वसिष्ठ उवाच ॥
ततः प्राह विशालाक्षी भर्तुर्वाक्यं निशम्य सा ॥
सत्यमुक्तं त्वया राजन्पुत्रसौख्यात्परं सुखम् ॥ १०-१ ॥
न भवेदिह राजेन्द्र मुनीनां भाषितं यथा ॥
तुल्यं भवति लोकेऽस्मिन् विष्ण्वाख्यस्य परस्य हि ॥ १०-२ ॥
पुत्रे भारस्त्वया न्यस्तः सप्तद्वीपसमुद्भवः ॥
मार्गी हिंसां परित्यज्य यज्ञैरिष्ट्वा जनार्दनम् ॥ १०-३ ॥
भोगस्पृहां परित्यज्य सेवस्व सुरनिम्नगाम् ॥
एतन्न्याय्यं भवति भो न न्याय्यो मृगनिग्रहः ॥ १०-४ ॥
हृदये नखपातो हि वृद्धाया भूपते यथा ॥
तथा विषयसेवा हि पितॄणां पुत्रिणां विदुः ॥ १०-५ ॥
गृहे वापि हृषीकेशं पूजयस्व महीपते ॥
निर्दोषमृगयूथानां न युक्तं सूदनं तव ॥ १०-६ ॥
अहिंसा परमो धर्मः पुराणे परिकीर्तितः ॥
हिंसया वर्तमानस्य व्यर्थो धर्म्मोभवेदिति ॥
कुर्वन्नपि वृथा धर्मान्यो हिंसामनुवर्तते ॥ १०-७ ॥
परैरुपहतां भूप नोपभुञ्जन्ति साधवः ॥
षड्विधं नृप ते प्रोक्तं विद्वद्भिर्जीवघातनम् ॥ १०-८ ॥
अनुमोदयिता पूर्वं द्वितीयो घातकः स्मृतः ॥
विश्वासकस्तृतीयोऽपि चतुर्थो भक्षकस्तथा ॥
पञ्चमः पाचकः प्रोक्तः षष्ठो भूपात्र विग्रही ॥
हिं सया संयुतं धर्ममधर्मं च विदुर्बुधाः ॥ १०-९ ॥
न पापं कुरुते भूप पुत्रे भारं निवेश्य वै ॥
धर्मं समाश्रयमन्सम्यक्सञ्जातपलितः पिता ॥ १०-१० ॥
परित्यज्य इमं भावं मृगहिंसासमुद्भवम् ॥
मृगशीला हि राजानो विनष्टाः शतशो नृप ॥ १०-११ ॥
तस्माद्दुष्टं हि तन्मन्ये यत्र मृगपातनम् ॥
दया वरा मृगेराज्ञां धर्मिणामपि दृश्यते ॥ १०-१२ ॥
निवारितो मया हि त्वं हितबुद्ध्या पुनः पुनः ॥
एवं ब्रुवाणां तां भार्यां नृपो वचनमब्रवीत् ॥ १०-१३ ॥
नहिहिंसे मृगान्देवि मृगव्याजेन कानने ॥
पर्य्यटिष्ये धनुष्पाणिः कुर्वन्कण्टकशोधनम् ॥ १०-१४ ॥
जनमध्ये सुतो मेऽस्तु काननेऽहं वरानने ॥
श्वापदेभ्यश्च दस्युभ्यः प्रजा रक्ष्या महीभृता ॥ १०-१५ ॥
आत्मनावाथ पुत्रेण गोपनीयाः प्रजा शुभे ॥
प्रजा अरक्षन्नृपतिः सधर्म्मोऽपि व्रजत्यधः ॥ १०-१६ ॥
सोऽहं रक्षणमुद्दिश्यगमिष्यामि वनं प्रिये ॥
विमुक्तभावोऽहमिति मेरुश्रृङ्गे रविर्यथा ॥ १०-१७ ॥
एवमुद्दिश्य तां राजा आरुरोह हयोत्तमम् ॥
दोषापतिसमप्रख्यं निर्दोषं क्षितिभूषणम् ॥ १०-१८ ॥
