०१८

राजोवाच ॥
नाधिकारो मया मीरु कृतो नृपपरिग्रहे ॥
श्रमातुरस्य निद्रा मे प्रवृत्ता मुखदायिनी ॥ १८-१ ॥

धर्माङ्गदं समाभाष्य मोहिनीं नय मन्दिरम् ॥
पूजयस्व यथान्या ममेषा पत्नी प्रिया मम ॥ १८-२ ॥

निजं कमलपत्राक्ष सर्वरत्नविभूषितम् ॥
निर्वातवातसंयुक्तं सर्वर्तुसुखदायकम् ॥ १८-३ ॥

एवमादिश्य तनयमहं निद्रामुपागतः ॥
शयनं प्राप्य कष्टात्ते अभाग्यो हि धनं यथा ॥ १८-४ ॥

विबुद्धमात्रः सहसा त्वत्समीपमुपागतः ॥
यद्व्रवीषि वचो देवि तत्करोमि न संशयः ॥ १८-५ ॥

मोहिन्युवाच ॥
परिसान्त्वय राजेन्द्र इमान्दारान्सुदुःखितान् ॥
ममोद्वाहेन निर्विण्णान्निराशान्कामभोगयोः ॥ १८-६ ॥

ज्येष्ठानां रूपयुक्तानां कलत्राणां विशाम्पते ॥
मूर्घ्नि कीलं कनिष्ठाख्यं यो हि राजन्निखानयेत् ॥ १८-७ ॥

न सद्गतिर्भवेत्तस्य न त सा विन्दते परम् ॥
पतिव्रताश्रुदग्धायाः का शान्तिर्मे भविष्यति ॥ १८-८ ॥

जनितारं हि मे भस्म कुर्य्युर्देव्यः पतिव्रताः ॥
किं पुनः प्राकृतं भूप त्वादृशीं तथा ॥ १८-९ ॥

सन्ध्यावलीसमा नारी त्रैलोक्ये नास्ति भूमिप ॥
तव स्नेहनिबद्धाङ्गी सम्भोजयति षड्रसैः ॥ १८-१० ॥

प्रियाणि चाटुवाक्यानि वदती तव गौववात् ॥
एवंविधा हि शतशो नार्यः सन्ति गृहे तव ॥ १८-११ ॥

यासां न पादरजसा तुल्याहं भूपते क्वचित् ॥
मोहिनी वचनं श्रुत्वा व्रीडितो ह्यभवन्नृपः ॥ १८-१२ ॥

सपुत्रायाः समीपे तु ज्येष्ठाया नृपतिस्तदा ॥
इङ्गितज्ञः सुतो ज्ञात्वा दशावस्थागतं नृपम् ॥ १८-१३ ॥

पितरं कामसन्तप्तं मोहिन्यर्थे विमोहितम् ॥
मातृः सर्वाः समाहूय सन्ध्यावलिपुरोगमाः ॥ १८-१४ ॥

कृताञ्जलिपुटो भूत्वा एवमाह प्रिय वचः ॥
विमोहिनी मे जननी नवोढा ब्राह्मणः सुता ॥ १८-१५ ॥

सा च प्रार्थयते देव्यो राजानं रहसिस्थितम् ॥
आत्मना सह खेलार्थं तन्मोदध्वं सुहर्षिताः ॥ १८-१६ ॥

मातर ऊचुः ॥
कोऽनुमोदयते पुत्र सर्पभक्षणमात्मनः ॥
को हि दीपयते वह्निं स्वदेहे देहिनां वर ॥ १८-१७ ॥

को भक्षयेद्विषं घोरं कश्छिन्द्यादात्मनः शिरः ॥
कस्तरेत्सागरं बद्ध्वा ग्रीवायां दारुणां शिलाम् ॥ १८-१८ ॥

को गच्छेद्द्वीपिवदनं कः केशान्सुहरेर्हरेत् ॥
को निषीदति धारायां खङ्गस्या काशभासिनः ॥ १८-१९ ॥

