पुत्र उवाच ॥
तस्मादीर्ष्यां परित्यज्य मोहिनीमनुभोजय ॥
न मातरीदृशो धर्मो लोकेषु त्रिषु लभ्यते ॥ १७-१ ॥
स्वहस्तेन प्रियां भर्तुर्भार्यां या तु प्रभोजयेत् ॥
सपत्नीं तु सपत्नी हि किञ्चिदन्नं ददाति च ॥ १७-२ ॥
तदनन्तं भवेद्देवि मातरित्याह नाभिजः ॥
कुरु वाक्यं मयोक्तं हि स्वामिनि त्वं प्रसीद मे ॥ १७-३ ॥
तातस्य सौख्यं कर्तव्यमावाभ्यां वरवर्णिनी ॥
भवेत्पापक्षयः सम्यक् स्वर्गप्राप्तिस्तथाक्षया ॥ १७-४ ॥
पुत्रस्य वचनं श्रुत्वा देवी सन्ध्यावली तदा ॥
अभिमन्त्र्य परिष्वज्य तनयं सा पुनः पुनः ॥ १७-५ ॥
मूर्ध्नि चैनमुपाघ्राय वचनं चेदमब्रवीत् ॥
करिष्ये वचनं पुत्र त्वदीयं धर्मसंयुतम् ॥ १७-६ ॥
इर्ष्यां मानं परित्यज्य भोजयिष्यामि मोहिनीम् ॥
शतपुत्रा ह्यहं पुत्र त्वयैकेन सुतेन हि ॥ १७-७ ॥
नियमैर्बहुभिर्जातो देहक्लेशकरैर्भवान् ॥
व्रतराजेन चीर्णेन प्राप्तस्त्वमचिरात्सुतः ॥ १७-८ ॥
नहीदृशं व्रतं लोके फलदायि प्रदृश्यते ॥
सद्यः प्रत्ययकारीदं महापातकनाशनम् ॥ १७-९ ॥
किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः ॥
वरमेकः कुलालम्बी यत्र विश्रमते कुलम् ॥ १७-१० ॥
त्रैलोक्यादुपरिष्ठाहं त्वां प्राप्य जठरे स्थितम् ॥
धन्यानि तानि शूलानि यैर्जातस्त्वं सुतोऽनघ ॥ १७-११ ॥
सप्तद्वीपपतिः शूरः पितुर्वचनकारकः ॥
आह्लादयति यस्तातं जननीं वापि पुत्रकः ॥ १७-१२ ॥
तं पुत्रं कवयः प्राहुर्वाचाख्यमपरं सुतम् ॥
एवमुक्त्वा तु वचनं देवी सन्ध्यावली तदा ॥ १७-१३ ॥
वीक्षां चक्रेऽथ भाण्डानि षड्रसस्य तु हेतवे ॥
तस्या वीक्षणमात्रेण परिपूर्णानि भूपते ॥ १७-१४ ॥
षड्रस्य सुखोष्णस्य मोहिनीभोजनेच्छया ॥
अमृतस्वादुकल्पस्य जनस्य तु महीपते ॥ १७-१५ ॥
ततो दर्वीं समादाय काञ्चनीं रत्नसंयुताम् ॥
परिवेषयदव्यग्रा मोडिन्याश्चारुहासिनी ॥ १७-१६ ॥
काञ्चने भाजने श्लक्ष्णे मानभोजनवेष्टिते ॥
शनैः शनैश्च बुभुजे इष्टमन्नं सुसंस्कृतम् ॥ १७-१७ ॥
उपविश्यासने देवी शातकौभमये शुभे ॥
वीज्यमाना वरारोहा व्याजनेन सुगीतिना ॥ १७-१८ ॥
धर्माङ्गदगृही तेन शिखिपुच्छभवेन तु ॥
सा भुक्ता ब्रह्मतनया तदन्नममृतोपमम् ॥ १७-१९ ॥
चतुर्गुणेन शीतेन कृत्वा शौचमथात्मनः ॥
