मान्धातोवाच ॥
पुत्रस्य वचनं श्रुत्वा किं चकार महीपतिः ॥
सा चापि मोहिनी ब्रह्मन्प्रिया राज्ञो विधेः सुता ॥ २१-१ ॥
आश्चर्यरूपं कथितमाख्यानं तु सुधोपमम् ॥
विशेषतस्त्वया पुण्यं सर्वसन्देहभञ्जनम् ॥ २१-२ ॥
वसिष्ठ उवाच ॥
तत्पुत्रवचनं श्रुत्वा प्रहृष्टो नृपपुङ्गवः ॥
उदतिष्ठत्प्रियायुक्तस्ताः श्रियश्चावलोकयत् ॥ २१-३ ॥
क्षणं हर्षान्वितो भूप राजा विष्णुपरायणः ॥
नागकन्यास्तु ताः सर्वा वारुणीसहिता मुदा ॥ २१-४ ॥
प्रददौ तनये प्रेम्णा भार्यार्थं धर्मभूषणे ॥
शेषं दानवनारीभिर्बहुरत्नसमन्वितम् ॥ २१-५ ॥
मोहिन्यै प्रददौ राजा कामबाणप्रपीडितः ॥
संविभज्य पिता वित्तं धर्माङ्गदसमाहृतम् ॥ २१-६ ॥
पुरोहितमुवाचेदं काले चाहूय भूपतिः ॥
सर्वासां मत्सुतो ब्रह्मन्पाणीन्गृह्णातु धर्मतः ॥ २१-७ ॥
कुमारीणां कुमारोऽयं मद्वाक्ये संस्थितः सदा ॥
वैवाह्यलग्ने नक्षत्रे मुहूर्ते सर्वकामदे ॥ २१-८ ॥
वाचयित्वा द्विजान्स्वस्ति गोस्वर्णाम्बरतोषितान् ॥
विवाहं कुरु पुत्रस्य मम धर्माङ्गदस्य वै ॥ २१-९ ॥
यः पुत्रस्य पितोद्वाहं न करोतीह मन्दधीः ॥
स मज्जेन्नरके घोरे ह्यप्रतिष्ठे युगायुतम् ॥ २१-१० ॥
तस्माच्चोद्वाहयेत्पुत्रं पिता धर्मसमन्वितः ॥
आत्मा संस्थापितस्तेन येन संस्थापितः सुतः ॥ २१-११ ॥
सर्वक्रतुफलं तस्य पुत्रोद्वाहे कृते भवेत् ॥
पुत्रस्य गुणयुक्तस्य निर्गुणस्यापि भूसुर ॥ २१-१२ ॥
पित्रा कारयितव्यो हि विवाहो धर्ममिच्छता ॥
यो न दारैश्च वित्तैश्च पुत्रान्संयोजयेत्पिता ॥ २१-१३ ॥
न पुमान्स तु विज्ञेय इहामुत्र विगर्हितः ॥
तस्माद्वृत्तियुताः कार्याः पुत्रा दारैः समन्विताः ॥ २१-१४ ॥
यथा रमन्ते ते तुष्टाः सुखं पुत्राः सुमानिताः ॥
तच्छ्रुत्वा वचनं राज्ञो द्विजस्तस्य पुरोहितः ॥ २१-१५ ॥
धर्माङ्गदविवाहार्थमुद्यतो हर्षसंयुतः ॥
स युवानिच्छमानोऽपि स्त्रीसौख्यं लज्जाया सुतः ॥ २१-१६ ॥
स्वीचकार पितुर्वाक्याद्दारसङ्ग्रहणं तदा ॥
वरुणात्मजया सार्द्धं नागकन्या मनोहराः ॥ २१-१७ ॥
उपयेमे महाबाहू रूपेणाप्रतिमा भुवि ॥
उद्वाहयित्वा सर्वास्ता विधिदृष्टेन कर्मणा ॥ २१-१८ ॥
वसुगोरत्नदानानि विप्रेभ्यः प्रददौ मुदा ॥
कृतदारो ववन्देऽथ पादान्मातुः पितुर्मुदा ॥ २१-१९ ॥
ततः सन्ध्यावलीदेवीमाह धर्माङ्गदः सुतः ॥
पितुर्वाक्येन मे देवि सञ्जातो दारसङ्ग्रहः ॥ २१-२० ॥
