वसिष्ठ उवाच ॥
सम्प्रस्थितावुभौ राजन्गिरिशीर्षाद्धरातलम् ॥
पश्यमानौ बहून्भावान्गिरिजातान्मनोहरमनोहरान् ॥ १४-१ ॥
केचिद्विद्रुमसङ्काशाः केचिद्रजतसन्निभाः ॥
केचिन्नीलसमप्रख्याः केचित्काञ्चनसत्विषः ॥ १४-२ ॥
केचित्स्फाटिकवर्णाभा हरितालनिभाः परे ॥
अन्योन्यश्लेषतां प्राप्तौ सकलैः स्थावरैरिव ॥ १४-३ ॥
सप्राप्य वसुधां भूपो ह्यपश्यद्वाजिनां वरम् ॥
खन्यमानं खुरेणोर्वी कुलिशाभेन वेगिना ॥ १४-४ ॥
तस्य दारयतः पृथ्वीं सुतीक्ष्णेन खुरेण हि ॥
गृहगोधाभवत्तस्मिन् भूभागान्तर्गता किल ॥ १४-५ ॥
निर्गच्छमाना नृपते खुरेण विदलीकृता ॥
विदीर्यमाणां नृपतिरपश्यत्स दयापरः ॥ १४-६ ॥
अभ्यधावत वेगेन हा हतेति प्रियां वदन् ॥
ततः स वृक्षपत्रेण कोमलेन महीपतिः ॥ १४-७ ॥
उत्सार्य तां खुरादाशु प्राक्षिपत्तृणशाद्वले ॥
ततस्तु मोहिनीं प्राह प्रेक्ष्य मूर्च्छागतां हि ताम् ॥ १४-८ ॥
शीघ्रमाहर चार्वङ्गिजलं जलजलोचने ॥
येन मूर्च्छागतां सिञ्चे गृहगोधां विमर्द्दिताम् ॥ १४-९ ॥
सा भर्तुर्वचनाच्छीघ्रमानयच्छीतलं जलम् ॥
तेनाभ्यषिं चन्नृपतिर्गृहगोधां विमूर्च्छिताम् ॥ १४-१० ॥
अवाप चेतनां राजन् शीतलाज्जलसेचनात् ॥
अभिघातेषु सर्वेषु शस्तं वारिप्रसेचनम् ॥ १४-११ ॥
अथवा क्लिन्नवस्त्रेण सहसा बन्धनं हितम् ॥
सम्प्राप्तचेतना भूप गोधा वचनमब्रवीत् ॥ १४-१२ ॥
राजानमग्रतो वीक्ष्य वेदनार्ता शनैः शनैः ॥
रुक्माङ्गद महाबाहो निबोध मम चेष्टितम् ॥ १४-१३ ॥
शाकले नगरे रम्ये भार्याहं ह्यग्रजन्मनः ॥
रूपयौवनसम्पन्ना तस्य नातिप्रिया विभो ॥ १४-१४ ॥
सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः ॥
नान्यस्य कस्यचिद्द्वेष्टा स तु मे नृपते पतिः ॥ १४-१५ ॥
ततोऽह क्रोधसंयुक्ता वशीकरणलम्भनात् अपृच्छं प्रमदा राजन्यास्त्यक्ताः पतिभिः किल ॥ १४-१६ ॥
ताभिरुक्ता ह्यहं भूप वश्यो भर्ता भविष्यति ॥
अस्माकं प्रत्ययो जातो भर्तृत्यागावमाननात् ॥ १४-१७ ॥
प्रव्रज्याभेषजैर्वश्या जाता हि पतयस्तु नः ॥
त्वं पृच्छ तां वरारोहे दास्यते भेषजं शुभम् ॥ १४-१८ ॥
न विकल्पस्त्वया कार्यो भविता दासवत्पतिः ॥
ततोऽहं त्वरितं गत्वा तासां वाक्येन भूपते ॥ १४-१९ ॥
