वसिष्ठ उवाच ॥
सन्ध्यावलीवचः श्रुत्वा मोहिनी दुहिता विधेः ॥
उवाच तत्परा स्वीये कार्ये मोहकरण्डिका ॥ ३२-१ ॥
यद्येवं त्वं विजानासि धर्माधर्मगतिं शुभे ॥
भर्तुरर्थे प्रदात्री च धनजीवितयोरपि ॥ ३२-२ ॥
तदाहं याचये वित्तं जीवितादधिकं शुभे ॥
देहि पुत्रशिरों मह्यं यदिष्टटं हृदयाधिकम् ॥ ३२-३ ॥
यदि नो भोजनं कुर्यात्सम्प्राप्ते हरिवासरे ॥
तदा स्वहस्ते सङ्गृह्य खङगं राजा पतिस्तव ॥ ३२-४ ॥
धर्माङ्गदशिरश्चारु चन्द्रबिम्बोपमं शुभम् ॥
अजातश्मश्रुकं चैव कुण्डलाभ्यां विभूषितम् ॥ ३२-५ ॥
छित्वा शीघ्रं पातयतु ममोत्सङ्गे सुलोचने ॥
एतद्वा कुरुतद्भद्रे यदान्नं न भुनक्ति च ॥ ३२-६ ॥
दिने माधवदेवस्य पापसङ्घविनाशने ॥
तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम् ॥ ३२-७ ॥
प्रचकम्पे क्षणं देवी शीतार्ता कदली यथा ॥
सन्ध्यावली ततो धैर्यमास्थाय वरवार्णिनी ॥ ३२-८ ॥
उवाच मोहिनीं वाक्यं सुमुखी प्रहसन्त्यपि ॥
श्रूयन्ते हि पुराणेषु गाथाः सुभ्रु समीरिताः ॥ ३२-९ ॥
द्वादशी प्रति सम्बद्धाः स्वर्गमोक्षप्रदायिकाः ॥
धनं त्यजेत्त्यजेद्दाराञ्जीवितं च गृहं त्यजेत् ॥ ३२-१० ॥
त्यजेद्देशं तथा भूपं स्वर्गं मित्रं गुरुं त्यजेत् ॥
त्यजेत्तीर्थं त्यजेद्धर्मं त्यजेदत्यन्तसुप्रियम् ॥ ३२-११ ॥
त्यजेद्योगं त्यजेद्दानं ज्ञानं पुण्यक्रिया त्यजेत् ॥
तपस्त्यजेत्त्यजेद्विद्यां सिद्धिं मोक्षं त्यजेच्छुभे ॥ ३२-१२ ॥
न त्यजेद्द्वादगशीं पुण्यां पक्षयोरुभयोरपि ॥
इह सम्बन्धिनः सर्वे पुत्रभ्रातृसुहृत्प्रियाः ॥ ३२-१३ ॥
ऐहिकामुष्मिके देवि साधनी द्वादशी स्मृता ॥
द्वादश्यास्तु प्रभावेण सर्वं क्षेमं भविष्यति ॥ ३२-१४ ॥
दापये तव तुष्ट्यर्थं धर्माङ्गदशिरः शुभे ॥
विश्वासं कुरु मे वाक्ये सुखिनी भव शोभने ॥ ३२-१५ ॥
इहार्थं श्रूयते भद्रे इतिहासः पुरातनः ॥
कथयिष्यामि ते भद्रे सावधाना श्रुणुष्व मे ॥ ३२-१६ ॥
आसीद्विरोचनः पूर्वं दैत्यो धर्मपरायणः ॥
तस्य भार्या विशालाक्षी द्विजपूजनतत्परा ॥ ३२-१७ ॥
नित्यमेकमृषिं प्रातः पूजयित्वा यथाविधि ॥
पादोदकं तस्य सुभ्रु भक्त्या पिबति हृष्टधीः ॥ ३२-१८ ॥
प्राह्लादिशङ्किता देवा आसन्पूर्वं मृते सति ॥
हिरण्यकशिपौ राज्यं शासति ह्युग्रतेजसि ॥ ३२-१९ ॥
प्राह्लादौ ह्लादसंयुक्ते चेरुर्व्यग्रा महीतले ॥
एकदा शक्रमुख्यास्ते देवाः समन्त्र्य वाक्पतिम् ॥ ३२-२० ॥
प्रोचुः किं कार्यमधुनास्माभिः शत्रु प्रतापितैः ॥
तच्छ्रुत्वा वचनं तेषां देवानां गुरुरब्रवीत् ॥ ३२-२१ ॥
विष्णुर्विज्ञापनीयोऽद्य दुःखं प्राप्तैः सुरव्रजैः ॥
तच्छ्रुत्वा भाषितं तस्य गुरोरमिततेजसः ॥ ३२-२२ ॥