जगृहे पुत्रदत्तं तु ताम्बूलं तत्सुगन्धिमत् ॥ १७-२० ॥
वरचन्दनयुक्तेन हस्तेन वरवर्णिनी ॥
ततः प्रहस्य शनकैः प्राह सन्ध्यावलीं नृप ॥ १७-२१ ॥
जननी किं तु देवि त्वं वृषाङ्गदनृपस्य तु ॥
न मया हि परिज्ञाता श्रमस्वेदितया शुभे ॥ १७-२२ ॥
वदत्येवं ब्रह्मसुता यावत्सन्ध्यावलीं नप ॥
तावत्प्रणम्य नृपतेः पुत्रो वचनमब्रवीत् ॥ १७-२३ ॥
उदरे ह्यनया देव्या घृतः संवत्सरत्रयम् ॥
तव भर्तुः प्रसादेन वृद्धिं सम्प्राप्तवानहम् ॥ १७-२४ ॥
सन्त्यनेकानि मातॄणां शतानि मम सुन्दरि ॥
अस्याः पीतं पयो भूरि कुचयोः स्नेहसम्प्लुतम् ॥ १७-२५ ॥
अनया सा रुजा तीव्रा विधृता प्रायशो जरा ॥
इयं मां जनयित्वैव जाता शिथिलबन्धना ॥ १७-२६ ॥
तन्नास्ति त्रिषु लोकेषु यद्दत्वा चानृणो भवेत् ॥
मातुः पुत्रस्य चार्वङ्गि सत्यमेतन्मयेरितम् ॥ १७-२७ ॥
सोऽहं धन्यतरो लोके नास्ति मत्तोऽधिकः पुमान् ॥
उत्सङ्गे वर्तयिष्यामि मातृसङ्घस्य नित्यशः ॥ १७-२८ ॥
नोत्सङ्गे चेज्जनन्या हि तनयो विशति क्वचित् ॥
मातृसौख्यं न जानाति कुमारी भर्तृजं यथा ॥ १७-२९ ॥
मातुरुत्सङ्गमारूढः पुत्रो दर्पान्वितो भवेत् ॥
हारमुत्तमदेहस्थं हस्तेनाहर्तुमिच्छति ॥ १७-३० ॥
पाल्यमानो जनन्या हि पितृहीनोऽपि दर्पितः ॥
समीहते जगद्धर्तुं सवीर्यं मातृजं पयः ॥ १७-३१ ॥
एतज्जठरसंसर्गि भवत्युत्सङ्गशङ्कितः ॥
अस्याश्चैवापराणां च विशेषो यदि मे न चेत् ॥ १७-३२ ॥
तेन सत्येन मे तातो जीवताच्छरदां शतम् ॥
एवं ब्रुवाणे तनये मोहिनी विस्मयं गता ॥ १७-३३ ॥
कथमस्य प्रहर्तव्यं मया निर्घृणशीलया ॥
विनीतस्य ह्यपापस्य औचित्यं पापिनो गृहे ॥ १७-३४ ॥
पितुः शुश्रूषणं यस्य न तस्य सदृशं क्षितौ ॥
एवं गुणाधिकस्याहं कर्तुं कर्म जुगुप्सिताम् ॥ १७-३५ ॥
पुत्रस्य धर्मशीलस्य भूत्त्वा तु जननी क्षितौ ॥
एवं विमृश्य बहुधा मोहिनी लोकसुन्दरी ॥ १७-३६ ॥
उवाच तनयं बाला शीघ्रमानय मे पतिम् ॥
न शक्नोमि विना तेन मुहूर्तमपि वर्तितुम् ॥ १७-३७ ॥
ततः स त्वरितं गत्वा प्रणम्य पितरं नृप ॥
कनिष्ठा जननी तात शीघ्रं त्वां द्रष्टुमिच्छति ॥ १७-३८ ॥
प्रसादः क्रियतां तस्याः पूज्यतां ब्रह्मणः सुता ॥
पुत्रवाक्येन नृपतिरतत्क्षणाद्गन्तुमुद्यतः ॥ १७-३९ ॥
प्रहृष्टवदनो भूत्वा सन्ध्यावल्या निवेशनम् ॥
