राजोवाच ॥
यत्त्वया व्याहृतं वाक्यं ममेदं गौतमेरितम् ॥
मन्दरे पर्वतश्रेष्ठे हरिवासरभोजनम् ॥ २४-१ ॥
अमतेन पुराणानां व्याहृतं यद्द्विजन्मना ॥
क्षुद्रशास्त्रोपदेशेन लोलुपेन वरानने ॥ २४-२ ॥
पुराणे निर्णयो ह्येष विद्वद्भिः समुदाहृतः ॥
न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ ॥ २४-३ ॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥
अगम्यागमने देवि अभक्ष्यस्य च भक्षणे ॥ २४-४ ॥
अकार्यकरणे जन्तोर्गोसहस्रवधः स्मृतः ॥
जानन्नपि कथं देवि भोक्ष्येऽहं हरिवासरे ॥ २४-५ ॥
पुरोडाशोऽपि वामोरु सम्प्राप्ते हरिवासरे ॥
अभक्ष्येण समः प्रोक्तः किं पुनश्चात्तनक्रिया ॥ २४-६ ॥
अनुकूलं नृणां प्रोक्तं क्षीणानां वरवर्णिनि ॥
मूलं फलं पयस्तोयमुपभोज्यं मुनीश्वरैः ॥ २४-७ ॥
नत्वत्र भोजनं कैश्चिदेकादश्यां प्रदर्शितम् ॥
ज्वरिणां लङ्घनं शस्तं धार्मिकाणामुपोषणम् ॥ २४-८ ॥
शुभं गतिप्रदं प्रोक्तं सम्प्राप्ते हरिवासरे ॥
ज्वरमध्ये कृतं पथ्यं निधनाय प्रकल्पते ॥ २४-९ ॥
वैष्णवे तु दिने भुक्तं नरकायैव केवलम् ॥
माग्रहं कुरु वामोरु व्रतभङ्गो भवेन्मम ॥ २४-१० ॥
यदन्यद्वोचते तुभ्यं तत्कर्तास्मि न संशयः ॥
मोहिन्युवाच ॥
न चान्यद्रोचते राजन्विना वै भोजनं तव ॥ २४-११ ॥
जीवितस्यापि दानेन न मे किञ्चित्प्रयोदजनम् ॥
न च वेदेषु दृष्टोऽयमुपवासो हरेर्दिने ॥ २४-१२ ॥
अग्निमन्तो न विप्रा हि मन्यन्ते समुपोषणम् ॥
वेदबाह्य कथं धर्मं भवांश्चरितुमिच्छति ॥ २४-१३ ॥
वचो निशम्य मोहिन्या राजा वेदविदां वरः ॥
उवाच मानसे क्रुद्धः प्रहसन्निव भूपते ॥ २४-१४ ॥
श्रृणु मोहिनि मद्वाक्यं वेदोऽयं बहुधा स्थितः ॥
यज्ञकर्मक्रिया वेदः स्मृतिर्वेदो गृहाश्रमे ॥ २४-१५ ॥
स्मृतिर्वेदः क्रियावेदः पुराणेषु प्रतिष्ठितः ॥
पुराणपुंरुषाज्जातं यथेदं जगदद्भुतम् ॥ २४-१६ ॥
तथेदं वाङ्मयं जातं पुराणेभ्यो न संशयः ॥
वेदार्थादधिकं मन्ये पुराणार्थँ वरानने ॥ २४-१७ ॥
वेदाः प्रतिष्ठिताः सर्वे पुराणेष्वेव सर्वदा ॥
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ २४-१८ ॥
न वेदे ग्रहसञ्चारो न शुद्धिः कालबोधिनी ॥
तिथिवृद्धिक्षयो वापि पर्वग्रहविनिर्णयः ॥ २४-१९ ॥
इतिहासपुराणैस्तु निश्चयोऽयं कृतः पुरा ॥
यन्न दृष्टं हि वेदेषु तत्सर्वं लक्ष्यते स्मृतौ ॥ २४-२० ॥
उभयोर्यन्न दृष्टं हि तत्पुराणैः प्रगीयते ॥
प्रायश्चित्तं तु हत्यायामातुरस्यौषधं प्रिये ॥ २४-२१ ॥
न चापि पापशुद्धिः स्यादात्मनश्च परस्य वा ॥
यद्वेदैर्गीयते सुभ्रु उपाङ्गैर्यत्प्रगीयते ॥ २४-२२ ॥
पुराणैः स्मृतिभिश्चैव वेद एव निगद्यते ॥
रटन्तीह पुराणानि भूयो भूयो वरानने ॥ २४-२३ ॥
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥
पुराणमन्यथा मत्वा तिर्यग्योनिमवाप्नुयात् ॥ २४-२४ ॥
संस्रातोऽपि सुदान्तोऽपि न गतिं प्राप्नुयादिति ॥
पितरं को न वन्देत मातरं को न पूजयेत् ॥ २४-२५ ॥
को न गच्छेत्सरिच्छ्रेष्ठां को भुङ्क्ते हरिवासरे ॥
को हि दूषयते वेदं ब्राह्मणं को निपातयेत् ॥ २४-२६ ॥
को गच्छेत्परदारान् हि को भुङ्क्ते हरिवासरे ॥ २४-२७ ॥