एतन्मे नास्ति मनसि यत्पित्रोद्वाहितो ह्यहम् ॥
अव्ययं पितरं विज्ञं देवि शुश्रूषये ह्यहम् ॥ २१-२१ ॥
दिव्यैर्भोगैर्न मे किञ्चित्स्वर्गेणापि प्रयोजनम् ॥
कार्या मे पितृशुश्रूषा तव चैव दिवानिशम् ॥ २१-२२ ॥
सन्ध्यावल्युवाच ॥
चिरं जीव सुखं पुत्र भुङ्क्ष्व भोगान्मनोऽनुगान् ॥
पितुः प्रसादाद्दीर्घोयुर्मनो नन्दय मे सुत ॥ २१-२३ ॥
त्वया सुपुत्रिणी पुत्र जाता गुणवता क्षितौ ॥
सपत्नीनां च सर्वासां हृदये संस्थिता ह्यहम् ॥ २१-२४ ॥
एवमुक्त्वा परिष्वज्य मूर्द्धन्याघ्राय चासकृत् ॥
व्यसर्जयत्ततः पुत्रं राज्यतन्त्रावलोकने ॥ २१-२५ ॥
विसर्जितस्तदा मात्रा मातॄरन्याः प्रणम्य च ॥
राज्यतन्त्रं तदखिलं चक्रे पितृवचः स्थितः ॥ २१-२६ ॥
दुष्टनिग्रहणं चक्रे शिष्टानां परिपालनम् ॥
अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम् ॥ २१-२७ ॥
चक्रे सर्वत्र कार्याणां मासि मासि निरीक्षणम् ॥
हस्त्यश्वपोषणं चक्रे चारचक्रेक्षणं तथा ॥ २१-२८ ॥
वादसंवीक्षणं चक्रे तुलामानं दिने देने ॥
गृहे गृहे नराणां च चक्रे संरक्षणं नृपः ॥ २१-२९ ॥
स्तनन्धयी क्वचिद्बालः स्तनहीनो न रोदिति ॥
श्वश्रूर्वध्वा न कुत्रापि प्ररोदित्यवमानिता ॥ २१-३० ॥
क्वचित्समर्थस्तनयः पितरं नहि याचते ॥
न वर्णसङ्करो राज्ये केषाञ्चिदभवत्पुनः ॥ २१-३१ ॥
न गूढविभवो लोको धर्मे वदति दूषणम् ॥
न कञ्चुकविहीना तु भवेन्नारी सभर्तृका ॥ २१-३२ ॥
गृहान्निष्क्रमणं स्त्रीणां मास्तु राज्ये मदीयके ॥
मा सकेशा हि विधवा मास्त्वकेशा मभर्तृका ॥ २१-३३ ॥
मा व्रतीह सदाक्रोशी मारण्या नगराश्रयाः ॥
सामान्यवृत्त्यदाता मे राज्येऽवसतु निर्घृणः ॥ २१-३४ ॥
गोपालो नगराकाङ्क्षी निर्गुणस्तूपदेशकः ॥
ऋत्विग्वा शास्त्रहीनश्च मा मे राज्ये वसेदिह ॥ २१-३५ ॥
यो हि निष्पादयेन्नीलीं नीलीरङ्गातिसेचकः ॥
निर्वास्यौ तावुभौ पापौ यो वै मद्यं करोति च ॥ २१-३६ ॥
वृथा मांसं हि योऽश्नाति पृष्ठमांसप्रियो हि यः ॥
तस्य वासो न मे राज्ये स्वकलत्रं त्यजेच्च यः ॥ २१-३७ ॥
विष्णुं परित्यज्य वरं सुराणां सम्पूजयेद्योऽन्यतमं हि देवम् ॥
गच्छेत्सगर्भां युवतीं प्रसूतां दण्ड्यश्च वध्यश्च स चास्मदीयैः ॥ २१-३८ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे शिक्षानिरूपणं नामैकविंशोऽध्यायः ॥ २१ ॥