०३१

वसिष्ठ उवाच ॥
तच्छ्रुत्वा वचनं तस्याः काष्ठीलायाः शुचिस्मिते ॥
सन्ध्यावली नाम भृशं तामुवाच ह सादरम् ॥ ३१-१ ॥

त्वद्वाक्याद्विस्मयो जातः काष्ठीले साम्प्रतं मम ॥
कथं दृष्टा मया त्वं च यास्यन्ती कुत्सितां गतिम् ॥ ३१-२ ॥

कर्मणा केन ते मुक्तिर्भवेत्कुत्सितयोनितः ॥
तन्मे वद विशालाङ्गे त्वां दृष्ट्वा दुःखिता ह्यहम् ॥ ३१-३ ॥

मांसपिण्डोपमं श्लक्ष्णं नवनीतोपमं शुभे ॥
शरीरं तव संवीक्ष्य तया मे जायते हृदि ॥ ३१-४ ॥

काष्ठीलोवाच ॥
पृथिवीं दास्यसे सुभ्रु सकलामपि मत्कृते ॥
तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः ॥ ३१-५ ॥

येन पुण्येन सुभगे मुच्येयं कर्मबन्धनात् ॥
तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय ॥ ३१-६ ॥

यश्चायं माघमासस्तु सर्वमासोत्तमः स्मृतः ॥
यस्मिन् क्रोंशति पापानि ब्रह्महत्यादिकानि च ॥ ३१-७ ॥

दुर्लभो माघमासो वै दुर्ल्लभं जन्म मानुषम् ॥
दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम् ॥ ३१-८ ॥

दुर्लभो वासरो विष्णोर्विधिना समुपोषितः ॥
देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले ॥ ३१-९ ॥

तस्माज्जलं माघमासे पावनं हि विशेषतः ॥
नेदृशी सङ्गरे शूरैर्गतिः प्राप्येत सौख्यदा ॥ ३१-१० ॥

यादृशी प्लवने प्रातः प्राप्यते नियमस्थितैः ॥
सरित्तडागवापीषु स्नाने सत्तममीरितम् ॥ ३१-११ ॥

कूपभाण्डजलैर्मध्यं जघन्यं वह्नितापितैः ॥
न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत् ॥ ३१-१२ ॥

धर्म्मसेवार्थकं स्नानं नाङ्गनैर्मल्यहेतुकम् ॥
होमार्थं सेवनं वह्नेर्न च शीतादिहानये ॥ ३१-१३ ॥

यावन्नोदयते सूर्यस्तावत्स्नानं विधीयते ॥
आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत् ॥ ३१-१४ ॥

अभावे सरिदादीनां नवकुम्भस्थितं जलम् ॥
वायुना ताडितं रात्रौ स्नाने गङ्गासमं विदुः ॥ ३१-१५ ॥

माघस्नायी वरारोहे दुर्गतिं नैव पश्यति ॥
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत् ॥ ३१-१६ ॥

अग्निप्रवेशादधिकं माघोषस्येव मज्जनम् ॥
जीवता भुज्यते दुःखं मृतेन बहुलं सुखम् ॥ ३१-१७ ॥

एतस्मात्कारणाद्भद्रे माघस्नानं विशिष्यते ॥
अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः ॥ ३१-१८ ॥

मेघपुंष्पोपपन्नेन सहान्नेन सुमध्यमे ॥
यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः ॥ ३१-१९ ॥

माध्यां स्नानसमाप्तै तु दद्याद्विप्राय षड्रसम् ॥
सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः ॥ ३१-२० ॥

वासांसि द्विजयुग्माय स सप्तान्नानि चार्पयेत् ॥
त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः ॥ ३१-२१ ॥

भागास्त्रयस्तिलानां तु चतुर्थः शर्करांशकः ॥
ताम्बूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित् ॥ ३१-२२ ॥

स्रोतोमुखः सरिति चान्यत्र भास्करसम्मुखः ॥
स्नायादावाह्य तीर्थानि गङ्गादीन्य कर्मण्डलात् ॥ ३१-२३ ॥

यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम् ॥
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा ॥ ३१-२४ ॥

दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते ॥
परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत ॥ ३१-२५ ॥

तीर्थस्नायी वरारोहे माघस्नायी फलाल्पकः ॥
तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम् ॥ ३१-२६ ॥

माघस्य धवले पक्षे भवेदेकादशी तु या ॥
रविवारेण संयुक्ता महापातकनाशिनी ॥ ३१-२७ ॥

विनापि ऋक्षसंयोगं सा शुक्लैकादशी नृणाम् ॥
विनिर्दहति पापानि कुनृपो विषयं यथा ॥ ३१-२८ ॥

कुपुत्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा ॥
अधर्मस्तु यथा धर्मं कुमन्त्री नृपतिं यथा ॥ ३१-२९ ॥

अज्ञानं च यथा ज्ञानं कुशौचं शुचितां यथा ॥
यथा हन्त्यनृतं सत्यं वादस्संवादमेव च ॥ ३१-३० ॥

