०२८

काष्ठीलोवाच ॥
राक्षसं धावमानं तु कालान्तकयमोपमम् ॥
दृष्ट्वा सा राक्षसी प्राह भर्तारं मम शङ्किता ॥ २८-१ ॥
प्रक्षिपस्वानलप्रख्यां शक्तिं हेमविभूषिताम् ॥
ममायं पञ्चतां यातु दिगम्बररिपुप्रिय ॥ २८-२ ॥
तस्या वाक्यान्मम पतिः पौरुषे तु व्यवस्थितः ॥
मुमोच विपुलां शक्तिं रक्षोवक्षस्थल प्रति ॥ २८-३ ॥
ज्वलन्ती ज्वलनप्रख्या द्योतयन्ती दिशो दश ॥
दिव्यांशुतीक्ष्ण वक्त्राता किङ्किणीशतनादिता ॥ २८-४ ॥
रक्तचन्दनलिप्ताङ्गी रक्तवस्त्रोपशोभिता ॥
हृदि तस्य निपत्यासौ शक्तिर्विप्रकरच्युता ॥ २८-५ ॥
कृत्वा भस्मावशेषं तु राक्षसं गगनं ययौ ॥
पातयित्वा स्वभर्तारं विप्रहस्तेन राक्षसी ॥ २८-६ ॥
कृतकृत्यमिवात्मानं मेने हृष्टतनूरुहा ॥
अथोवाच द्विजं हृष्टा राक्षसी शुभलोचनम् ॥ २८-७ ॥
एहि कान्त गुहां रम्यां प्रविश त्वं यदृच्छया ॥
भुङ्क्ष्व भोगान्मया सार्द्धं ये दिव्या ये च मानुषाः ॥ २८-८ ॥
तथेति प्राणनाथो मे प्राहहृष्टवपुस्तदा ॥
ततः सादाय मे कान्तं स्वां प्रविष्टा गुहां मुदा ॥ २८-९ ॥
असंवीक्ष्यैव तद्भस्म भर्तृदेहसमुद्भवम् ॥
कुचाभ्यामुन्नताभ्यां सा मद्भर्तारमपीडयत् ॥ २८-१० ॥
दर्शयामास तां तन्वीं कुमारीं शयने स्थिताम् ॥
इयं तेनासितापाङ्गी बिम्बोष्ठी काञ्चनप्रभा ॥ २८-११ ॥
भार्यार्थे समुपानीता वाराणस्या द्विजोत्तम ॥
यस्याः सीमां न लङ्घन्ति पातकानि ह्यशेषतः ॥ २८-१२ ॥
शक्तिक्षेत्रं च तां प्राहुः पुण्यं पापक्षयङ्करम् ॥
या गृहं त्रिपुरारेश्च पञ्चगव्यूतिसंस्थिता ॥ २८-१३ ॥
यस्यां मृताः पुनर्मर्त्या गर्भवासं विशन्ति न ॥
स त्वमस्या गृहं पित्र्यं पुनर्नय सुलोचनाम् ॥ २८-१४ ॥
इमानि तव रत्नानि शयनान्यासनानि च ॥
मया सह समस्तानि विक्रीणीहि निजेच्छया ॥ २८-१५ ॥
त्वदर्थे राक्षसो घोरो मया ब्रह्मन्निषूदितः ॥
मुग्धया तव रूपेण प्रेषितो यमसादनम् ॥ २८-१६ ॥
तस्मान्ममोपिरि विभो कृत्वा विश्वासमात्मना ॥
भजस्व मां विशालाक्ष भक्तां वै कामरूपिणीम् ॥ २८-१७ ॥
एतच्छ्रुत्वा तु वचनं भर्ता मे चारुलोचने ॥
राक्षस्याः कामतप्तायाः कुमार्याः सन्निधौ शुभे ॥ २८-१८ ॥
उवाच राक्षसीं तां तु सशङ्को मधुरं वचः ॥
सुभगे नीतिशास्त्रेषु विश्वस्तव्या न योषितः ॥ २८-१९ ॥
कौमारं या पतिं हन्ति सा कथं मां न हिंसति ॥
मत्तो रूपाधिकं मत्वा परं पुरुषलम्पटा ॥ २८-२० ॥
सोऽहं विश्वासभावेन विश्वस्तस्ते वरानने ॥ २८-२१ ॥
अद्य वाथ परेद्युर्वा पक्षे मासेऽथ वत्सरे ॥
व्यापादय यथेच्छं वा त्वां प्रपन्नोऽस्मि भामिनि ॥ २८-२२ ॥
एवमेव त्वया कार्यं नाद्य चोपकृतं तव ॥
आत्मा ते सर्वथा देयः प्रतीकारस्य हेतवे ॥ २८-२३ ॥
