०२२

वसिष्ठ उवाच ॥
एवं धर्माङ्गदो राज्यं चकार वसुधातले ॥
पितुर्ननियोगाद्राजेन्द्र पालयन् हरिवासरम् ॥ २२-१ ॥

न बभूव जनः कश्चिद्यो न धर्मे व्यवस्थितः ॥
नासुखी नाप्रजः कश्चिन्न वा कुष्ठी महीपते ॥ २२-२ ॥

हृष्टपुष्ट जने तस्मिन् क्ष्मा चैव निधिदायिनी ॥
घटदोग्ध्रीषु नृपते तृप्तवत्सासु धेनुषु ॥ २२-३ ॥

पुटके कुटके क्षौद्रं द्रोणमात्रं द्रुमे द्रुमे ॥
प्रहृष्टायां तु मेदिन्यां सर्वधान्यसमुद्भवः ॥ २२-४ ॥

कृतस्य स्पर्द्धिनि युगे त्रेतान्ते द्वापरे युगे ॥
व्यतीते जलदापाये निर्मले चाम्बरे गृहे ॥ २२-५ ॥

सुगन्धिशालिपक्वाढ्ये कुम्भोद्भवविलोकिते ॥
मध्यप्रवाहयुक्तासु निम्नगासु समन्ततः ॥ २२-६ ॥

तीरोत्थैः काशपुष्पैश्च शुक्लकेशैरिवाङ्गना ॥
चन्द्रांशुधवले लोके नातितीव्रे दिवाकरे ॥ २२-७ ॥

तस्मिन्मनुष्यबहुलैर्जलस्नानविचित्रितैः ॥
यत्रोत्सुकैः प्रयातैस्तु भूमिपालैः समन्ततः ॥ २२-८ ॥

प्रबोधसमये विष्णोराश्विनान्ते जगद्गुरोः ॥
मोहिनी रमयामास तत्काले हृच्छयार्दिता ॥ २२-९ ॥

राजानं विविधैः सौख्यैः सर्वभावेन सुन्दरी ॥
वनेषु गिरिश्रृङ्गेषु नदीनां सङ्गमेषु च ॥ २२-१० ॥

पद्मिनी कुसुमाढ्येषु सरःसु विविधेषु च ॥
मलये मन्दरे विन्ध्ये महेन्द्रे विबुधालये ॥ २२-११ ॥

सह्ये प्रालेयसञ्ज्ञे च दिगम्बरगिरौ शुभे ॥
अन्येषु चैव राजानं स्वर्गस्थानादिकेषु च ॥ २२-१२ ॥

रमयायास राजेन्द्र दिव्यरूपा दिने दिने ॥
राजापि मोहिनीं प्राप्य सर्वं कृत्यं परित्यजन् ॥ २२-१३ ॥

त्यक्तं न वासरं विष्णोर्जन्ममृत्युनिकृन्तनम् ॥
व्रतं नोपेक्षते तत्तु अतिमुग्धोऽपि पार्थिवः ॥ २२-१४ ॥

क्रीडां त्यजति भूपालो दशम्यादिदिनत्रये ॥
एवं प्रकीडतस्तस्य पूर्णे संवत्सरे गते ॥ २२-१५ ॥

काले कालविदां श्रेष्ठः सम्प्राप्तः कार्तिकः शुभः ॥
निद्राछेदकरो विष्णोः स मासः पुण्यदायकः ॥ २२-१६ ॥

यस्मिन्कृतं हि सुकृतं वैष्णवैर्मनुजैर्नृप ॥
अक्षयं हि भवेत्सर्वं विष्णुलोकप्रदायकम् ॥ २२-१७ ॥

न कार्तिकसमो मासो न कृतेन समं युगम् ॥
न धर्मस्तु दया तुल्यो न ज्योतिश्चक्षुषा समम् ॥ २२-१८ ॥

न वेदेन समं शास्त्रं न तीर्थं गङ्गया समम् ॥
न भूम्या सदृशं दानं न सुखं भार्यया समम् ॥ २२-१९ ॥

न कृष्या तु समं वित्तं न लाभः सुरभीसमः ॥
न तपोऽनशनादन्यन्न दमेन समं शिवम् ॥ २२-२० ॥

तृप्तिर्न रसनातुल्या न समोऽन्यो द्विजेन च ॥
न धर्मेण समं मित्रं न सत्येन समं यशः ॥ २२-२१ ॥