उष्णं हिममनर्थोऽर्थं पापं कीर्तिं स्मयस्तपः ॥
यथा रसा महारोगाञ्छ्राद्धं सङ्केत एव च ॥ ३१-३१ ॥

तथा दुरितसङ्घं तु द्वादशी हन्ति साधिता ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ ३१-३२ ॥

महान्ति पातकान्येतान्याशु हन्ति हरेर्दिनम् ॥
समवेतानि चैतानि न शामयति पुष्करम् ॥ ३१-३३ ॥

न चापि नैमिषारण्यं न क्षेत्रं कुरुसञ्ज्ञितम् ॥
प्रभासो न गया देवि न रेवा न सरस्वती ॥ ३१-३४ ॥

न गगा यमुना चैव प्रयागो न च देवका ॥
न सरांसि नदाश्चान्ये होमदानतपांसि च ॥ ३१-३५ ॥

न चान्यत्सुकृतं सुभ्रु पुराणे पठ्यते स्फुटम् ॥
पापसङ्घविनाशाय मुक्त्वैकं हरिवासरम् ॥ ३१-३६ ॥

उपोषणात्सकृद्देवि विनश्यन्त्यघराशयः ॥
एकतः पृथिवीदानमेकतो हरिवासरम् ॥ ३१-३७ ॥

न समं ब्रह्मणा प्रोक्तमधिकं हरिवासरम् ॥
तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम् ॥ ३१-३८ ॥

घटोपरि नवे पात्रे धृत्वा ताम्रमये शुभे ॥
सर्वबीजान्विते चैव सितवस्त्रावगुण्ठिते ॥ ३१-३९ ॥

सहिरण्ये सुदीपाढ्ये कृतपुष्पावतंसके ॥
विधिना पूजयित्वा चकुर्याज्जागरणं व्रती ॥ ३१-४० ॥

प्रातर्विप्राय दद्याच्च वैष्णवाय कुटुम्बिने ॥
तत्कुम्भक्रोडसंयुक्तं सनैवेद्यपरिच्छदम् ॥ ३१-४१ ॥

पश्चाच्च पारणं कुर्याद्द्विजान्भोज्य सुहृद्वृतः ॥
एवं कृते वरारोहे न भूयो जायते क्वचित् ॥ ३१-४२ ॥

बहुजन्मार्ज्जितं पापं ज्ञानाज्ञानकृतं च यत् ॥
तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥ ३१-४३ ॥

यथाशास्त्रं मया तुभ्यं वर्णिता द्वादशी शुभे ॥
या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि ॥ ३१-४४ ॥

यस्यास्तवातुला पुष्टिर्वर्तते वर्तयिष्यति ॥
भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी ॥ ३१-४५ ॥

तस्यास्त्वया तुरीयांशो देयश्चेन्मह्यमादरात् ॥
तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम् ॥ ३१-४६ ॥

वित्ताह्रुतिजं पापं यद्भूतं मम सुन्दरि ॥
तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे ॥ ३१-४७ ॥

जीवितेनापि वित्तेन भर्तारं वञ्चयेत्तु या ॥
कृमियोनिशतं गत्वा पुल्कसी जायते तु सा ॥ ३१-४८ ॥

सुरतं याचमानाय पत्ये वित्तं च मानिनि ॥
या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम् ॥ ३१-४९ ॥

तत्पातकविशुद्ध्यर्थं देहि मे द्वादशीभवम् ॥
तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा ॥ ३१-५० ॥

एतच्छ्रुत्वा वचस्तस्याः काष्ठीलायाः सुलोचने ॥
पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च ॥ ३१-५१ ॥

यत्कृतं हि मया पूर्वमेकादश्यामुपोषणम् ॥
तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम् ॥ ३१-५२ ॥

पूर्वजन्मकृतात्पापात्सत्यं सत्यं मयोदितम् ॥
एवमुक्ते तु वचने मया विद्युत्समप्रभा ॥ ३१-५३ ॥

दृष्टा दिव्यविमानस्था गच्छन्ती वैष्णवं पदम् ॥
पतिर्हि दैवतं लोके वञ्चनीयो न भार्यया ॥ ३१-५४ ॥

देहेन चापि वित्तेन यदीच्छेच्छोभनां गतिम् ॥
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ॥ ३१-५५ ॥

वित्तं देहं तथा पुत्रं यच्चान्यद्वा वरानने ॥
किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना ॥ ३१-५६ ॥

तस्यार्थे वा त्यजेद्वित्तं जीवितं वा सुलोचने ॥
कल्पकोटिशतं साग्रं विष्णुलोके महीयते ॥ ३१-५७ ॥

अग्न्यादिसाक्ष्ये वृतमीक्ष्य निष्ठुरा युक्तं सुधोरैर्व्यसनैर्द्विजात्मजा ॥
पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा ॥ ३१-५८ ॥

एतन्मया दुष्टमनङ्गयष्टि कौमारभावे पितृवेश्मवासे ॥
ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु ॥ ३१-५९ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने माघमाहात्म्यं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