कानुमोदयते भर्त्रा सपत्न्याः क्रीडनं किल ॥
सर्वस्यापि प्रदानेन नैतन्मनसि वर्तते ॥ १८-२० ॥

वरं हि छेदनं मूर्ध्नस्तत्क्षणात्तु वरासिना ॥
का दृष्ट्या दयितं कान्तं निरीक्षेदन्ययाहृतम् ॥ १८-२१ ॥

का सा सीमन्तिनी लोके भवेदेतादृशी क्वचित् ॥
आत्मप्राणसमं कान्तमन्यस्त्रीकुचपीडनम् ॥ १८-२२ ॥

संश्रुत्य सहते या तु किं पुनः स्वेन चक्षुषा ॥
सर्वेषामेव दुःखानां दुःखमेतदनन्तकम् ॥ १८-२३ ॥

यद्भर्तान्याङ्गनासङ्क्तो दृश्यते स्वेन चक्षुषा ॥
वरं सर्वा मृताः पुत्र युगपन्मातरस्तव ॥ १८-२४ ॥

न तु मोहिनिसंयुक्तो दृश्योऽयं नृपतिः पतिः ॥

धर्माङ्गद उवाच ॥
यदि मे न पितुः सौख्यं करिष्यथ शुभाननाः ॥ १८-२५ ॥

विषमालोड्य पास्यामि युष्मत्सौख्यं मृते मयि ॥
कर्मणा मनसा वाचा या पितुर्दुःखमाचरेत् ॥ १८-२६ ॥

सा मे शत्रुर्वधार्हास्ति यदि सन्ध्यावली भवेत् ॥
सर्वासां साधिका देवी मोहिनी जनकप्रिया ॥ १८-२७ ॥

क्रीडार्थमागता बाला मन्दराचलमन्दिरात् ॥
तत्पुत्रवचनं श्रुत्वा वेपमाना हि मातरः ॥ १८-२८ ॥

ऊचुः सगद्गदां वाचं हितार्थं तनयस्य हि ॥
अवश्यं तव वाक्यं हि कर्तव्यं न्यायसंयुतम् ॥ १८-२९ ॥

किं तु दानप्रदो भूत्वा मोहिनीं यातु ते पिता ॥
यो भार्यामुद्वहेद्भर्ता द्वितीयामपरामपि ॥ १८-३० ॥

ज्येष्ठायै द्विगुणं तस्या दद्यच्चैवान्यथा ऋणी ॥
अनुज्ञाप्य यदा भर्ता ज्येष्ठामन्यां समुद्वहेत् ॥ १८-३१ ॥

तदा ज्येष्ठाभिलषितं देयमाहुः पुराविदः ॥
ज्येष्ठया सहितः कुर्यादिष्टापूर्तं नरोत्तमः ॥ १८-३२ ॥

एष धर्मोऽन्यथाऽन्यायो जायते धर्मसङ्क्षयः ॥
श्रुत्वा तु मातृवचनं प्रहष्टेनान्तरात्मनो ॥ १८-३३ ॥

एकैकस्यै ददौ साग्रां कोटिं कोटिं सुतस्तदा ॥
सहस्रं नगराणां च ग्रामाणां प्रददौ तथा ॥ १८-३४ ॥

चतुरश्वतरीभिश्चपृथग्युक्ता नृपात्मजः ॥
एकैकस्य ददावष्टौ रथान्काञ्चनमालिनः ॥ १८-३५ ॥

वाससामयुतं प्रादाद्येषां मूल्यं शताधिकम् ॥
शुद्धस्य मेरुजातस्य अक्षयस्य नुपात्मजः ॥ १८-३६ ॥

काञ्चनस्य ददौ लक्षमेकैकं प्रतिमातरम् ॥
दासानां च शतं साग्रं दासीनां च नृपात्मजः ॥ १८-३७ ॥

धेनूनां घटदोग्ध्रीणामेकैकस्यै तथायुतम् ॥
युगन्धराणां भद्राणां शतानि दश वै पृथक् ॥ १८-३८ ॥