मदर्थे निहतो भर्ता त्वया निःशङ्कया यतः ॥
ततोऽहं नोत्तरं वच्मि परं किञ्चित्सुलोचने ॥ २८-२४ ॥
तच्छ्रुत्वा वचनं तस्य मद्भर्तुः साब्रवीदिदम् ॥
विश्वस्तहिंसनं ब्रह्मन् ब्रह्महत्या समं भवेत् ॥ २८-२५ ॥
यद्येवं राक्षसीं क्रूरां मन्यसे पतिघातिनीम् ॥
पतिं तथापि गर्हेयं विश्वस्तं घातये कथम् ॥ २८-२६ ॥
सूक्ष्मा हि धर्मस्य गतिर्न ज्ञायेत कथञ्चन ॥
केनापि कुत्रचिद्देवदैत्यराक्षसकादिना ॥
केचिन्मनुष्याः पटवो धर्मसूक्ष्मत्वचिन्तने ॥ २८-२७ ॥
येऽनित्येन शरीरेण नैष्कर्म्यं साधयन्त्युत ॥
श्रूयते च पुराणेषु किञ्चिदत्र निगद्यते ॥ २८-२८ ॥
धर्मस्यैवानुकूल्येन विष्णुना प्रभविष्णुना ॥
दशावतारग्रहणे दुःखं प्राप्तमनेकधा ॥ २८-२९ ॥
क्व सीतार्थं श्रीनिवासो रामो लक्ष्मणसंयुतः ॥
विलापं कुरुते नागपाशबन्धादिकर्मसु ॥ २८-३० ॥
क्व देवदेवो वसुदेवसूनुर्विज्ञानरूपो निखलप्रपञ्ची ॥
हा कष्टमित्यस्रदृगादिचेष्टः पार्थोग्रसनादिकभृत्यकृत्यः ॥ २८-३१ ॥
ईशस्य कृत्यं द्विज दुर्विभाव्यं धर्मानुकूल्येन समास्थितस्य ॥
व्यासः स्वयं वेदविभागकर्त्ता पाराशरिस्तत्त्वदृगिज्यमूर्तिः ॥
कन्यात्वविध्वसकवीर्यजन्मा कानीनसञ्ज्ञोऽनुजदारगामी ॥ २८-३२ ॥
परिवेत्ता च दिधिषूः शन्तनुः स्वःसरित्पत्तिः ॥
दिधिषू तनयः साक्षाद्वसुः स्त्रीवादमृत्युभाक् ॥ २८-३३ ॥
ये गोलकसुताः कुण्डाः पाण्डवाः समयोनिगाः ॥
तेषां सङ्कीर्तनं पुण्यं पवित्रं पापनाशनम् ॥ २८-३४ ॥
यं ध्यायन्ति स्मरन्त्यद्धा योगमूर्तिः सनातनः ॥ २८-३५ ॥
विष्णुर्वेश्यासमासक्तः प्रह्लादाद्युपदेशकृत् ॥
श्रीनृसिंहोऽसुरध्वंसी देवदेवाधिदैवतम् ॥ २८-३६ ॥
संसारवासनाध्वंसी देवदेवाधिदैवतम् ॥
संसारवासनाध्वंसी स्वर्णाक्षभवनस्थितिः ॥ २८-३७ ॥
जामदग्न्यः स्वयं सिद्धस्तपसा दग्धकिल्बिषः ॥
ईश्वरः क्षत्रसंहारभ्रूणहत्यादिकर्मकृत् ॥ २८-३८ ॥
स्वयमेवर्षभो योगी लोकशिक्षापरो द्विजः ॥
लोकग्लानिकरो जातः कुर्वन्धर्मानुरोधतः ॥ २८-३९ ॥
नारदो नारदो भूयो भूयो भूयोऽपि नारदः ॥
नारायणपरो नारो नरो नरहितोऽमरः ॥ २८-४० ॥
गौतमो गौतमो विप्र गोपचेष्टापरायणः ॥
वेदबाह्यार्थसंयुक्तशास्त्री वेदोपकार कृत् ॥ २८-४१ ॥
वसुष्ठश्चोर्वशीजातोऽगस्त्योऽपि स्वयमीश्वरौ ॥
येन लोकोपकारार्थं वासिष्ठं शास्त्रमुत्तमम् ॥ २८-४२ ॥
कृतं यस्मिन्पुराणानि वेदाः साम्यत्वमागताः ॥
यः स्वयं रामचन्द्रस्य गुरुः सर्वेश्वरस्य च ॥ २८-४३ ॥
स कथं गाधिजाशप्तस्तिर्यग्योनिमुपागमत् ॥
यो दमित्वा विभुर्विन्ध्यं वातापिं सागरं स्थितः ॥ २८-४४ ॥
स कथं मृतकादाता दुष्करं समुपासते ॥