प्रासादः कथितस्तस्याः पृच्छन्त्या मम मानवैः ॥
शतस्तम्भसमायुक्तः कान्तिमत्सुधया युतः ॥ १४-२० ॥
प्रविश्य तं सुतेजस्कामपश्यं ब्रह्यचारिणीम् ॥
प्रावृतां दीर्घवस्त्रेण सन्ध्यारागसवर्णिनीम् ॥ १४-२१ ॥
दीर्घाभिः सा जटाभिस्तु संवृता दीप्तिसयुता ॥
परिचारकैस्तु संयुक्ता वीज्यमाना शनैः शनैः ॥ १४-२२ ॥
अक्षसूत्रकरा सा तु जपन्ती भगमालिनी ॥
सर्ववश्यकरं मन्त्रं क्षोभकं प्रत्ययावहम् ॥ १४-२३ ॥
ततोऽहं प्रणता भूत्वा पद्भ्यां न्यस्याङ्गलीयकम् ॥
मृदुकाञ्चनसम्भूतं अतिरिक्तप्रभान्वितम् ॥ १४-२४ ॥
ततो हृष्टाऽभवद्दृष्ट्वा पदस्थं चाङ्गुलीयकम् ॥
अपृष्टया तया ज्ञातं मम भर्त्तुर्विमाननम् ॥ १४-२५ ॥
तयोक्ताहं ततो भूप तापस्या प्रणता स्थिता ॥
चूर्णो रक्षान्वितो ह्येष सर्वभूतवशानुगः ॥ १४-२६ ॥
त्वया भर्तरि संयोज्यो रक्ष्यं ग्रीवाशयाङ्कुरम् ॥
भविष्यति पतिर्वश्यो नान्यां यास्यति सुन्दरीम् ॥ १४-२७ ॥
चूर्णरक्षां गृहीत्वाहं प्राप्ताभर्तृगृहं पुनः ॥
प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः ॥ १४-२८ ॥
ग्रीवायां हि कृता रक्षा न विचारो मया कृतः ॥
यदा स पीतचूर्णस्तु भर्ता नृपवरोत्तमा ॥ १४-२९ ॥
तदहः क्षयरोगोऽभूत्पतिः क्षीणो दिने दिने ॥
गुह्ये तु क्रिमयो जाताः क्षतदुष्टव्रणोद्भवाः ॥ १४-३० ॥
दिनैः कतिपयैर्जातैर्दीपवद्रविदर्शनात् ॥
हततेजास्तथा भर्त्ता मामुवाचाकुलेन्द्रियः ॥ १४-३१ ॥
क्रन्दमानो दिवा रात्रौ दासोऽस्मि तव शोभने ॥
त्राहि मां शरणं प्राप्तं न गच्छेयं परिस्त्रियम् ॥ १४-३२ ॥
तत्तस्य रुदितं श्रुत्वा भयभीता महीपते ॥
तस्यां निवेदितं सर्वं कथं भर्ता भवेत्सुखी ॥ १४-३३ ॥
तयापि भेषजं दत्तं द्वितीयं दाहशान्तये ॥
दत्ते तु भेषजे तस्मिन्सुस्थोऽभूत्तत्क्षणात्पतिः ॥ १४-३४ ॥
पूर्वचूर्णोद्भवो दाहः शान्तस्तेनौषधेन ह ॥
ततः प्रभृति मे भर्ता वश्योऽभूद्वचने स्थितः ॥ १४-३५ ॥
कालेन पञ्चतां प्राप्ता गता नरकयातनाम् ॥
ताम्रभ्राष्ट्रे ह्यहं दग्धा युगानि दश पञ्च च ॥ १४-३६ ॥
सूक्ष्माणि तिलमात्राणि कृत्वा खण्डान्यनेकशः ॥
किञ्चित्पातकशेषेण धरायामवतारिता ॥ १४-३७ ॥
गृहगोधामयं रूपं कृतं भास्करजेन मे ॥
