काष्ठीलोवाच ॥
एवं सा राक्षसी सुभ्रु हस्तिनीरूपधारिणी ॥
त्रिभिर्मुहूर्तैः सम्प्राप्ता काशीं विश्वेशमन्दिरम् ॥ २९-१ ॥
उवाच तां पुरीं प्राप्य भर्तारमसितेक्षणा ॥
इयं पापतरोः कान्त कुठारा परिकीर्तिता ॥ २९-२ ॥
षडूर्मिकाञ्चनस्यैषा कान्त प्रोक्ता दुरोदरी ॥
कर्मबीजोपशमनी सर्वेषां गतिदायिका ॥ २९-३ ॥
आद्यं हि वैष्णवं स्थानं पुराणाः सम्प्रचक्षते ॥
नावैष्णवे स्थले मुक्तिः सर्वस्य तु कदाचन ॥ २९-४ ॥
माधवस्य पुरी चेयं पूर्वमासीद्द्विजोत्तम ॥
मुक्तिदा सर्वजन्तूनां सर्वपापप्रणाशिनी ॥ २९-५ ॥
एकदा शङ्करो देवो द्रष्टुं प्रागात्पितामहम् ॥
सर्वलोकैककर्तारं भ्राजमानं स्वतेजसा ॥ २९-६ ॥
गत्वा तत्र महादेवो ब्रह्माणं जगतां गुरुम् ॥
नमस्कृत्य स्थितो ह्यग्रे वेदपाठं निशामयन् ॥ २९-७ ॥
चतुर्भिरद्भुतैवक्त्रैश्चतुरो निगमान्मुदा ॥
उद्गिरन्तं जगन्नाथं दृष्ट्वा प्रीतोऽभवत्तदा ॥ २९-८ ॥
अथ तत्पञ्चमं वक्त्रं ब्रह्मणो भूतनायकः ॥
प्रगल्भं तमुपालक्ष्य क्षणाज्जातः समत्सरः ॥ २९-९ ॥
स क्रोधजन्मा विप्रेन्द्र तस्य प्रागल्भ्यमक्षमन् ॥
चकर्त तन्नखाग्रेण खस्थं वक्त्रं त्रिलोचनः ॥ २९-१० ॥
तच्छिन्नं ब्रह्मणः शीर्षं संलग्नं करपल्लवे ॥
वामे निर्धूतमानिशं न निवृत्तं द्विजोत्तम ॥ २९-११ ॥
ब्रह्मा तु दुःखितो भूत्वा तस्थौ स्थाणुं व्यलोकयन् ॥
रुद्रोऽपि लज्जितो भूत्वा निर्ज्जगाम त्वरान्वितः ॥ २९-१२ ॥
बहुधा यतमानोऽपि तच्छिरः क्षेप्तुमातुरः ॥
न शशाक परित्यक्तुं तदद्भुतमभून्महत् ॥ २९-१३ ॥
चिन्तया व्याकुलो भूत्वा सस्मार गरुडध्वजम् ॥
तेन संस्मृतमात्रस्तु शीघ्रमाविरभूच्च सः ॥ २९-१४ ॥
तं दृष्ट्वा देवदेवेशं विष्णुं सर्वगतं द्विज ॥
ननाम शिरसा नम्रो निष्प्रभो वृषभध्वजः ॥ २९-१५ ॥
तं तथातुरमालक्ष्य भीतं ब्रह्मद्रुहं हरिः ॥
समाश्वास्या ब्रवीद्वाक्यं तत्तोषपरिकारकम् ॥ २९-१६ ॥
शम्भो त्वया कृतं पापं यच्चिन्नं ब्रह्मणः शिरः ॥
तत्फलं भुङ्क्ष्व संर्वज्ञ कियत्कालं कृतं स्वयम् ॥ २९-१७ ॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥
नाभुक्तं क्षीयते कर्म ह्यपि जन्मशतैः प्रिय ॥ २९-१८ ॥
किं करोमि क्व गच्छामि त्वां दृष्ट्वा दुःखितं हरम् ॥
प्राणा विकलतां यान्ति मम त्वद्दुःखदर्शनात् ॥ २९-१९ ॥