यो विधिः कर्मसाक्ष्यादिवन्द्यो मान्यः पितामहः ॥ २८-४५ ॥
मोहिनीमोहितो देहमुत्ससर्ज कथं स च ॥
यः शिवः शिवदः साक्षात्प्रकृतीशः परात्परः ॥ २८-४६ ॥
स कथं देवपत्नीगः श्मशानाशुभचेष्टितः ॥
तस्माद्द्विज सदाचारो निषेव्यो विधिना विधिः ॥ २८-४७ ॥
तमहम्भावनायुक्तो नो हेयाद्यो विदां वरः ॥
स शान्तिमाप्नुयादग्र्यां धम्यामुभयसंस्थिताम् ॥ २८-४८ ॥
आपवर्ग्यः स्मृतो धर्मो धनं धर्मैकसाधनम् ॥
तन्मया साधितो धर्मः सर्वोत्तमधनात्मना ॥ २८-४९ ॥
श्रृणु विप्रात्र धर्मस्य गतिं सूक्ष्मां वदाम्यहम् ॥
यदा समागतो भर्ता मम कन्यां समाहरन् ॥ २८-५० ॥
त्वां पश्यन् निजकर्मस्थं कोऽपि दोषो न तस्य वै ॥
मया पृष्टः कथं नाम कन्येयं समुपाहृता ॥ २८-५१ ॥
तदा तेन मृषा वाक्यमुक्तं मद्भक्षणार्थकम् ॥
तन्निशम्याह मां बद्धा स्वयं चास्थानि दर्शनात् ॥ २८-५२ ॥
ये वदन्ति च दाम्पत्ये भार्या मोक्षविरोधिनी ॥
न ते तत्त्वदृशो ज्ञेया न सा भार्या विरोधिनी ॥ २८-५३ ॥
भार्या समुद्धरेत्पापात्पतन्तं निरये पतिम् ॥
सा भार्यान्या कर्मवल्लीरूपा संसारदायीनी ॥ २८-५४ ॥
पापं किमत्र तन्मत्तः सम्यक्छृणु स्वयं वर ॥
अलीकं नैव वक्तव्यं प्राणैः कण्ठगतैरपि ॥ २८-५५ ॥
सत्यमेवाचरेत्सत्ये साक्षाद्धर्मे व्यवस्थितः ॥
सत्ये समास्थितो ब्रह्मा सत्ये सन्तः समास्थिताः ॥ २८-५६ ॥
सत्ये समास्थितं विश्वं सर्वदा सचराचरम् ॥
सत्यं ब्रूयादिति वचो वेदान्तेषु प्रगीयते ॥ २८-५७ ॥
सत्यं ब्रह्मस्वरूपं हि तत्सत्यमभिधीमहि ॥
सत्यं तु सर्वदा विप्र मङ्गलं मङ्गलप्रदम् ॥ २८-५८ ॥
असत्यमात्मक्षयदं सद्यः प्रत्ययकारकम् ॥
स्त्रीषु सत्यं न वक्तव्यं तत्रापि श्रृणु कारणम् ॥ २८-५९ ॥
निधिं स्त्रियै न कथयेदित्यादौ दोषवारणम् ॥
उक्तं तद्धर्मजनकं धर्मसूक्ष्मत्वदर्शकम् ॥ २८-६० ॥
कुशा द्विजा जलं वह्निर्वेदा भूकालदिक्सुराः ॥
साक्ष्ये यत्र विवाहेषु दाम्पत्यं तदुदीरितम् ॥ २८-६१ ॥
समङ्गीकरणं कर्म विवाहे तु विधीयते ॥
स्त्रीपुंसोर्द्विजसंस्कारे निर्दिष्टं गुरुशिष्ययोः ॥ २८-६२ ॥
तस्मात्परस्परं ज्ञेयो गुरुशिष्यौ वधूवरौ ॥
नानयोरणुमात्रोऽपि भेदो बोध्यो विजानता ॥ २८-६३ ॥
तत्तत्कर्मानुरूपत्वात्प्राधान्यस्त्रीनियोज्ययोः ॥
क्वचिद्व्यत्ययदोषश्चेद्दैवमेवात्र कारणम् ॥ २८-६४ ॥
दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥
दैवं तत्पूर्वजन्मानि सञ्चिताः कर्मवासनाः ॥ २८-६५ ॥
प्राप्तं निषेवन्नन्योन्यं वर्तते कामकारकम् ॥
शुभं वाप्यशुभं विप्र तं तु शान्तं विदुर्बुधाः ॥ २८-६६ ॥
शान्तः सत्यसमाचारो जन्तुर्लोकप्रतारकः ॥
एवमादि विदित्वा तु नायं भर्ता निपातितः ॥ २८-६७ ॥