नारोग्यसममैश्वर्यं न देवः केशवात्परः ॥
न कार्तिकसमं लोके पावनं कवयो विदुः ॥ २२-२२ ॥

कार्तिकः प्रवरो मासो विष्णोश्चापि प्रियः सदा ॥
अव्रतो हि क्षिपेद्यस्तु मासं दामोदरप्रियम् ॥ २२-२३ ॥

तिर्यग्योनिमवाप्नोति सर्वधर्मबहिष्कृतः ॥ २२-२४ ॥

मान्धातोवाच ॥
सम्प्राप्य कार्तिके मासे राजा रुक्माङ्गदो मुने ॥
मोहिनीं मोहसंयुक्तां कथं स बुभुजे वद ॥ २२-२५ ॥

विष्णुभक्तः श्रुतिपरः प्रवरः स महीक्षिताम् ॥
तस्मिन्पुण्यतमे मासे किं चकार नृपोत्तमः ॥ २२-२६ ॥

वसिष्ठ उवाच ॥
सम्प्राप्तं कार्तिकं दृष्ट्वा प्रबोधकरणं हरेः ॥
अतिप्रमुग्धो राजेन्द्रो मोहिनीं वाक्यमब्रवीत् ॥ २२-२७ ॥

रतं देवि त्वया सार्द्धं मया संवत्सरान्बहून् ॥
तवापमानभीतेन नोक्तं किञ्चिदपि क्वचित् ॥ २२-२८ ॥

साम्प्रतं वक्तुकामोऽहं तन्निबोध शुभानने ॥
त्वय्यासक्तस्य मे देवि बहवः कार्तिका गताः ॥ २२-२९ ॥

न व्रती कार्तिके जातो मुक्त्वैकं हरिवासरम् ॥
सोऽहं कार्तिकमिच्छामि व्रते न पर्य्युपासितुम् ॥ २२-३० ॥

अव्रतेन गतो येषां कार्तिको मर्त्यधर्मिणाम् ।
इष्टापूर्तौ वृथा तेषां धर्मो द्रुहिणसम्भवे ॥ २२-३१ ॥

मांसाशिनोऽपि भूपाला अत्यर्थं मृगयारताः ॥
ते भांसं कार्तिके त्यक्त्वा गता विष्ण्वालयं शुभे ॥ २२-३२ ॥

प्रवृत्तानां हि भक्ष्याणां कार्तिके नियमे कृते ॥
अवश्यं विष्णुरूपत्वं प्राप्यते साधकेन हि ॥ २२-३३ ॥

तिष्ठन्तु बहुवित्तानि दानानि वरवर्णिनि ॥
हृदयायासकर्तॄणि दीपदानाद्दिवं व्रजेत् ॥ २२-३४ ॥

तस्याप्यभावात्सुभगे परदीपप्रबोधनम् ॥
कर्तव्यं भक्तिभावेन सर्वदानाधिकं च तत् ॥ २२-३५ ॥

एकतः सर्वदानानि दीपदानं हि चैकतः ॥
कार्तिकेन समं प्रोक्तं दीपदानात्प्रबोधनम् ॥ २२-३६ ॥

कर्तव्यं भक्तिभावेन सर्वदानाधिकं स्मृतम् ॥
कार्तिकीं च तिथिं कृत्वा विष्णोर्नाभिसरोरुहे ॥ २२-३७ ॥

आजन्मकृतपापात्तु मुच्यते नात्रसंशयः ॥
व्रतोपवासनियमैः कार्तिको यस्य गच्छति ॥ २२-३८ ॥

देवो वैमानिको भूत्वा स याति परमां गतिम् ॥
तस्मान्मोहिनि मोहं त्वं परित्यज्य ममोपरि ॥ २२-३९ ॥

आज्ञां विधेहि तत्कालं करिष्ये कार्त्तिकव्रतम् ॥
तव वक्षोजपूजाया विरतो नीरजेक्षणे ॥ २२-४० ॥

अहं व्रतधरश्चैव भविष्ये हरिपूजने ॥

मोहिन्युवाच ॥
विस्तरेण समाख्याहि माहात्म्यं कार्तिकस्य च ॥ २२-४१ ॥

सर्वपुण्याकरः प्रोक्तो मासोऽयं राजसत्तमा ॥
विशेषात्कुत्र कथितस्तदादिश महामते ॥ २२-४२ ॥

श्रुत्वा कार्त्तिकमाहात्म्यं करिष्येऽहं यथेप्सितम् ॥ २२-४३ ॥

रुक्माङ्गद उवाच ॥
माहात्म्यमभिधास्यामि मासस्यास्य वरानने ॥
येन भक्तिर्भवित्री ते प्रकर्तुं हरिपूजनम् ॥ २२-४४ ॥