दशप्रकारं नृपते धान्यं च प्रददौ सुतः ॥
वाटीनां तु सहस्राणां शतं प्रादाद्धसन्निव ॥ १८-३९ ॥

कुम्भायुतं सर्पिषस्तु तैलस्य च पृथग्ददौ ॥
अजाविकमसङ्ख्यातमेकैकस्यै न्यवेदयत् ॥ १८-४० ॥

सहस्रेण सहस्रेण सुवर्णस्य व्यभूषयत् ।
आखण्डलास्त्रयुक्तस्य भूषणस्य सुभक्तिमान् ॥ १८-४१ ॥

धात्रीप्रमाणैर्हरैश्च मौक्तिकैर्दीप्तिसंयुतैः ॥
प्रददौ संहतान्कृत्वा वलयान्पञ्च सप्त च ॥ १८-४२ ॥

पञ्चाशच्च शते द्वे तु भौक्तिकानि महीपते ॥
सन्ध्यावल्यां स्थितानीह शीतांशुप्रतिमानि च ॥ १८-४३ ॥

एकैकस्यै ददौ पुत्रो हारयुग्मं मनोहरम् ॥
कुङ्कुमं चन्दनं भूरि कर्पूरं प्रस्थसङ्ख्यया ॥ १८-४४ ॥

कस्तूरिकां तथा ताभ्यो भूयसीं प्रददौ सुतः ।
मातॄणामविशेषेण पितुः सुखमभीप्सयन् ॥ १८-४५ ॥

भाजनानि विचित्राणि जलपात्राण्यनेकशः ॥
घृतक्षीरस्य पात्राणि पेयस्य विविधस्य च ॥ १८-४६ ॥

चतुर्द्दशशतं प्रादात्सहस्रेण समन्वितम् ॥
स्थालीनां काञ्चनीनां हि सकुम्भानां नृपात्मजः ॥ १८-४७ ॥

एकैकस्यै ददौ भूप शतानि त्रीणि पञ्च च ॥
करेणूनां सवेगानां मांसविक्रान्तकन्धराम् ॥ १८-४८ ॥

विंशतिं विंशतिं प्रादादुष्ट्रीणां च शतं शतम् ॥
शिबिकानां सवेषाणां पुंसां पीवरगामिनाम् ॥ १८-४९ ॥

प्रददौ दश सप्ताश्वान्मातॄणां सुखयायिनः ॥
एवं दत्वा बहुधनं बह्वीभ्यो नृपनन्दनः ॥ १८-५० ॥

धन्यो धनपतिप्रख्यश्चक्रे तासां प्रदक्षिणाः ॥
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ॥ १८-५१ ॥

ममोपरोधात्प्रणतस्य मूर्ध्नापतिं समुद्दिश्य यथा भवत्यः ॥
ब्रुवन्तु सर्वाः पितरं ममाद्य स्वैरेण सम्भुङ्क्ष्व नरेशं मोहिनीम् ॥ १८-५२ ॥

न चास्मदीया भवता किलेर्ष्या स्वल्पापि कार्या मनसि प्रतीता ॥
विमोहिनीं ब्रह्मसुतां सुशीलां रमस्व सौख्येन रहः शतानि ॥ १८-५३ ॥

तत्पुत्रवाक्यं हि निशम्य सर्वाः संहृष्टलोम्न्यो नृपनाथमूचुः ॥
स्वभूदुहित्रा सुचिरं रमस्व विदेहपुत्र्येव रघुप्रवीरः ॥ १८-५४ ॥

न शल्यभूता कुशकेतुपुत्री त्वत्सङ्गमाद्विद्वि न संशयोऽत्र ॥
पुत्रौजसा दुःखविमुक्तभावात्समीरितं वाक्यमिदं प्रतीहि ॥ १८-५५ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मातृसन्मानं नाम अष्टादशोऽध्यायः ॥ १८ ॥