यानि कानि च पापानि महान्ति महतां गते ॥
न तानि ब्रह्महत्यायाः समानीति मतिर्मम ॥ २९-२० ॥
यस्त्वं सर्वस्य लोकस्य गुरुर्धर्मोपदेशकः ॥
ब्रह्महत्याभिभूतस्तु क्षणं स्थातुं न च क्षमः ॥ २९-२१ ॥
एषा घोरतरा हत्या मीनगन्ध्या जरातुरा ॥
लेलिहाना सुरेशान ग्रहीतुं त्वानुधावति ॥ २९-२२ ॥
तस्मान्नैकत्र भवता स्थेयं द्वादशबत्सरम् ॥
अटनीयं हितार्थाय पापनाशाभिकाम्यया ॥ २९-२३ ॥
अटित्वा द्वादशाब्दानि तीर्थेषु सकलेषु च ॥
प्रक्षालयन्करं वामं भिक्षां गृह्णन्कपालके ॥ २९-२४ ॥
शुद्धिं यास्यसि देवेश पापादस्मात्सुदारुणात् ॥
इत्युक्तो विष्णुना विप्र स्थाणुः सर्वगतोऽभवत् ॥ २९-२५ ॥
कपालमोचनार्थं हि पाणिं प्रक्षालयन् जले ॥
वर्षत्रयं भ्रमित्वा तु प्राप्तो बदरिकाश्रमम् ॥ २९-२६ ॥
भिक्षार्थं देवदेवस्य धर्मपुत्रस्य मानद ॥
द्वारस्थो देहि भिक्षां मे विष्णो इत्यवदन्मुहुः ॥ २९-२७ ॥
ततो नारायणो देवो दृष्ट्वा द्वारि स्थितं हरम् ॥
गृहाण भिक्षामित्युक्त्वा प्रददौ दक्षिणं करम् ॥ २९-२८ ॥
ततो हरो हरिं दृष्ट्वा भिक्षां दातुं समुद्यतम् ॥
प्राहरद्दक्षिणं पाणिं त्रिशूलेन द्विजोत्तम ॥ २९-२९ ॥
तत्त्रिशूलक्षताद्धारास्तिस्रो लोकभयङ्कराः ॥
प्रस्थद्वादशहस्ताश्च निर्गताश्चित्रवर्णिकाः ॥ २९-३० ॥
एका क्षतजधारा तु कपाले न्यपतत्तदा ॥
द्वितीया तन्मुखे प्राप्ता पयस्याथ तृतीयका ॥ २९-३१ ॥
जलधारा शिवं प्राप्ता हरस्य हेतुरग्रतः ॥
ता धारास्त्रीणि वर्षाणि संसेव्य विधिवद्धरः ॥ २९-३२ ॥
किञ्चित्प्रीतो ययौ क्षेत्रं कुरोः पुण्यकरं द्विज ॥
तत्र गत्वा हरः स्थाणुर्भूतस्तत्र पपात च ॥ २९-३३ ॥
ब्रह्मह्रदे त्रिवर्षाणि मग्रो ब्रह्मह्रदाम्बुनि ॥
वर्षत्रये गते तत्र क्षतार्द्धाङ्गो विनिःसृतः ॥ २९-३४ ॥
चिरं तुष्टाव देवेशं विष्णुं सर्वगुहाशयम् ॥
ततस्तुष्टो जगन्नाथो वरं तस्मै ददौ तु सः ॥ २९-३५ ॥
गच्छ काशीमितो भ्रान्त्वा तीर्थानि बहुशो हर ॥
ततो हरिं नमस्कृत्य परीत्य बहुधा तथा ॥ २९-३६ ॥
क्रमात्तीर्थाटनं कुर्वन्नविमुक्तपुरीं गतः ॥
अविमुक्तस्य सीमायां प्राविशद्वीक्ष्तय धूर्जटिः ॥ २९-३७ ॥
नापश्यत्तामनुप्राप्तां ब्रह्महत्यां बहिः स्थिताम् ॥
ततोऽसौ वैष्णवं ज्ञात्वा क्षेत्रं दुरितनाशनम् ॥