सम्प्रविश्य गृहे राजा ददर्श शयनस्थिताम् ॥ १७-४० ॥
मोहिनीं मोहसंयुक्तां तप्तकाञ्चनसप्रभाम् ॥
उपास्य मानां प्रियया सन्ध्यावल्या शनैः शनैः ॥ १७-४१ ॥
पुत्रवाक्यात्परित्यज्य क्रोधं सापत्न्यजं तथा ॥
दृष्ट्वा रुक्माङ्गदं प्राप्तं शयने मोह्य सुन्दरी ॥ १७-४२ ॥
प्रहृष्टवदना प्राह राजानं भूरिदक्षिणम् ॥
इहोपविश्यतां कान्त पर्यङ्के मृदुतूलके ॥ १७-४३ ॥
सर्वं निरीक्षितं भूप राज्यतन्त्रं त्वया चिरम् ॥
अद्यापि नहि ते वाञ्छा राज्ये परिनिवर्तते ॥ १७-४४ ॥
मन्ये दुष्कृतिनं भूप त्वामत्र धरणीतले ॥
यः समर्थं सुतं ज्ञात्वा स्वयं पश्येन्नृपश्रियम् ॥ १७-४५ ॥
तस्मात्त्वत्तोऽधिको नास्ति दुःखी लोकेषु कश्चन ॥
सुपुत्राणां पितॄणां हि सुखं याति क्षणं नृप ॥ १७-४६ ॥
दुःखेन पापभोक्तॄणां विषयासक्तचेतसाम् ॥
सर्वाश्च प्रकृती राजंस्तवेष्टाः पूर्णपुण्यजाः ॥ १७-४७ ॥
धर्माङ्गदे पालयाने कथं त्वं वीक्षसेऽधुना ॥
परित्यज्य प्रियासौख्यं कीनाश इव दुर्बलः ॥ १७-४८ ॥
यदि पालयसे राज्यं मया किं ते प्रयोजनम् ॥
निष्प्रयोजनमानीता क्षीरसागरमस्तकात् ॥ १७-४९ ॥
विड्भोज्या हि भविष्यामि पक्षिणामामिषं यथा ॥
यो भार्यां यौवनोपेतां न सेवेदिह दुर्मतिः ॥ १७-५० ॥
कृत्याचरणसक्तस्तु कुतस्तस्य भवेत्प्रिया ॥
असेविता व्रजेद्भार्या अदत्तं हि धनं व्रजेत् ॥ १७-५१ ॥
अरक्षितं व्रजेद्राज्यं अनभ्यस्तं श्रुतं व्रजेत् ॥
नालसैः प्राप्यते विद्या न भार्या व्रतसंस्थितैः ॥ १७-५२ ॥
नानुष्ठानं विना लक्ष्मीर्नाभक्तैः प्राप्यते यशः ॥
नोद्यमी सुखमाप्नोति नाभार्यः सन्ततिं लभेत् ॥ १७-५३ ॥
नाशुचिर्द्धर्ममाप्नोति न विप्रोऽप्रियवाग्धनम् ॥
अपृच्छन्नैव जानाति अगच्छन्न क्वचिद्व्रजेत् ॥ १७-५४ ॥
अशिष्यो न क्रियां वेत्ति न भयं वेत्ति जागरी ॥
कस्माद्भूपाल मां त्यक्त्वा धर्माङ्गदगृहे शुभे ॥ १७-५५ ॥
वीक्ष्यसे राज्यपदवीं समर्थे तनये विभो ॥ १७-५६ ॥
एवं ब्रुबाणां तनयां विधेस्तु रतिप्रियां चारुविशालनेत्राम् ॥
व्रीडान्वितः पुत्रसमीपवर्ती प्रोवाच वाक्यं नृपतिः प्रियां ताम् ॥ १७-५७ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मोहिनीवचनं नाम सप्तदशोऽध्यायः ॥ १७ ॥