०१६

वसिष्ठ उवाच ॥
धर्माङ्गवदचः श्रुत्वा हृष्टो रुक्माङ्गदोऽब्रवीत् ॥
सत्य ते जननी पुत्र सम्प्राप्ता मन्दरे मया ॥ १६-१ ॥

वेदाश्रयसुता बाला मदर्थं कृतनिश्चया ॥
कुर्वन्ती दारुणं पुत्र तपो देवगिरौ पुरा ॥ १६-२ ॥

इतः पञ्चदशादह्नो हयगामी गतो ह्यहम् ॥
मन्दरे पर्वतश्रेष्ठे बहुधातुसमन्विते ॥ १६-३ ॥

तस्य मूर्द्धनि बालेयं तोषयन्ती महेश्वरम् ॥
स्थिता गानपरा दृष्टा मया तत्र सुदर्शना ॥ १६-४ ॥

ततोऽहं मूर्च्छया युक्तः पतितो धरणीतले ॥
अनङ्गबाणसंविद्धो व्याधविद्धो यथा मृगः ॥ १६-५ ॥

ततोऽहमनया देव्या चालितश्चारुनेत्रया ॥
वृतश्चैवापि भर्तृत्वे किञ्चित्प्रार्थनया सह ॥ १६-६ ॥

मया चापि प्रतिज्ञातं स्वदक्षिणकरान्वितम् ॥
सेयं भार्या विशालाक्षी कृता भूधरमस्तके ॥ १६-७ ॥

अवरुह्य धरापृष्टे समारुह्य तुरङ्गमम् ॥
दिनत्रयेण त्वरितः सम्प्राप्तस्तव सन्निधौ ॥ १६-८ ॥

पश्यमानो गिरीन्देशान्सरांसिसरितस्तथा ॥।
इयं हि जननी पुत्र तव प्रीतिविवर्द्धिनी ॥ १६-९ ॥

अभिवादय चार्वङ्गीं त्वं निजामिव मातरम् ॥
तत्पितुर्वचनं श्रुत्वा हयसंस्थामरिन्दमः ॥ १६-१० ॥

शिरसा धरणीं गत्वा इदं वचनमब्रवीत् ॥
प्रसीद देवि मातस्त्वं भृत्यो दासः सुतस्तव ॥ १६-११ ॥

नमस्करोमि जननीं बहुभूपालसंयुतः ॥
तं पुत्रमवनीं प्राप्तं मोहिनी प्रेक्ष्य भूपते ॥ १६-१२ ॥

भर्तुर्दाक्षिण्ययोगाच्च अवतीर्य तुरङ्गमात् ॥
अवागूहत बाहुभ्यामुत्थाप्य पतितं सुतम् ॥ १६-१३ ॥

परिष्वक्तस्तदा मात्रा पुनरेवाभ्यनन्दयत् ॥
ततस्तां सुमनोज्ञैस्तु चारुवस्त्रैस्च भूषणैः ॥ १६-१४ ॥

भूषयित्वा समारोप्य पुनरेव हयोत्तमम् ॥
स्वपृष्ठे चरणं कृत्वा तस्या राजीवलोचनः ॥ १६-१५ ॥

तेनैव विधिना भूप पितरं चान्वरोहयत् ॥
भूपालैः संवृतो गच्छन्पभ्द्यां धर्माङ्गदः सुतः ॥ १६-१६ ॥

प्रहर्षपुलको ह्यासीज्जननीं प्रेक्ष्य मोहिनीम् ॥
स्तूयमानः स्वयं चापि मेघगम्भीरया गिरा ॥ १६-१७ ॥

धन्यः स तनयो लोके मातरो यस्य भूरिशः ॥
नवा नवतरा भार्याः पितुरिष्टा मनोहराः ॥ १६-१८ ॥

यस्यैका जननी लोके पिता तस्यैव दुःखभाक् ॥
पितुर्दुःखेन किं सौख्यं पुत्रस्य हृदि वर्तते ॥ १६-१९ ॥

एकस्या वन्दने मातुः पृथिवीफलमश्नुते ॥
मातॄणां वन्दने मह्यं महत्पुण्यं भविष्यति ॥ १६-२० ॥

तस्मादभ्यधिकं पुण्यं भविष्यति दिने दिने ॥
एकमुच्चरमाणोऽसौ राजभिः परिवारितः ॥ १६-२१ ॥

प्रविष्टो नगरं रम्यं वैदिशं ऋद्धिसंयुतम् ॥
हयस्थः प्रययौ राजा मोहिन्या सह तत्क्षणात् ॥ १६-२२ ॥