कार्त्तिके कृच्छ्रसेवी यः प्राजापत्यचरोऽपि वा ॥
एकान्तरोपवासी वा त्रिरात्रोपोषितोऽपि वा ॥ २२-४५ ॥

यद्वा दशाहं पक्षं वा मासं वा वरवर्णिनि ॥
क्षपयित्वा नरो याति स विष्णोः परमं पदम् ॥ २२-४६ ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ॥
अस्मिन् नरैर्धरा चैव प्राप्यते द्वीपमालिनी ॥ २२-४७ ॥

विशेषात्पुष्करे तीर्थे द्वारावत्यां च शौकरे ॥
मासोऽयं भक्तिदः प्रोक्तो व्रतदानार्चनादिभिः ॥ २२-४८ ॥

तस्निन्हरि दिनं पुण्यं तथा वै भीष्मपञ्चकम् ॥
प्रबोधिनीं नरः कृत्वा जागरेण समन्विताम् ॥ २२-४९ ॥

न मातुर्जठरे तिष्ठेदपि पापान्वितो नरः ॥
तस्मिन्दिने वरारोहे मण्डलं यस्तु पश्यति ॥ २२-५० ॥

विना साङ्ख्येन योगेन स याति परमं पदम् ॥
कार्तिके मण्डलं दृष्ट्वा शौकरेः सूकरं शुभे ॥ २२-५१ ॥

दृष्ट्वा कोकवराहं वा न भूयस्तनयो भवेत् ॥
त्रिविधस्यापि पापस्य दृष्ट्वा मुक्तिर्भवेन्नृणाम् ॥ २२-५२ ॥

मण्डलं चपलापाङ्गि श्रीधरं कुब्जके तथा ॥
कार्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु ॥ २२-५३ ॥

कार्तिके वर्जयेन्मांसं कार्तिके वर्जयेत्स्त्रियः ॥
निष्पावान्कार्तिके देवि त्यञ्जेद्विष्णुतत्परः ॥ २२-५४ ॥

संवत्सरकृतात्पापाद्ब्रहिर्भवति तत्क्षणात् ॥
प्राप्नोति राजकीं योनिं सकृद्भक्षणसम्भवात् ॥ २२-५५ ॥

कार्तिके शौकरमांसं यस्तु भुञ्जीत दुर्मतिः ॥
षष्टिवर्षसहस्राणि रौरवे परिपच्यते ॥ २२-५६ ॥

तन्मुक्तो जायते पापी विष्ठाशी ग्राम्यसूकरः ॥
मात्स्यं मांसं न भुञ्जीत न कौर्मं नापि हारिणम् ॥ २२-५७ ॥

चाण्डालो जायते देवि कार्तिके मांसभक्षणात् ॥
कार्तिकः सर्वपापघ्नः किञ्चिद्व्रतधरस्य हि ॥ २२-५८ ॥

कार्तिके तु कृतादीक्षा नृणां जन्मनिकृन्तनी ॥
तस्मात्सर्वप्रयत्नेन दीक्षां कुर्वीत कार्तिके ॥ २२-५९ ॥

अदीक्षितस्य वामोरु कृतं सर्वं निरर्थकम् ॥
पशुयोनिमवाप्नोति दीक्षया रहितो नरः ॥ २२-६० ॥

न गृहे कार्तिकं कुर्याद्विशेषेण तु कार्तिकीम् ॥
तीर्थे हि कार्तिकीं कुर्वन्नरो याति हरेः पदम् ॥ २२-६१ ॥

कार्तिके शुक्लपक्षस्य कृत्वा ह्येकादशीं नरः ॥
प्रातर्दत्वा शुभान्कुम्भान्प्रयाति हरिमन्दिरम् ॥ २२-६२ ॥

संवत्सरव्रतानां हि समाप्तिः कार्तिकं स्मृता ॥
विवाहा यत्र दृश्यन्ते विष्णोर्नाभिसरोरुहे ॥ २२-६३ ॥

दिनानि तत्र चत्वारि यथैकं वरावर्णिनि ॥
विनोत्तरायणे कालं लग्नशुद्धिं विनापि च ॥ २२-६४ ॥

दृश्यन्ते यत्र सम्बन्धाः पुत्रपौत्रविवर्द्धनाः ॥
तस्मान्मोहिनि कर्तास्मि कार्तिके व्रतसेवनम् ॥ २२-६५ ॥