तुष्टाव प्रयतो भूत्वा माधवं वन्द्यमीश्वरम् ॥ २९-३८ ॥
जय जय जगदीश नाथ विष्णो जगदानन्दनिधान वेदवेद्य ॥
मधुमथन नृसिंह पीतवासो गरुडाधिष्ठित माधवादिदेव ॥ २९-३९ ॥
व्रजरमण रमेश राधिकेश त्रिदशेशाखिलकामपूर कृष्ण ॥
सुरवरकरुणार्णवार्तिनाशिन्नलिनाक्षाधिपते विभो परेश ॥ २९-४० ॥
यदुकु लतिलकाब्धिवास शौरे कुधरोद्धारविधानदक्ष धन्विन् ॥
कलिकलुषहराङ्घ्रिपद्मयुग्म गृणदात्मप्रद कूर्म कश्यपोत्थ ॥ २९-४१ ॥
कुकुपतिवनपावकाखिलेज्यास्रपकालासितवस्त्र बुद्ध कल्किन् ॥
भवभयहर भक्तवश्य गोप प्रणत्तोद्धारक पुण्यकीर्तिनाम् ॥ २९-४२ ॥
धरणिभरहरासुरारिपूज्य प्रकृतीशेश जगन्निवास राम ॥
गुणगणविलसच्चराचरेश त्रिगुणातीत सनातनाग्रपूज्य ॥
निजजनपरिरक्षितान्तकारे कमलाङ्घ्रे कमनीय पद्मनाभ ॥
कमलकर कुशेशयाधिवास प्रियकामोन्मथन त्र्यधीशवन्द्य ॥ २९-४३ ॥
अघहर रघुनाथ यादवेश प्रियभूदेव परात्परामरेज्य ॥
हलधर दुरितापह प्रणम्य त्रिगुणव्याप्त जगत्त्रिकालदक्ष ॥ २९-४४ ॥
दनुजकुलविनाशनैककर्मन्ननघारूढफणीश कंसकाल ॥
रविशशिनयन प्रगल्भचेष्ट प्रधुतध्वान्त नवाम्बुदाभ मेश ॥ २९-४५ ॥
मख मखधर मातृबद्धदामन्नवनीतप्रिय बल्लवीगणेश ॥
अघबकवृषकेशिपूतनान्त त्रिशिरोवालिदशास्यभेदकारिन् ॥ २९-४६ ॥
नरकमुरविनाश बाणदोः कृत्त्रिपुरारीज्य सुदाममित्र सेव्य ॥
भवतरणिवहित्रपादपद्म प्रकटैश्वर्य पुराण पूर्णबाहो ॥ २९-४७ ॥
बहुजनिसुकृताप्य मङ्गलार्ह श्रुतिवेद्य श्रुतिधाम शान्तशुद्ध ॥
तव वरद वरेण्यमङ्घ्रियुग्मं शरणं प्राप्तमघार्दितं प्रपाहि ॥ २९-४८ ॥
नहि मम गतिदं पुराणपुंसोऽन्यदिति प्रार्थनया प्रसीदऽमेद्य ॥ २९-४९ ॥
इति स्तुतो जगन्नाथो भक्त्या देवेन शम्भुना ॥
आविर्बभूव सहसा माधवो भक्तवत्सलः ॥ २९-५० ॥
तं दृष्ट्वा दण्डवद्भूमौ निपपात हरो हरिम् ॥
पुनरुत्थाय विप्रेन्द्र ननाम विधृताञ्जलिः ॥ २९-५१ ॥
तमुवाच हृषीकेशः प्रणतं भूतनायकम् ॥
वरं वृणु प्रदास्येऽहं सन्तुष्टः स्तोत्रतस्तव ॥ २९-५२ ॥
तच्छ्रुत्वा भगवद्वाक्यं भूतेशो ब्रह्यहत्यया ॥
पीडितात्मा जगादेदं भुक्तिमुक्तिप्रदं हरिम् ॥ २९-५३ ॥
इच्छामि वसितुं क्षेत्रे तव चक्रगदाधर ॥
त्वत्क्षेत्रसीमाबाह्यस्था ब्रह्महत्या यदीक्ष्यते ॥ २९-५४ ॥
क्षेत्रदानेन कारुण्यं कुरु मे गरुडध्वज ॥