ततो गृहवरं प्राप्य पूज्यमानो जनैर्नृपः ॥
अवरुह्य हयातस्मान्‌मोहिनीं वाक्यमब्रवीत् ॥ १६-२३ ॥

धर्माङ्गदस्य पुत्रस्य गृहे गच्छ मनोहरे ॥
एष ते गुरुशुश्रूषां करिष्यति यथा गुणम् ॥ १६-२४ ॥

न सखी नैव दासी ते शुश्रूषामाचरेदिति ॥
सा चैवमुक्ता पत्या तु प्रस्थिता सुतमन्दिरम् ॥ १६-२५ ॥

धर्माङ्गदेन सा दृष्टा गच्छन्ती मन्दिराय वै ॥
आत्मनो भर्तृवाक्येन परित्यज्य महीपतीन् ॥ १६-२६ ॥

तिष्ठध्वं पितुरादेशादिमां शुश्रूषये ह्यहम् ॥
स एवमुक्त्वा गत्वा तु बाहुभ्यां परिगृह्य वै ॥
क्रमे पञ्चदशे प्राप्ते पर्यङ्के त्ववरोपयत् ॥ १६-२७ ॥

काञ्चने पट्टसूत्रेण रचिते कोमले दृढे ॥
मृद्वास्तरणसंयुक्ते मणिरत्नविभूषिते ॥ १६-२८ ॥

रत्नदीपैश्च बहुशः खचिते सूर्यसप्रभे ॥
ततः पादोदकं चक्रे मोहिन्या धर्मभूषणः ॥ १६-२९ ॥

सन्ध्यावल्या गुरुत्वेन ह्यपश्यत्तां नृपात्मजः ॥
नैवमस्याभवद्दुष्टं मनस्तां मोहिनीं प्रति ॥ १६-३० ॥

सुकुमारोऽपि तन्वङ्गीं पीनोरुजघनस्तनीम् ॥
मेने वर्षायुतसमामात्मानं च त्रिवत्सरम् ॥ १६-३१ ॥

प्रक्षाल्य चरणौ तस्यास्तज्जलं शिरसि न्यधात् ॥
उवाचावनतो भूत्वा सुकृती मातरस्म्यहम् ॥ १६-३२ ॥

इत्युक्त्वा नरनारीभिः स्वयं च श्रमनाशनम् ॥
चकार सर्वभोगैस्तां युयोज च मुदान्वितः ॥ १६-३३ ॥

क्षीरोदमथने जाते कुण्डले चामृतस्रवं ॥
ये लब्धे दानवाञ्चित्वा पाताले धर्ममूर्त्तिना ॥ १६-३४ ॥

मोहिन्या कर्णयोश्चक्रे स्वयमेव वृषाङ्गदः ॥
अष्टोत्तरसहस्रैश्च धात्रीफलनिभैः शुभैः ॥ १६-३५ ॥

मौक्तिकै रचितैः शुभ्रैर्हारो देव्याः कृतो हृदि ॥
निष्कं पलशतं स्वर्णं कुलिशायुतभूषितम् ॥ १६-३६ ॥

हार लघूत्तरं चक्रे मातुर्नृपसुतस्तदा ॥
वलया वज्रखचिता द्विरष्टौ करयोर्द्वयोः ॥ १६-३७ ॥

एकैके निष्ककोटीभिर्मूल्यविद्भिर्नरैः कृताः ॥
केयूरनूपुरौ तस्या अनर्घौ स नृपात्मजः ॥ १६-३८ ॥

प्रददौ पितुरिष्टाया भूषणार्थं रविप्रभौ ॥
कटिसूत्रं तु शर्वाण्या यदासीत्पावकप्रभम् ॥ १६-३९ ॥

तद्भ्रष्टं भयभीतायाः सङ्ग्रामे तारकामये ॥
कालनेमौ स्थिते राज्ये पतितं मूलपाचने ॥ १६-४० ॥

तद्गृहीतं तु दैत्येन मयेन लोकमायिना ॥
तं हत्वा मलये दैत्यं दैत्यकोटिसमावृतम् ॥ १६-४१ ॥

संवत्सररणे घोरे पितुर्वचनकारणात् ॥
अवाप कटिसूत्रं तु दैत्यराजप्रियास्थितम् ॥ १६-४२ ॥

तद्ददौ पितुरिष्टायाः सानन्दपुलको नृपः ॥
हिरण्यकशिपोः पूर्वं या भार्या लोकसुन्दरी ॥ १६-४३ ॥

तस्याः सीमन्तकश्चासीत्सौदामिनिसमप्रभः ॥
सा प्रविष्टा समं पत्या यदा पावकमङ्गला ॥ १६-४४ ॥

