वसिष्ठ उवाच ॥
तच्छ्रुत्वा नृपतेर्वाक्यं महाज्ञानी मुनीश्वरः ॥
चिन्तयित्वा क्षणं ज्ञात्वा कारणं तमुचाव ह ॥ ११-१ ॥
वामदेव उवाच ॥
पुरा त्वमवनीपाल शूद्रजातिसमुद्भवः ॥
दारिद्र्येण पराभूतो दुष्टया भार्यया तथा ॥ ११-२ ॥
परसेवनया चैव वेतनेन भुजिक्रिया ॥
निवसन्दुःखसन्तप्तो बहुवर्षाणि पार्थिव ॥ ११-३ ॥
कदाचिद्द्विजसंसर्गात्तीर्थयात्रां गतो भवान् ॥
ततः सर्वाणि तीर्थानि परिक्रम्य महीपते ॥ ११-४ ॥
द्विजसेवापरो जातो मथुरां पुण्यरूपिणीम् ॥
तत्र स्नातं त्वया विप्रसङ्गेन यमुनाजले ॥ ११-५ ॥
विश्रान्तिसञ्ज्ञके तीर्थे सर्वतीर्थोत्तमोत्तमे ॥
मन्दिरे च वराहस्य कथ्यमानां कथां नृप ॥ ११-६ ॥
पुराणोक्तां च शुश्राव अशून्यशयनव्रतम् ॥
चतुर्भिः पारणैर्यस्य निष्पत्तिस्तु विधीयते ॥ ११-७ ॥
येन चीर्णेन देवेशो जीमूताभः प्रसीदति ॥
लक्ष्मीभर्ता जगन्नाथो निःशेषाघौघनाशनः ॥ ११-८ ॥
तत्कृतं भवता राजन्पुनरभ्येत्य मन्दिरम् ॥
अशून्यशयनं पुण्यं गृहे वृद्धिकरं परम् ॥ ११-९ ॥
अकृत्वेदं महाराज व्रतं पातकनाशनम् ॥
गार्हस्थ्यमनुतिष्ठेत वन्ध्यावन्निष्फलो भवेत् ॥
सुखमीदृग्विधं लोके दुर्लभं प्रतिभाति मे ॥ ११-१० ॥
श्रावणस्य तु मासस्य द्वितीययां महीपते ॥
ग्राह्यमेतद्व्रतं पुण्यं जन्ममृत्युजरापहम् ॥ ११-११ ॥
लक्ष्मीयुक्तो जगन्नाथः पूजनीयोऽत्र पार्थिव ॥
फलैः पुष्पैस्तथा धूपैश्चारुरक्तानुलेपनैः ॥
शय्यादानैर्वस्त्रदानैस्तथा ब्राह्मणभोजनैः ॥ ११-१२ ॥
तत्त्वया सर्वमेतद्धिकृतं राजन्सुदुस्तरम् ॥
तस्यैव कर्मणः पुष्टिरशून्यस्य महीपते ॥
इमानेवाग्रतः पुण्यास्त्वयोक्तान्विस्तराच्छृणु ॥ ११-१३ ॥
नाप्रसन्नें जगन्नाथे भवेयुरिति निश्चितम् ॥
पूर्वजन्मनि देवेशस्त्वयाशून्येन पूजितः ॥ ११-१४ ॥
इह जन्मनि राजेन्द्र द्वादश्यार्चयसे हरिम् ॥
अवश्यं प्राप्यसे राजन् विष्णोः सायुज्यतां ध्रुवम् ॥ ११-१५ ॥
एष प्रश्नो मया राजन्व्याख्यातस्ते सुमङ्गलः ॥
सम्पदां प्रभवोपेतो ज्ञातेरुत्कर्षणार्थकः ॥ ११-१६ ॥
किमन्यत्ते महीपाल ददामीह करोमि च ॥
अवश्यं सर्वयोग्योऽसि भक्तोऽसि त्वं जनार्दने ॥ ११-१७ ॥
राजोवाच ॥
उत्सुकोऽहं द्विजश्रेष्ठ मन्दरं पर्वतं प्रति ॥
तत्राश्चर्याण्यनेकानि द्रष्टुकामस्तवाज्ञया ॥ ११-१८ ॥
लघुर्भूत्वा गुरुं त्यक्त्वा पुत्रोपरि द्विजोत्तम ॥
राज्यशासनजं भारं दुर्वहं यच्च भूमिपैः ॥ ११-१९ ॥
सोऽहं स्वेच्छाचरो यातो मत्कृत्यं तनयश्चरेत् ॥
तछ्रुत्वा वचनं राज्ञो वामदेवोऽब्रवीदिदम् ॥ ११-२० ॥
एतद्धि परमं कृत्यं पुत्रस्य नृपपुङ्गवं ॥
यत्क्लेशात्पितरं प्रेम्णा विमोचयति सर्वदा ॥ ११-२१ ॥
पितुर्वचनकारी च मनोवाक्कायशक्तितः ॥
तस्य भागीरथीस्नानमहन्यहनि जायते ॥ ११-२२ ॥
निरस्य पितृवाक्यं तु व्रजेत्स्नातुं सुरापगाम् ॥
नो शुद्धिस्तस्य पुत्रस्य इतीत्थं वैदिकी श्रुतिः ॥ ११-२३ ॥
स त्वं गच्छ यथाकामं कृतकृत्योऽसि भूपते ॥
हरिप्रसादात्ते जातो वंशे पुत्रः स पुण्यकृत् ॥ ११-२४ ॥
एवमुक्ते तु मुनिना समारुह्य तुरङ्गमम् ॥
ययौ शीघ्रगतिः श्रीमान्सदागतिरिव स्वयम् ॥ ११-२५ ॥