मम निर्गमने ब्रह्महत्या मां पुनरेष्यति ॥ २९-५५ ॥
त्वत्क्षेत्रे संस्थितोऽहं तु पूजां प्राप्स्ये जगत्त्रये ॥
इत्युक्त्वा ह्यभवत्तूष्णीं देवदेवं वृषध्वजः ॥ २९-५६ ॥
तथेति प्रतिपेदे च क्षीरसागरजाप्रियः ॥
ततः प्रभृति विप्रेन्द्र शैवं क्षेत्रं निगद्यते ॥ २९-५७ ॥
क्षेत्रं तु केशवस्येदं पुराणं कवयो विदुः ॥
कृपया सम्परीतस्य माधवस्य द्विजोत्तम ॥ २९-५८ ॥
नेत्राभ्यां निर्गतं वारि तेन बिन्दुसरोऽभवत् ॥
माधवस्याज्ञया तत्र सस्नौ देवो वृषध्वजः ॥ २९-५९ ॥
स्नातमात्रे हरे तत्तु कपालं पाणितोऽपतत् ॥
कपालमोचनं नाम तत्तीर्थं ख्यातिमागतम् ॥ २९-६० ॥
बिन्दुमाधवनामासौ दत्वा स्वं धाम शूलिने ॥
भक्तिभावेन शम्भुस्तु निबद्धस्तत्र संस्थितः ॥ २९-६१ ॥
यं तु ब्रह्मादयो देवाः स्वःस्थाः पश्यति सर्वदा ॥
सूर्यायुतसमप्रख्य दिगम्बरनिषेवितम् ॥ २९-६२ ॥
विघ्नानि शूलिना कान्त कृतान्यस्य निषेवणे ॥
यैर्विघ्नैरभिभूतास्तु स्तुत्वा विष्णुं शिवार्चकाः ॥ २९-६३ ॥
सर्वे लोकाः स्थिता ह्यत्र शिवः काशीति चिन्तकाः ॥
शिवस्य चिन्तनाद्विप्र शैवाः सर्वे निराकुलाः ॥ २९-६४ ॥
प्रयान्ति शिवलोकं वैजरामृत्युविवर्जितम् ॥
बहुपुण्ययुताः सन्तो निवसन्त्तयत्र नीरुजः ॥ २९-६५ ॥
यज्ञशिष्टाशिनः काशीकान्त ऋद्धिसमन्विताः ॥
नात्र स्नानं प्रशंसन्ति न जपं न सुरार्चनम् ॥ २९-६६ ॥
नापि दानं द्विजश्रेष्ठ मुक्त्वैकं देहपातनम् ॥
मृत्युं प्रात्युं नरः कामं कृतकृत्यो भवेद्ध्रुवन् ॥ २९-६७ ॥
सेयमासादिता विप्रर पुरी प्रासादसङ्कुला ॥
भोगिनीमपि मोक्षाय किं पुनर्व्रतधारिणाम् ॥ २९-६८ ॥
निक्षिप्यतामियं बाला काशीशस्येह मन्दिरे ॥
वियोजिता तु या पूर्वं तेन दुष्टेन रक्षसा ॥ २९-६९ ॥
आत्मनः सुरतार्थाय कुमारी नियमान्विता ॥
एष प्रभावोऽपि हितः क्षेत्रस्यास्य द्विजोत्म । २९-७० ॥
विनश्यन्तीह कर्माणि शुभान्यप्यशुभानि च ॥
भूतव्यभविष्याणि ज्ञानाज्ञानकृतानि च ॥ २९-७१ ॥
एषा पुरी कर्मविनाशनाय कृष्णेन पूर्वं हि विनिर्मिताभूत् ॥
यस्यां मृता दुःखमनन्तमुग्रं भुञ्जन्ति मर्त्या यमयातनां नो ॥ २९-७२ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने राक्षसीचरिते काशीवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ २९ ॥