समुद्रे क्षिप्य सीमन्तं दुःखेन महतान्विता ॥
सागरस्तत्तु सङ्गृह्य रत्नश्रेष्ठयुगं किल ॥ १६-४५ ॥

ददौ धर्माङ्गदायाथ तस्य वीर्येण तोषितः ॥
जनन्याः प्रददौ हृष्टः सूर्यकोटिसमप्रभम् ॥ १६-४६ ॥

अग्निशौचे शुभे वस्त्रे कञ्चुके सुमनोहरे ॥
सहस्रकोटिमूल्ये ते मोहिन्याः सन्न्यवेदयत् ॥ १६-४७ ॥

देवमाल्यं सुगन्धाढ्यं तथा देवविलेपनम् ॥
सर्वदेवगुरोः पूर्वं सिद्धहस्तात्सुदुर्लभम् ॥ १६-४८ ॥

धर्माङ्गदेन वीरेण द्वीपानां विजये तथा ॥
लब्धं तत् प्रददौ देव्या मोहिन्याः कामवर्द्धनम् ॥ १६-४९ ॥

सम्भूष्य परया भक्त्या पश्चात्षड्रसभोजनम् ॥
आनीतं मातृहस्तेन भोजयामास भूमिप ॥ १६-५० ॥

पुरस्तादेव जननीं वाक्यैः सम्बोध्य भूरिशः ॥
मया त्वया च कर्तव्यं राज्ञो वाक्यं न संशयः ॥ १६-५१ ॥

या इष्टा नृपतेर्देवि सास्माकं हि गरीयसी ॥
इष्टा या भूपतेर्भर्तुस्तस्या या दुष्टमाचरेत् ॥ १६-५२ ॥

सा पत्नी नरकं याति यावदिन्द्राश्चतुर्दश ॥
सापत्नभावं या कुर्याद्भर्तृस्नेहेष्टया सह ॥ १६-५३ ॥

तस्याः स्नेहवियोगार्थं तप्यते ताम्रभ्राष्टके ॥
यथा सुखं भवेद्भर्तुस्तथा कार्यं हि भार्यया ॥ १६-५४ ॥

अनुकूलं हितं तस्या इष्टाया भर्तुराचरेत् ॥
यथा भर्ता तथा तां हि पश्येत वरवर्णिनि ॥ १६-५५ ॥

हीनायाश्चापि शुश्रूषां कृत्वा याति त्रिविष्टपम् ॥
पश्चात्स्थाने भवेत्सापि मनसा याभवत्प्रिये ॥ १६-५६ ॥

सर्वान्भोगानवाप्नोति भर्तुरिष्टं प्रगृह्य हि ॥
इर्ष्याभावपरित्यागात्सर्वेश्वरपदं लभेत् ॥ १६-५७ ॥

सपत्नी या सपत्न्यास्तुःशुश्रूषां कुरुते सदा ॥
भर्तुरिष्टां सन्निरीक्ष्य तस्या लोकोऽक्षयो भवेत् ॥ १६-५८ ॥

भर्तुरिष्टा पुरा वेश्या ह्यभवत्सा कुलेषु वै ॥
शूद्रजातेः सुदुष्टस्य परित्यक्तक्रियस्य तु ॥ १६-५९ ॥

आचरद्‌वेश्यया सार्द्धं सा भार्या पतिरञ्जिनी ॥
प्रक्षालनं द्वयोः पादौ द्वयोरुच्छिष्टभोजिनी ॥ १६-६० ॥

उभयोरप्यधः शेते उभयोर्वै हितं रता ॥
वेश्यया वार्यमाणापि सदाचारपथे स्थिता ॥ १६-६१ ॥

एवं शुश्रीषयन्त्या हि भर्तारं वेश्यया सह ॥
जगाम सुमहान्कालो वर्तन्त्या दुःखसागरे ॥ १६-६२ ॥

अपरस्मिन्दिने भर्ता माहिषं मूलकान्वितम् ॥
अभक्षयत निष्पावं दुर्मेधास्तैलमिश्रितम् ॥ १६-६३ ॥

तदपथ्यभुजस्तस्य अवमन्य पतिव्रताम् ॥
अभवद्दारुणो रोगो गुदे तस्य भगन्दरः ॥ १६-६४ ॥

सन्दह्यमानोऽतितरां दिवा रात्रौ स भूरिशः ॥
तस्य गेहे स्थितं वित्तं समादाय जगाम सा ॥ १६-६५ ॥

वेश्यान्यस्मैददौ प्रीत्या यूने कामपरायणा ॥
ततः स दीनवदनो व्रीडया च समन्वितः ॥ १६-६६ ॥

उवाच प्ररुदन्भार्यां शूद्रो व्याकुलचेतनः ॥
परिपालय मां देवि वेश्यासक्तं सुनिष्ठुरम् ॥ १६-६७ ॥