नहीदृशं पापमिहास्ति जन्तोर्विमूढचित्तस्य दिने हरेः प्रिये ॥
यद्भोजनेनात्मनिपातकारिणा यमस्य रवातेषु चिरं सुलोचने ॥ २४-२८ ॥
मोहिन्युवाच ॥
शीघ्रमानय विप्रांस्त्वं घूर्णिके वेदपारगान् ॥
येषां वाक्येन युक्तोऽयं राजा कुर्याद्धि भोजनम् ॥ २४-२९ ॥
सा तद्वाक्यमुपाकर्ण्य ब्राह्मणान्वेदशालिनः ॥
गौतमादीन्समाहूय मोहिनीपार्श्वमानयत् ॥ २४-३० ॥
तान्विप्रानागतान्दृष्ट्वा वेदवेदाङ्गपारगान् ॥
मोहिनी सहिता राज्ञा ववन्दे कार्यतत्परा ॥ २४-३१ ॥
उपविष्टास्तु ते सर्वे शातकौम्भमयेषु च ॥
आसनेषु महीपाल ज्वलदग्निसमप्रभाः ॥ २४-३२ ॥
तेषां मध्ये वयोवृद्धो गौतमो वाक्यमब्रवीत् ॥
वयं समागता देवि नानाशास्त्रविशारदाः ॥ २४-३३ ॥
सर्वसन्देहहर्तारो यदर्थं ते समाहुताः ॥
तच्छ्रुत्वा वचनं तेषां मोहिनी ब्रह्मणः सुता ॥ २४-३४ ॥
सर्वासाध्यकृतं कर्तुं प्रवृत्तांस्तानुवाच ह ॥
मोहिन्युवाच ॥
सन्देहस्तु जडौ ह्येष स्वल्पो वा स्वमतिर्यथा ॥ २४-३५ ॥
सोऽयं वदति राजा वै नाहं भोक्ष्ये हरेर्दिने ॥
अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ २४-३६ ॥
मृता ह्यपि तथान्नेन प्रीयन्ते पितरो दिवि ॥
कर्कन्धुमात्रं प्रहुतं पुरोडाशं हि देवताः ॥ २४-३७ ॥
कामयन्ति द्विजश्रेष्ठास्ततोऽन्नं ह्यमृतं परम् ॥
पिपीलिकापि क्षुधिता मुखेनादाय तण्डुलम् ॥ २४-३८ ॥
बिलं व्रजति दुःखेन कस्यान्नं नहि रोचते ॥
अयं खादति नान्नाद्यं सम्प्राप्ते हरिवासरे ॥ २४-३९ ॥
निजधर्मं परित्यज्य परधर्मे व्यवस्थितः ॥
विधावानां यतीनां च युज्यते व्रतसेवनम् ॥ २४-४० ॥
परधर्मरतो यः स्यात्स्वधर्मविमुखो नरः ॥
सोंऽधे तमसि मज्जेत यावदिन्द्राश्चतुर्द्दश ॥ २४-४१ ॥
उपवासादिकरणं भूभुजां नोदितं क्वचित् ॥
प्रजासंरक्षणं त्यक्त्वा चतुर्वर्गफलप्रदम् ॥ २४-४२ ॥
नारीणां भर्तृशूश्रूषा पुत्राणां पितृसेवनम् ॥
शूद्राणां द्विजसेवा च लोकरक्षा महीभृताम् ॥ २४-४३ ॥
स्वकं कर्म परित्यज्य योऽन्यत्र कुरुते श्रमम् ॥
अज्ञानाद्वा प्रमादाच्च पतितः स न संशयः ॥ २४-४४ ॥
सोऽयमद्य महीपालो यतिधर्म्मे व्यवस्थितः ॥
सुबुद्ध्याचारशीलश्च वेदोक्तं त्यजति द्विजाः ॥ २४-४५ ॥
स्वेच्छाचारा तु या नारी योऽविनीतः सुतो द्विजाः ॥
एकान्तशीलो नृपतिर्भृत्यः कर्मविवर्जितः ॥ २४-४६ ॥
सर्वे ते नरकं यान्ति ह्यप्रतिष्ठश्च यो द्विजाः ॥
अयं हि नियमोपेतो हरिपूजनतत्परः ॥ २४-४७ ॥
आक्रन्दे वर्त्तमाने तु न यद्येष प्रधावति ॥
व्यपोह्य हरिपूजां वै ब्रह्महत्यां तु विन्दति ॥ २४-४८ ॥
क्षीणदेहे हरिदिने कथं संयमयिष्यति ॥
अन्नात्प्रभवति प्राणः प्राणाद्देहविचेष्टनम् ॥ २४-४९ ॥
चेष्टया रिपुनाशश्च तद्धीनः परिभूयते ॥
एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति ॥ २४-५० ॥
एतदेव व्रतं राज्ञो यत्प्रजापालनं चरेत् ॥
न व्रतं किञ्चिदस्त्यन्यन्नृपस्य द्विजसत्तमाः ॥ २४-५१ ॥
किं देव कार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम् ॥
तद्देवकार्यं स च यज्ञहोमो यद्रक्तपातो न भवेत् स्वराष्ट्रे ॥ २४-५२ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रश्नो नाम चतुर्विंशोऽध्यायः ॥ २४ ॥