अशेषपापनाशाय तव प्रीतिविवृद्धये ॥

मोहिन्युवाच ॥
अहो माहात्म्यमतुलं कार्तिकस्य त्वयोरितम् ॥ २२-६६ ॥

चातुर्मास्यव्रतानां हि विधिमुद्यापनं वद ॥
पूर्णता येन भवतगि व्रतानां पृथिवीपते ॥ २२-६७ ॥

अवैकल्यं भवेच्चैव व्रतं पुण्यफलस्य तु ॥

राजोवाच ॥
नक्तव्रती षड्रसेन ब्राह्मणं भोजयेत्प्रिये ॥ २२-६८ ॥

अयाचिते त्वनङ्काहं सहिरण्यं प्रदापयेत् ॥
अमांसाशीभवेद्यस्त्तु गां प्रदद्यात्सदक्षिणाम् ॥ २२-६९ ॥

धात्रीस्नाने नरो दद्याद्दधिपायसमेव च ॥
फलानां नियमे सुभ्रु फलदानं समाचरेत् ॥ २२-७० ॥

तैलत्यागे घृतं दद्याद्धृतत्यागे पयस्तथा ॥
धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा ॥ २२-७१ ॥

दद्याद्भूशयने शय्यां तूलिकागण्डकान्विताम् ॥
पत्रभोजी नरोदद्याद्भाजनं घृतसंयुतम् ॥ २२-७२ ॥

मौने घण्टां तिलान्वापि सहिरण्यान्प्रदापयेत् ॥
दम्पत्योर्भोजनं कार्यमुभयोः शयनान्वितम् ॥ २२-७३ ॥

सम्भोगं दक्षिणोपेतं व्रतस्य परिपूर्तये ॥
प्रातः स्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान् ॥ २२-७४ ॥

नखराणां च केशानां धारणे दर्पणं ददेत् ॥
उपानहौ प्रदद्यात्तु पादत्राणविवर्जने ॥ २२-७५ ॥

लवणस्य तु सन्त्यागे दातव्या सुरभिस्तथा ॥
आमिषस्य परित्यागे सवत्सां कपिलां ददेत् ॥ २२-७६ ॥

नित्यं दीपप्रदो यस्तु व्रतेऽभीष्टे सुरालये ॥
स काञ्चनं तथा ताम्रं सघृतं दीपकं प्रिये ॥ २२-७७ ॥

प्रदद्याद्वाससा छत्रं वैष्णवे व्रतपूर्तये ॥
एकान्तरोपवासी तु क्षौमवस्त्रं प्रदापयेत् ॥ २२-७८ ॥

त्रिरात्रे काञ्चनोपेतां दद्याच्छय्यां स्वलङ्कृताम् ॥
षड्ररात्राद्युपवासेषु शिबिकां छत्रसंयुताम् ॥ २२-७९ ॥

सवाहपुरुषं पीनमनङ्वाहमथार्पयेत् ॥
अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम् ॥ २२-८० ॥

शाकाहारे फलं दद्यात्सौवर्णं घृतसंयुतम् ॥
रसानां चैव सर्वेषां त्यागेऽनुक्तस्य वापि च ॥ २२-८१ ॥

दातव्यं राजतं पात्रं सौवर्ण वापि शक्तितः ॥
यथोक्तस्याप्रदाने तु यथोक्ताकरणेऽपि वा ॥ २२-८२ ॥

विप्रवाक्यं चरेत्सुभ्रु विष्णुस्मरणपूर्वकम् ॥
वृथा विप्रवचो यस्तु मन्यते मनुजः शुभे ॥ २२-८३ ॥

दक्षिणां नैव दद्याद्वा स याति नरकेध्रुवम् ॥
व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते ॥ २२-८४ ॥

धरामराणां वचने व्यवस्थिता दिवौकसस्तीर्थगणा मखाश्च ॥
को लङ्घयेत्सुभ्रु वचो हि तेषां श्रेयोभिकामो मनुजस्तु विद्वान् ॥ २२-८५ ॥

इदं मया धर्मरहस्ययुक्तं विरञ्चये श्रीपतिना यथोक्तम् ।
प्रकाशितं तुभ्यमनन्यवाच्यं फलप्रदं माधवतुष्टिहेतुम् ॥ २२-८६ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे कार्तिकमाहात्म्यं नाम द्वाविंशोऽध्यायः ॥ २२ ॥