न मयोपकृतं किञ्चित्तव सुन्दरि पापिना ॥
रमते वेश्यया सार्द्धं बहूनब्दान्सुमध्यमे ॥ १६-६८ ॥

यो भार्यां प्रणतां पापोनानुमन्येत गर्वितः ॥
सोऽशुभानि समाप्नोति जन्मानि दश पञ्च च ॥ १६-६९ ॥

दिवाकीर्तिगृहे तस्माद्योनिं प्राप्स्यामि गर्हिताम् ॥
तवापमानतो देवि मनो न कलुषीकृतम् ॥ १६-७० ॥

इति भर्तृवचः श्रुत्वा भार्या भर्तारमब्रवीत् ॥
पुराकृतानि पापानि दुःखानि प्रभवन्ति हि ॥
तानि सक्षमते विद्वान् स विज्ञेयो नृणां वरः ॥ १६-७१ ॥

तन्मया पापया पापं कृतं वै पूर्वजन्मनि ॥
तद्भजन्त्या न मे दुःखं न विषादः कथञ्चन ॥ १६-७२ ॥

एवमुक्त्वा समाश्वास्य भर्तारमनुशास्य च ॥
अनीतं जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी ॥ १६-७३ ॥

क्षीरोदनिलयावासं मन्यते स्म सती पतिम् ॥
दिवा दिवा त्रिर्यत्नेन रात्रौ गुह्यविशोधनम् ॥ १६-७४ ॥

रजनीकरवृक्षोत्थं गृह्य निर्यासमञ्जसा ॥
नखेन पातयेद्भर्तुः क्रिमीन्कुष्ठाच्छनैः शनैः ॥ १६-७५ ॥

मयूरपुच्छसंयुक्तं पवनं चाकरोत्तदा ॥
न देवि रात्रौ स्वपिति न दिवा च वरानना ॥ १६-७६ ॥

भर्तृदुःखेन सन्तप्ता अपश्यज्ज्वलितं जगत् ॥
यद्यस्ति वसुधा देवी पितरो देवतास्तथा ॥ १६-७७ ॥

कुर्वन्तु रोगहीनं मे भर्तारं गतकल्मषम् ॥
चण्डिकायै प्रदास्यामि रक्तं मांससमुद्भवम् ॥ १६-७८ ॥

नृच्छागमहिषोपेतं भर्तुरारोग्यहेतवे ॥
सादरं कारयिष्यामि उपवासान्दशैव तु ॥ १६-७९ ॥

शरीरं स्थापयिष्येऽहं सूक्ष्मकण्टकसंस्तरे ॥
नोपभोक्ष्यामि मधुरं नोपभोक्ष्यामि वै घृतम् ॥ १६-८० ॥

बाह्याभ्यङ्गविहीनाहं संस्थास्ये दिनसञ्चयम् ॥
जीवतां रोगहीनो हि भर्ता मे शरदां शतम् ॥ १६-८१ ॥

एवं प्रव्याहरन्ती सा वासरे वासरे गते ॥
अथ कालेन चाल्पेन त्रिदोषोऽस्य व्यजायत ॥ १६-८२ ॥

त्रिकटुं प्रददौ भर्तुर्यत्नेन महता तदा ॥
शीतार्तः कम्पमानोऽसौ पत्न्यङ्गुलिमखण्डयत् ॥ १६-८३ ॥

उभयोर्दतयोः श्लेषः सहसा समपद्यत ॥
तत्खण्डमङ्गुलेर्वक्त्रे स्थितं नृपतिवल्लभे ॥ १६-८४ ॥

अथ विक्रीय वलयं क्रीत्वा काष्ठानि भूरिशः ॥
चितां सार्पिर्युतां चक्रे मध्ये धृत्वा पतिं तदा ॥ १६-८५ ॥

अवरुह्य च बाहुभ्यां पादेनाकृष्य पावकम् ॥
मुखे सुखं समाधाय हृदये हृदयं तथा ॥ १६-८६ ॥

जघने जघनं देवि आत्मनः सन्निवेश्य वै ॥
दाहयामास कल्याणी भर्तुर्देहं रुजान्वितम् ॥ १६-८७ ॥

आत्मना सह चार्वङ्गी ज्वलिते जातवेदसि ॥ १६-८८ ॥

विमुच्य देहं सहसा जगाम पतिं समादाय च देवलोकम् ॥
विशोधयित्वा बहुपापसङ्घान्स्वकर्मणा दुष्करसाधनेन ॥ १६-८९ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे पतिव्रतोपाख्यानं नाम षोडशोऽध्यायः ॥ १६ ॥