साहमत्र स्थिता भूप वर्षाणामयुतं पुरा ॥ १४-३८ ॥
यान्यापि युवतिर्भूप भर्तुर्वश्यं समाचरेत् ॥
वृथाधर्मा दुराचारा दह्यते ताम्रभ्राष्ट्रके ॥ १४-३९ ॥
भर्ता नाथो गतिर्भर्ता दैवतं गुरुरेव च ॥
तस्य वश्यं चरेद्या तु सा कथं सुखमाप्नुयात् ॥ १४-४० ॥
तिर्यग्योनिशतं याति क्रिमिकुष्ठसमन्विता ॥
तस्माद्भूपाल कर्तव्यं स्त्रीभिर्भर्तृवचः सदा ॥ १४-४१ ॥
साहं यास्ये पुनर्योनिं कुत्सितां पातकान्विताम् ॥
यदि नोद्धरसे राजन्नद्य मां शरणागताम् ॥ १४-४२ ॥
सुकृतस्य प्रदानेन विजयाजनितेन हि ॥
या त्वया सङ्गमे पुण्ये कृता श्रवणद्वादशी ॥ १४-४३ ॥
सरय्वाश्चैव गङ्गायाः पापनाशविधायके ॥
प्रेतनिर्यातनी पुण्या मानसेप्सितदायिनी ॥ १४-४४ ॥
यस्यां गृहेऽपि भूपाल संस्मृतो मनुजैर्हरिः ॥
सर्वतीर्थफलावाप्तिं कुरुते नात्र संशयः ॥ १४-४५ ॥
दत्तं जप्तं हुतं यच्च कृतं देवार्चनादिकम् ॥
सर्वं तदक्षयं भूप यत्कृतं विजयादिने ॥ १४-४६ ॥
एवंविधं फलं यस्यास्तद्देहि सुकृतं मम ॥
द्वादश्यामुपवासेन त्रयोदश्यां तु पारणे ॥ १४-४७ ॥
द्वादशाब्दोपवासस्य फलं प्राप्तोत्युपोषणे ॥
दयां कृत्वा महीपाल धर्ममूर्तिर्भवान् क्षितौ ॥ १४-४८ ॥
वैवस्वतपथध्वंसी परित्राहि सुदुःखिताम् ॥
गृहगोधावचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ॥ १४-४९ ॥
स्वकृतं तु जनोऽश्नाति सुखदुःखात्मकं विभो॥
तस्मात्किमनया कार्यं पापया भर्तुदुष्टया ॥ १४-५० ॥
यया भर्ता वशं नीतो रक्षाचूर्णादिभिर्नृप ॥
साधुभ्यो यत्कृतं राजन्यशःस्वर्गकरं भवेत् ॥ १४-५१ ॥
उभयोर्भ्रं शतामेति पापेभ्यो यत्कृतं भवेत् ॥
शर्करामिश्रितं क्षीरं काद्रवेये नियोजितम् ॥ १४-५२ ॥
विषवृद्धिं करोत्येव तद्वत्पापकृतं भवेत् ॥
परित्यजेमां त्वं पापां गच्छावो नगराय वै ॥ १४-५३ ॥
जन्मव्यापारसक्तानामात्मसौख्यं विनश्यति ॥
रुक्माङ्गद उवाच ॥
ब्रह्मात्मजे कथं वाक्यमीदृशं व्याहृतदं त्वया ॥
न साधूनामिदं वृत्तं भवतीति वरानने ॥ १४-५४ ॥
आत्मसौख्यकराः पापा भवन्ति परतापिनः ॥
विप्रपन्ना वरारोहे परोपकरणाय वै ॥ १४-५५ ॥
शशी सूर्योऽथ पर्जन्यो मेदिनी हुतभुग्जलम् ॥
चन्दनं पादपाः सन्तः परोपकरणाय वै ॥ १४-५६ ॥