देववाहसमं रूपे प्रभञ्जनसमं जवे ॥
धरामादृत्य भूपालो दत्वा तं दक्षिणं करम् ॥ १०-१९ ॥
सहस्रकोटिदातारं कामिनीकुचपीडनम् ॥
अशोकपल्लवाकारं वज्राङ्कुशविरोहणम् ॥ १०-२० ॥
सम्प्रतस्थे महीपालश्चालयानो महीतलम् ॥
साधयानो ययौ देशान्काननं स नृपोत्तमः ॥ १०-२१ ॥
वाजिवेगेन निर्द्धूता वारणाः स्यन्दना हयाः ॥
पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले ॥ १०-२२ ॥
स राजा सहसा प्राप्तो मुनीनामाश्रमं परम् ॥
योजनानां समुत्तीर्य शतमष्टोत्तरं नृप ॥ १०-२३ ॥
प्रविवेशाश्रमं रम्यं कदलीखण्डमण्डितम् ॥
अशोकबकुलोपेतं पुन्नागसरलावृतम् ॥ १०-२४ ॥
मातुलिङ्गैः कपित्थैश्च खर्जूरैः पनसादिभिः ॥
नारिकेलैस्तथा तालैः केतकैः सिन्दुवारकैः ॥ १०-२५ ॥
चन्दनैः सतमालैश्च सालैः पिप्पलचम्पकैः ॥
क्रमुकैर्दाडिमैश्चैव धात्रीवृक्षैः सहस्रशः ॥ १०-२६ ॥
निम्बवृक्षैश्च बहुशस्तथाम्रैर्लोध्रपादपैः ॥
परिपक्वफलैर्नम्रैः खगारूढैः समावृतम् ॥ १०-२७ ॥
ह्यद्येन वायुना युक्तं पुष्पगन्धावृतेन हि ॥
पश्यमानो मुनिं राजा ददर्श हुतभुक्प्रभम् ॥ १०-२८ ॥
वामदेवं द्विजवरं बहुशिष्यसमावृतम् ॥
अवरुह्य हयाद्दृष्ट्वा प्रणनाम च सादरम् ॥ १०-२९ ॥
तेनापि मुनिना राजा ह्यर्घाद्यैरभिपूजितः ॥
उपविश्यासने कौशे प्राह संहृष्टया गिरा ॥ १०-३० ॥
अद्य मे पातकं क्षीणं सम्प्राप्तं कर्मणः फलम् ॥
दृष्ट्वा तव पदाम्भोजं सम्यग्ध्यानपरस्य च ॥ १०-३१ ॥
तच्छ्रुत्वा वचनं तस्य रुक्माङ्गदमहीपतेः ॥
सम्पृष्ट्वा कुशलं प्राह वामदेवो मुदान्वितः ॥ १०-३२ ॥
राजंस्त्वयातिपुण्येन विष्णुभक्तेन वीक्षितः ॥
ममाश्रमो महाभाग पुण्यो जातो धरातले ॥ १०-३३ ॥
कस्तेऽन्यस्तुल्यतामेति पार्थिवो धरणीतले ॥
येन वैवस्वतो माग्रो भग्नो निर्जित्य वै यमम् ॥ १०-३४ ॥
प्रापितः सकलो लोको वैकुण्ठं पदमव्ययम् ॥
उपोषयित्वा नृपतेद्वादशीं पापनाशिनीम् ॥ १०-३५ ॥
चतुर्भिः शोभनोपायैः प्रजाः सयम्य भूतले ॥
स्वकर्मस्था विकर्मस्था नीता मधुभिदः पदम् ॥ १०-३६ ॥
सोऽस्माकं द्रष्टुकामानां सम्प्राप्तो दर्शनं नृप ॥
श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः ॥ १०-३७ ॥
विष्णुभक्तिविहीनस्तु द्विजोऽपि श्वपचाधिकः ॥
दुर्लभा भूप राजानो विष्णुभक्ता महीतले ॥ १०-३८ ॥
