
जग्राह विमलं खङ्गं हन्तुं धर्माङ्गदं सुतम् ॥
सुप्रहर्षेण मनसा प्रणम्य गरुडध्वजम् ॥
तं दृष्ट्वा खङ्गहस्तं तु पितरं धर्म्मम्भूषणः ॥ ३४-६ ॥
प्रणम्य मातापितरौ देवं चक्रधरं तथा ॥
वदनं प्रेक्ष्य चादीनं जनन्या नृपपुङ्गवः ॥ ३४-७ ॥
वृषाङ्गदेन तु तदा स्वग्रीवोर्वीतले कृता ॥
कम्बुग्रीवां समानां तु सुवर्णा सुकोमलाम् ॥ ३४-८ ॥
बहुरेखमथ स्थूलां खङ्गमार्गे ज्यदर्शयत् ॥।
पितृभक्त्या युतेनैव मातृभक्त्याधिकेन वै ॥ ३४-९ ॥
ग्रीवाप्रदाने तनयस्य भूप हर्षाकुले चारुसुधांशुवक्त्रे ॥
गृहीतखङ्गे जगदीशनाथे चचाल पृथ्वीं सनगा समग्रा ॥ ३४-१० ॥
सिन्धुः प्रवृद्धश्च बभूव सद्यो निमज्ज नार्थं भुवनत्रयस्य ॥
निपेतुरुल्काः शतशो धरायां निर्घातयुक्ताः सतडित्खमध्यात् ॥ ३४-११ ॥
विवर्णरूपा च बभूव मोहिनी न देवकार्यं हि कृतं मयेति ॥
निरर्थकं जन्म ममाधुनाभूत्कृतं तु दैवेन दजगद्विधायिना ॥ ३४-१२ ॥
विमोहनं रूपमिदं विडम्बनं यद्भूमिपालेन न भुक्तमन्नम् ॥
हरेर्दिने पापभयापहे तु तृणैः समाहं भविता त्रिविष्टपे ॥ ३४-१३ ॥
सत्वाधिको यास्यति मोक्षमार्गं गन्तास्मि पाप नरकं सुदारुणम् ॥ ३४-१४ ॥
समुद्यते तदा खङ्गे नृपेण नृपपुङ्गव ॥
मोहिनी मोहसंयुक्ता पपात धरणीतले ॥ ३४-१५ ॥
राजापि तेन खङ्गेन भ्राजमानः समुद्यतः ॥
ग्रीवायाश्छेदनार्थाय वृषाङ्गदसुतस्य तु ॥ ३४-१६ ॥
सकुण्डलं चारु शशिप्रकाशं भ्राजिष्णु वक्त्रं तनयस्य भूपः ॥
प्रचिच्छिदे यावदतीव हर्षाद्धैर्यान्वितो रुक्मविभूषणोऽसौ ॥ ३४-१७ ॥
तावद्गृहीतः स्वकरेण भूपः क्षीराब्धिकन्यापतिना महीपः ॥
तुष्टोऽस्मि तुष्टोऽस्मि न संशयोऽत्र गच्छस्व लोकं मम लोकनाथ ॥ ३४-१८ ॥
प्रियान्वितश्चात्मजसंयुतश्च कीर्तिं समाधाय महीतले तु ॥
त्रैलोक्यपूज्यां विमलां च शुक्लां कृत्वा पदं मूर्ध्नि यमस्य भूप ॥ ३४-१९ ॥
प्रयाहि वासं मम देहसञ्ज्ञं स चक्रिणो भूमिपतिः करेण ॥
संस्पृष्टमात्रो विरजा बभूव प्रियासमेतस्तनयेन युक्तः ॥ ३४-२० ॥
उपेत्य वेगेन जगाम देहं देवस्य दिव्यं स नृपो महात्मा ॥
विहाय लक्ष्मीमवनीप्रसूतां विहाय दासीःसुधनं स कोशम् ॥ ३४-२१ ॥
विहाय नागांस्तुरगान्रथांश्च स्वदारवर्गं स्वजनादिकांश्च ॥
जगाम देहं मधुसूदनस्य ततोंऽबरात्पुष्पचयः पपात ॥ ३४-२२ ॥
संहृष्टसिद्धैः सुरलोकपालैः सन्ताडिता दुन्दुभयो विनेदुः ॥
राजन् जगुर्गीतमतीव रम्यं देवाङ्गनाः सन्ननृतुर्मुदान्विताः ॥ ३४-२३ ॥
गन्धर्वकन्या नृपकर्मतुष्टास्तदद्भुतं प्रेक्ष्य दिनेशसूनुः ॥
हरेस्तनौ भूमिपतिं प्रविष्टं सदारपुत्रं स्वलिपिं प्रमार्ज्य ॥ ३४-२४ ॥
लोकांश्च सर्वान्नृपदिष्टमार्गे कृत्वा कृतज्ञान्हार्रलोकमार्गान् ॥
भीतः पुनः प्राप्य पितामहान्तिकं प्रोवाच देवं चतुराननं रुदन् ॥ ३४-२५ ॥
नाहं नियोगी भविता हि देव आज्ञाविहीनः सुरलोकनाथ ॥
विधेहि चान्यत्प्रकरोमि तात निदेशनं मास्तु मदीय दण्डम् ॥ ३४-२६ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सुतवधोद्यतस्य रुक्माङ्गदस्य भगवद्दर्शनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