श्रूयते किल राजासीद्धरिश्चन्द्रो वरानने ॥
चाण्डालमन्दिरावासी भार्यातनयविक्रयी ॥ १४-५७ ॥
असत्यवचनाद्भीतो दुःखाद्दुःखतरं गतः ॥
तस्य सत्येन सन्तुष्टादेवाः शक्रपुरोगमाः ॥ १४-५८ ॥
वरेण छन्दयाञ्चक्रुर्हरिश्चन्द्रं महीपतिम् ॥
तेन सत्यवता चोक्ता देवा ब्रह्मपुरोगमाः ॥
यदि तुष्टा हि विबुधा वरं मे दातुमर्हथ ॥ १४-५९ ॥
एषा हि नगरी सर्वा सद्रुमा ससरीसृपा ॥
सबालवृद्धतरुणा सनारी सचतुष्पदा ॥ १४-६० ॥
प्रयातु कृतपापापिस्वर्गतिं नगरी मम ॥
अयोध्यापातकं गृह्य गन्ताहं नरकं ध्रुवम् ॥ १४-६१ ॥
एकाकी नहि गच्छामि परित्यज्य जनं क्षितौ ॥
स्वर्गं विबुधशार्दूलाः सत्यमेतन्मयेरितम् ॥ १४-६२ ॥
तस्य तां स्थिरतां ज्ञात्वा सह तेनैव सा पुरी ॥
जगाम स्वर्गलोकं च इन्द्रादीनामनुज्ञया ॥ १४-६३ ॥
सोऽपि स्वर्गे स्थितो राजा स्वपुरेण समन्वितः ॥
कामगेन विमानेन पूज्यमानोऽमरैरपि ॥ १४-६४ ॥
अस्थिदानं कृतं देवि कृपया हि दधीचिना ॥
देवानामुपकारार्थं श्रुत्वा दैत्यैः पराजितान् ॥ १४-६५ ॥
कपोतार्थं स्वमांसानि शिबिना भूभुजा पुरा ॥
प्रदत्तानि वरारोहे श्येनाय क्षुधिताय वै ॥ १४-६६ ॥
जीमूतवाहनो राजा पुरासीत्क्षितिमण्डले ॥
तेनापि जीवितं दत्तं पन्नगाय वरानने ॥ १४-६७ ॥
तस्माद्दयालुना देवि भवितव्यं महीभुजा ॥
शुचावमेध्येऽपि शुभे समं वर्षति वारिदः ॥ १४-६८ ॥
चाण्डालपतितौ चन्द्रो ह्लादयेच्च निजैः करैः ॥
तस्मादिमां वरारोहे गृह गोधां सुदुःखिताम् ॥ १४-६९ ॥
उद्धरिष्ये निजैः पुण्यैर्दौहित्रैर्नाहुषो यथा ॥
विमोहिनीं तिरस्कृत्य गृहगोधामुवाच ह ॥ १४-७० ॥
दत्तं दत्तं मया पुण्यं विजयासम्भवं तव ॥
गच्छ विष्णुगताँल्लोकान्विधूताशेषकल्मषा ॥ १४-७१ ॥
तद्वाक्यात्सहसा भूप दिव्याभरणभूषिता ॥
विमुच्य देहं तज्जीर्णं गृहगोधासमुद्भवम् ॥ १४-७२ ॥
जगामामन्त्र्य तं भूपं द्योतयन्ती दिशो दश ॥
सीमन्तमिव कुर्वाणा वैष्णवं पदमुद्भुतम् ॥ १४-७३ ॥
यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमात्मभूतम् ॥
तम्मादियं चैव शिखिप्रदीपा जगत्प्रकाशाय नृपप्रसूता ॥ १४-७४ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे गोधाविमुक्तिर्नाम चतुर्दशोऽध्यायः ॥ १४ ॥