राजोवाच ॥
कीर्तिर्नश्यतु मे पुत्र ह्यनृती वा भवाम्यहम् ॥
गतो वा नरकं घोरं कथं भोक्ष्ये हरेर्दिने ॥ २६-१ ॥
ब्रह्मणो निलयं यातु देवीयं मोहिनी सुत ॥
भूयो भूयो वदति मां दुर्मेधाश्च सुबालिशा ॥ २६-२ ॥
नापरं कामये राज्यं वसुधां वसु किञ्चन ॥
मुक्त्वैवं वासरे विष्णोर्भोजनं पापनाशने ॥ २६-३ ॥
यद्यहं कुत्सितां योनिं व्रजेयं क्रिमिसञ्ज्ञिताम् ॥
तथापि नैव कर्ताहं भोजनं हरिवासरे ॥ २६-४ ॥
एषा गुरुतरा भूत्वा लोकानां शिक्षयान्विता ॥
दुन्दुभी कुर्वती नादं सा कथं वितथा भवेत् ॥ २६-५ ॥
अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा ॥
अपेयं चैव पीत्वा तु किं जीवेच्छरदः शतम् ॥ २६-६ ॥
असत्यं वापि कृत्वाहं त्यक्तराज्यनयः क्षितौ ॥
धिक्कृतोऽपि जनैः सर्वैर्न भोक्ष्ये हरिवासरे ॥ २६-७ ॥
वियोगे चपलापाङ्ग्या यदि चेन्मरणं मम ॥
तच्चापि वरमेवात्र न भोक्ष्ये हरिवासरे ॥ २६-८ ॥
कथं हर्षमहं कर्ता मार्तण्डतनयस्य वै ॥
व्रजद्भिर्मनुजैर्मार्गे निरयस्यातिदुःखितैः ॥ २६-९ ॥
यास्तु शून्याः कृतास्तात मया नरकपङ्क्तयः ॥
जनैः पूर्णा भविष्यन्ति मयि भुक्ते तु ताः सुत ॥ २६-१० ॥
मास्म सीमन्तिनी पुत्र कुक्षौ सन्धारयेत्सुतम् ॥
समर्थो यस्तु शत्रूणां हर्षं सञ्जनयेद्भुवि ॥ २६-११ ॥
भोजनं वासरे विष्णोरेतदेव हियाचते ॥
तन्न दास्यामि मोहिन्या याचितोऽपि सुरासुरैः ॥ २६-१२ ॥
पिबेद्विषं विशेद्वह्निं निपतेत्पर्वताग्रतः ॥
आकाशभासा स्वशिरश्छिन्द्यादेव वरासिना ॥ २६-१३ ॥
न भोक्ष्यते हरिदिने राजा रुक्माङ्गदः क्षितौ ॥
रुक्माङ्गदेति मन्नाम प्रसिद्धं भुवनत्रये ॥ २६-१४ ॥
एकादश्युपवासेन तन्मया सञ्चितं यशः ॥
स कथं भोजनं कृत्वा नाशये स्वकृतं यशः ॥ २६-१५ ॥
म्रियते यदि वा गच्छति निपतति नश्येच्च खण्डशो वापि ॥
विरमति तदपि न चेतो मामकमिति मोहिनीहेतोः ॥ २६-१६ ॥
परित्यजाम्येष निजं हि जीवितं लोकैः समेतः सहदारभृत्यैः ॥
न त्वेव कुर्यां मधुसूदनस्य दिने सुपुण्येऽन्ननिषेवणं हि ॥ २६-१७ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षड्वविंशोऽध्यायः ॥ २६ ॥