वीक्ष्यमाणो गिरीन्सर्वान्वनानि सरितस्तथा ॥
सर्वाश्चर्याणि राजेन्द्रः सरांस्युपवनानि च ॥ ११-२६ ॥
सोऽचिरेणैव कालेन सम्प्राप्तो मन्दराचलम् ॥
भ्रामयित्वा गिरिं श्वेतं गन्धमादनमेव च ॥ ११-२७ ॥
अतीत्य च महामेरुं दृष्ट्वा चैवोत्तरान्कुरून् ॥
शतसूर्यप्रतीकाशं सर्वतः काञ्चनावृतम् ॥ ११-२८ ॥
सङ्घृष्टं हरिबाहुभ्यां स्रवन्तं काञ्चनं रसम् ॥
तद्भूभागं नगाकीर्णं बहुधातुविभूषितम् ॥ ११-२९ ॥
बहुनिर्झरसंयुक्तं बहुकन्दरभूषितम् ॥
निम्नागायुतसम्पूर्णं धौतं गङ्गाजलैः शुभैः ॥ ११-३० ॥
विश्वस्तैर्युवतीवृन्दैः कान्ताशर्मोपसेविभिः ॥
घटप्रमाणैर्नृपते परिपक्वैः सुगन्धिभिः ॥ ११-३१ ॥
फलैर्युवतिसम्भूतैः कुचैरिव विभूषितम् ॥
द्विरेफध्वनिसंयुक्तं कोकिलस्वरनादितम् ॥ ११-३२ ॥
अनेकसत्त्वविरुतैः समन्तान्नादितं गिरिम् ॥
सम्पश्यमानो नृपतिर्विवेश स महागिरिम् ॥ ११-३३ ॥
आरोढुकामस्तु कुतूहलात्तमन्वेषयन्केन पथा प्ररोहम् ॥
स वीक्षते यावदसौ समन्तात्तावत्समस्तं द्रुमपक्षिसङ्घम् ॥ ११-३४ ॥
विसर्पमाणं ध्वनिना गृहीतं विमोहिनीवक्त्रसमुद्भवेन ॥
उपप्लवन्तं तरसा महीपस्तेनैव सार्द्धं स जगाम तूर्णम् ॥ ११-३५ ॥
तस्याऽपि कर्णे ध्वनिराविवेश विमोहिनीवक्त्रसमुद्भवो यः ॥
विमोहितो येन विमुच्य वाहं त्रिविक्रमेणेव विलङ्घ्यमानम् ॥ ११-३६ ॥
मार्गं गिरेर्मोहिनिगीतमुग्धं क्षणेन राजा सहसा ददर्श ॥
गिरौ स्थितां तप्तसुवर्णभासं कामस्य यष्टीमिव निर्मितां च ॥ ११-३७ ॥
शक्रस्य लिङ्गं गगने प्रसक्तं सम्पूजयन्तीमिव लोकसूत्यै ॥
क्षमास्वरूपामिव वै रसाया गिरेः सुताया इव रूपराशिम् ॥ ११-३८ ॥
सिन्धोस्तु वेलामिव रूपयुक्तां तस्यास्तनुं वै रतिमन्दिराख्याम् ॥
विकर्षमाणां सहसा त्रिनेत्रं लिङ्गाश्रयं देवविनोदनार्थम् ॥ ११-३९ ॥
तत्पुण्यकर्त्तुर्मनसाभिलाषां व्यवस्थितो मोहिनिरूपदर्शी ।
विमोहितोऽसौ निपपात राजा विमोहिनीकामशरेण विद्धः ॥ ११-४० ॥
ज्वरेण तीव्रेण गृहीतदेहः समीपमस्याः स ससर्प शीघ्रम् ।
विसर्पिणं भूमिपतिं सुनेत्रा विलोकयामास कटाक्षदृष्ट्या ॥ ११-४१ ॥
विमुच्य वीणां विरराम गीताप्राप्तं च कार्यं सहसैव मेने ॥
विधूनयन्ती मृगपक्षिसघान्सुवाससा गण्डभुजौ निवार्य ॥ ११-४२ ॥
शिलीमुखान् श्वाससुगन्धमुग्धान् जगाम देवी नृपतेः समीपम् ॥
त्यक्त्वा हरं पूज्यतमं सुलिङ्गं गगत्वा तु पार्श्वे तमुदारचेष्टा ॥ ११-४३ ॥
विमोहिनी नीरजपत्रनेत्रा उवाच वाक्यं मधुरं मनोज्ञम् ॥
रुक्माङ्गदं कामशराभितप्तमुत्तिष्ठ राजन्वशगा तवाहम् ॥ ११-४४ ॥
किं मूर्च्छया देहमिमं क्षिणोषि यस्त्वं धराभारमिमं महान्तम् ॥
तृणीकृतं भूप समुद्वहेथा यन्मामकं रूपमवेक्ष्य हारि ॥ ११-४५ ॥
किं मुह्यसे दुर्बलगौरिवेह पङ्के निमग्ना भव त्वम् ॥
धीरोऽसि विडम्बयेथाः किमर्थमात्मानमुदारचेष्टम् ॥ ११-४६ ॥
यद्यस्ति वाञ्छा तव भूपतीश ममानुकूले सुरतेऽतिहृद्ये ॥
प्रदाय दानं च सुधर्ममुक्तं भुङ्क्ष्व स्वदासीमिव मां रतिज्ञाम् ॥ ११-४७ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरेभागे मोहिनीदर्शनं नाम एकादशोऽध्यायः ॥ ११ ॥