कन्यात्वध्वंसकात्पापात्पूतो मदुपकारतः ॥
गतिं प्रयातः कृतिनां त्वद्धस्तविनिपातितः ॥ २८-६८ ॥
मया तूपकृतं पत्ये जानन्त्या धर्मसूक्ष्यताम् ॥
त्वत्प्राणरक्षणे धर्मो ममाभूद्द्विजसत्तम ॥ २८-६९ ॥
तेन धर्मेण किं प्राप्तमिति सम्यङ्निबोध मे ॥
राक्षसीं योनिमापन्ना राक्षसस्य प्रिया ह्यहम् ॥ २८-७० ॥
कामरूपा ब्राह्मणी तु सञ्जाता धर्मकारणात् ॥
धर्मकामदुघा धेनुः सन्तोषो नन्दनं वनम् ॥ २८-७१ ॥
विद्या मोक्षकरी प्रोक्ता तृष्णा वैतरणी नदी ॥
वैतरण्यां पतन्भर्ता मयोद्धृत इहाभवत् ॥ २८-७२ ॥
अस्याश्चोपकृतं विप्र वर्णोत्तमनिवेशनात् ॥
इयं त्वसङ्गिनी भार्या भविष्यति पितुर्गृहे ॥ २८-७३ ॥
अहं तवास्याश्च सदा रक्षिका धर्मबोधिनी ॥
मत्सङ्गमात्पूर्वमेव या भार्या विप्र तेऽभवत् ॥ २८-७४ ॥
इयं त्वत्सङ्गिनी भार्या भविष्यति वरानना ॥
सापि तिर्यग्गतिं प्राप्य मुच्यते मदनुग्रहात् ॥ २८-७५ ॥
अहं पुरा भवेऽभूवं रमणी लोकसुन्दरी ॥
कन्दलीति च विख्याता तनयौर्वमुनेर्द्विज ॥ २८-७६ ॥
तपः प्रभावात्सञ्जाता यमला मिथुनन्धरा ॥
पुरुषो मे सहभवो दमितो धर्मकारणात् ॥ २८-७७ ॥
तेनैवौर्वेण शिष्टाहं दत्ता दुर्वाससे भवम् ॥
तं पतिं प्राप्य विप्रेन्द्र प्राक्कर्मवशागा ह्यहम् ॥ २८-७८ ॥
कलहाभिरता पत्या शप्ता भस्मत्वमागता ॥
किञ्चित्पापावशेषेण राक्षसीं योनिमागता ॥ २८-७९ ॥
तत्र योनौ मया लब्धो भर्तायं राक्षसाधिपः ॥
गोभिलो नाम तेजस्वी स त्वया विनिपातितः ॥ २८-८० ॥
शोपोऽस्य पूर्ववयसिबभूव द्विजसत्तम ॥
कस्याश्चिद्राजकन्यायाः स्त्रियाऽऽरब्धा मृतिस्तव ॥ २८-८१ ॥
अहं तु राक्षसीभावरहिता पूर्वकर्मणः ॥
शुभस्य बलमापन्ना जाता तव सहायिनी ॥ २८-८२ ॥
दुःखिताहं कृता भर्त्रा कुमार्याहरणात्पुरा ॥
भार्याथ पापिना ब्रह्मंस्तेन व्यापादितो मया ॥ २८-८३ ॥
विश्वस्तो हि यतस्त्वं वै मम सर्वेण चेतसा ॥
ततस्त्वां गोपयिष्यामि सर्वभावेन कामुक ॥ २८-८४ ॥
एष ते शपथः सत्यः पञ्चभूतोपसाक्षिकः ॥
कृत्स्नस्य पुरुषस्येह सन्निधौ व्याहृतो मया ॥ २८-८५ ॥
न करोषि द्विजश्रेष्ठ संविदं ह्यन्यथा क्वचित् ॥
मद्वाक्ये भवता स्थेयं सर्वकृत्येषु मानद ॥ २८-८६ ॥
एतच्छ्रुत्वा तु वचनं राक्षस्या परिभाषितम् ॥
प्रतिपेदे वचः सर्वं यत्कृतं हि तया तदा ॥ २८-८७ ॥
ततः सा राक्षसी सर्वं सम्प्रगृह्य गुहाधनम् ॥
करेणुरूपिणी भूत्वा पृष्ठे कृत्वा पतिं मम ॥ २८-८८ ॥
तया सह विशालाक्ष्या रत्नावल्या मुदान्विता ॥
ययावाकाशमार्गेण काशीमभि मुलोचने ॥ २८-८९ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नामाष्टाविंशोऽध्यायः ॥ २८ ॥