विरोचनप्राणहत्यै जग्मुर्वैकुण्ठमन्तिके ॥
तत्र गत्वा सुरश्रेष्ठं वैकुण्ठं तुष्टुवुः स्तवैः ॥ ३२-२३ ॥
देवा ऊचुः ॥
नमो देवाधिदेवाय विष्णवेऽमिततेजसे ॥
भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः ॥ ३२-२४ ॥
हरयेऽद्भुतसिंहाय वामनाय महात्मने ॥
क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने ॥ ३२-२५ ॥
कूर्माय मन्दरधृते भार्गवायाब्धिशायिने ॥
रामायाखिलनाथाय विश्वेशाय च साक्षिणे ॥ ३२-२६ ॥
दत्तात्रेयाय शुद्धाय कपिलायार्तिहारिणे ॥
यज्ञाय धृतधर्माय सनकादिस्वरूपिणे ॥ ३२-२७ ॥
ध्रुवस्य वरदात्रे च पृथवे भूरिकर्मणे ॥
ऋषभाय विशुद्धाय हयशीर्षभृतात्मने ॥ ३२-२८ ॥
हंसायागमरूपायामृतकुम्भविधारिणे ॥
कृष्णांय वासुदेवाय सङ्कर्षणवपुर्धृते ॥ ३२-२९ ॥
प्रद्युम्नायानिरुद्धाय ब्रह्मणे शङ्कराय च ॥
कुमाराय गणेशाय नन्दिने भृङ्गिणे नमः ॥ ३२-३० ॥
गन्धमादनवासाय नरनारायणाय च ॥
जगन्नाथाय नाथाय नमो रामेश्वराय च ॥ ३२-३१ ॥
द्वारकावासिने चैव तुलसी वनवासिने ॥
नमः कमलनाभाय नमस्ते पङ्कजाङ्घ्रये ॥ ३२-३२ ॥
नमः कमलहस्ताय कमलाक्षाय ते नमः ॥
कमलाप्रतिपालाय केशवाय नमो नमः ॥ ३२-३३ ॥
नमो भास्कररूपाय शशिरूपधराय च ॥
लोकपालस्वरूपाय प्रजापतिवपुर्धृते ॥ ३२-३४ ॥
भूतग्रामस्वरूपाय जीवरूपाय तेजसे ॥
जयाय जयिने नेत्रे नियमाय क्रियात्मने ॥ ३२-३५ ॥
निर्गुणाय निरीहाय नीतिज्ञायाक्रियात्मने ॥
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च ॥ ३२-३६ ॥
गोविन्दाय जगद्भर्त्रेऽनन्तायाद्याय शार्ङ्गिणे ॥
शङ्खिने गदिने चैव नमश्चक्रधराय च ॥ ३२-३७ ॥
खड्गिने शूलिने चैव सर्वशस्त्रास्त्रघातिने ॥
शरण्याय वरेण्याय पराय परमात्मने ॥ ३२-३८ ॥
हृषीकेशाय विश्वाय विश्वरूपाय ते नमः ॥
कालनाभाय कालाय शशिसूर्य्यदृशे नमः ॥
पूर्णाय परिसेव्याय परात्परतराय च ॥ ३२-३९ ॥
जगत्कर्त्रे जगद्भर्त्रे जगद्धात्रेंऽतकाय च ॥
मोहिने क्षोभिने कामरूपिणेऽजाय सूरिणे ॥ ३२-४० ॥
भगवंस्तव सम्प्राप्ताः शरणं दैत्यतापिताः ॥
तद्विधत्स्वाखिलाधार यथा हि सुखिनो वयम् ॥ ३२-४१ ॥
पुत्रमित्रकलत्रादिसंयुता विहरामहे ॥
तच्छ्रुत्वा स्तवनं तेषां वैकुण्ठः प्रीतमानसः ॥ ३२-४२ ॥
प्रददौ दर्शनं तेषां दैत्यसं सन्तापितात्मनाम् ॥
ते दृष्ट्वा देवदेवेशं वैकुण्ठं स्निग्धमानसम् ॥ ३२-४३ ॥
विरोचनवधायाशु प्रार्थयामासुरादरात् ॥
तच्छ्रुत्वा शक्रमुख्यानां कार्यं कार्यविदां वरः ॥ ३२-४४ ॥
समाश्वास्य सुरान्प्रीत्या विससर्ज मुदान्वितान् ॥
गतेषु देववर्गेषु सर्वोपायविदांवरः ॥ ३२-४५ ॥
वृद्धब्राह्मणरूपेण विरोचनगृहं ययौ ॥
द्विजपूजनकाले तु सम्प्राप्तः कार्यसाधकः ॥ ३२-४६ ॥
तं तु दृष्ट्वा विशालाक्षी ब्राह्मणं हृष्टमानसा ॥
अपूर्वं भक्तिभावेन ददौ सत्कृत्य चासनम् ॥ ३२-४७ ॥
सोऽनङ्गीकृत्य तद्दत्तमासनं प्राह तां शुभे ॥
नाहं समाददे देवि त्वद्दत्तं परमासनम् ॥ ३२-४८ ॥
श्रृणु मे कार्यमतुलं यदर्थमहमागतः ॥
यन्मे मनोगतं कार्यं तद्विज्ञाय च मानिनि ॥ ३२-४९ ॥
योंऽगीकरोति तत्पूजां ग्रहीष्यामि वरानने ॥
तच्छ्रुत्वा वृद्धविप्रस्य वाक्यं वाक्यविशारदा ॥ ३२-५० ॥
मायया मोहिता विष्णोः स्त्रीत्वाच्चाहातिहर्षिता ॥
विशालाक्ष्युवाच ॥
यत्ते मनोगतं विप्र तद्दास्यामि गृहाणमे ॥ ३२-५१ ॥
आसनं पादसलिलं देहि मे वाञ्छितार्थदम् ॥
इत्युक्तः स द्विजः प्राह न प्रत्येमि स्त्रिया वचः ॥ ३२-५२ ॥
तव भर्ता यदि वदेत्तदा मे प्रत्ययो भवेत् ॥
तदाकर्ण्य द्विजेनोक्तं विरोचनगृहेश्वरी ॥ ३२-५३ ॥
पतिमाकारयामास तत्रैव द्विजसन्निधौ ॥
स प्राप्तो दूतवाक्येन प्राह्लादिर्हृष्टमानसः ॥ ३२-५४ ॥
अन्तःपुरं यत्र भार्या विशालाक्षी समास्थिता ॥
तमागतं समालोक्य पतिं धर्मपरायणा ॥ ३२-५५ ॥
उत्थाय नत्वा विप्राग्र्यमासनं पुनरर्पयत् ॥
यदा तु जगृहे नैव दत्तमासनमादरात् ॥ ३२-५६ ॥
राजानं कथयामास दैत्यानां पतिमात्मनः ॥
तद्दृत्तान्तमुपाज्ञाय दैत्यराट् स विरोचनः ॥ ३२-५७ ॥
भार्यास्नेहेन मुग्धात्मा तत्तदाङ्गीचकार ह ॥
अङ्गीकृते तु दैत्येन तद्विज्ञाय च मानसम् ॥ ३२-५८ ॥
उवाच ब्राह्मणो हृष्टः स्वमायुर्मम कल्पय ॥
ततस्तु दम्पती तत्र मुग्धौ स्वकृतया शुचा ॥ ३२-५९ ॥
मुहूर्तं ध्यानमास्थाय करौ बद्धोचतुर्द्विजम् ॥
गृहाण जीवितं विप्र देहि पादोदकं मम ॥ ३२-६० ॥
त्वयोक्तं वचनं सत्यं कुर्वः प्रीतिमवाप्नुहि ॥
ततस्तु विप्रः प्रोतात्मा तदङ्गीकृत्य चासनम् ॥ ३२-६१ ॥
पादोदकं ददौ तस्यै भक्त्या प्रीतो जनार्दनः ॥
प्रक्षाल्य पादौ विप्रस्य विशालाक्षी मुदान्विता ॥ ३२-६२ ॥
पत्या सह दधौ मूर्ध्नि अपः पादावनेजनीः ॥
ततस्तु सहसा सुभ्रु दम्पती दिव्यरूपिणौ ॥ ३२-६३ ॥
विमानवरमारुह्य जग्मतुर्वैष्णवं पदम् ॥
ततः प्रसन्नो भगवान् देवशल्यं विमोच्य सः ॥ ३२-६४ ॥
ययौ वैकुण्ठभवनं सर्वैर्देवगणैः स्तुतः ॥
एवं मयापि दातव्यं तव देवि प्रतिश्रुतम् ॥ ३२-६५ ॥
न सत्याच्चालये देवि पतिं रुक्माङ्गदाभिधम् ॥
सत्तयमेव मनुष्याणां गतिदं परिकीर्तितम् ॥ ३२-६६ ॥
सत्याच्च्चुतं मनुष्यं हि श्वपाकादधमं विदुः । ३२-६७ ॥
इत्येवमुक्त्वा कनकावदाता सा मोहिनीं पङ्कजजन्मजाताम् ॥
जग्राह भर्तुश्चरणौ सुताम्नौ रक्ताङ्गुली पाणियुगेन सुभ्रूः ॥ ३२-६८ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सन्ध्यावलीकथनं नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