नावैष्णवो भवेद्राजा क्षितिलक्ष्मीप्रसाधकः ॥
यो न राजा हरेर्भक्तो देवेष्वन्येषु भक्तिमान् ॥ १०-३९ ॥
यथा जारे पतिं त्यक्त्वा रता स्त्री स तथा नृपः ॥
एवं व्यतिक्रमस्तस्य नृपतेर्भवति ध्रुवम् ॥ १०-४० ॥
धर्मस्यार्थस्य कामस्य प्रज्ञायाश्च गतेरपि ॥
तत्त्वया न्यायविहितं कृतं विष्णोः प्रपूजनम् ॥ १०-४१ ॥
तेन धन्योऽसि नृपते वयं धन्यास्तवेक्षणात् ॥
इत्येवं भाषमाणं तु वामदेवं नृपोत्तमः ॥ १०-४२ ॥
उवाचावनतो भूत्वा प्रकृत्या विनयान्वितः ॥
क्षामये त्वा द्विजश्रेष्ठ नाहमेतादृशो विभो ॥ १०-४३ ॥
त्वत्पादपांसुना तुल्यो नाहं विप्र भवामि हि ॥
न विप्रेभ्योऽधिका देवा भवन्तीह कदाचन ॥ १०-४४ ॥
परितुष्टैर्द्विजैर्भक्तिर्जन्तोर्भवति माधवे ॥
द्वेष्यो भवति तै रुष्टैः सत्यमेतन्मयेरितम् ॥ १०-४५ ॥
तमाह वामदेवस्तु ब्रूहि किं ते ददाम्यहम् ॥
नादेयं विद्यते राजन्गृहायातस्य तेऽधुना ॥ १०-४६ ॥
अभीष्टं हि महीपाल यो ददाति महीतले ॥
पटहं वासरे विष्णोः प्रजाभोजनवारणम् ॥ १०-४७ ॥
तमाह नृपतिर्विप्रं कृताञ्जलिपुटस्तदा ॥
प्राप्तमेव मया सर्वं त्वदङ्घ्रियुगलेक्षणात् ॥ १०-४८ ॥
ममैकः संशयो ब्रह्मन् वर्तते बहुकालतः ॥
तं पृच्छामि द्विजाग्र्यं त्वां सर्वसन्देहभञ्जनम् ॥ १०-४९ ॥
त्रैलोक्यसुन्दरी भार्या मम केन सुकर्मणा ॥
या विलोकयते दृष्ट्या मां सदा मन्मथाधिकम् ॥ १०-५० ॥
यत्र यत्र पदं देवी ददाति वरवर्णिनी ॥
तत्र तत्र निधानानि प्रकाशयति मेदिनी ॥ १०-५१ ॥
यस्याश्चाङ्गं जराहीनं वलीपलितवर्जितम् ॥
सदा भाति मुनिश्रेष्ठ शारदेन्दुप्रभा यथा ॥ १०-५२ ॥
विनाग्निनापि सा विप्र साधयत्येव षड्रसम् ॥
अन्नं पचति यत्स्वल्पं तस्मिन्भुञ्जन्ति कोटयः ॥ १०-५३ ॥
पतव्रता दानशीला सर्वभूतसुखावहा ॥
नावज्ञा क्रियते ब्रह्मन् वाक्येनापि प्रसूप्तया ॥ १०-५४ ॥
यस्यां जातस्तु तनयो ममाज्ञायां स्थितः सदा ॥
अहमेव धरापृष्ठे पुत्री द्विजवरोत्तम ॥ १०-५५ ॥
यस्य पुत्रः पितुर्भक्तो ह्यधिको गुणसञ्चयैः ॥
एकद्वीपपतिश्चाहं विदितो धरणीतले ॥ १०-५६ ॥
पुत्रो ममाधिको जातः सप्तद्वीपप्रपालकः ॥
मदर्थे येन विप्रेन्द्र समानीता नृपात्मजा ॥ १०-५७ ॥
विद्युल्लेखेति विख्याता रणे जित्वा महीभुजः ॥
अथ तेनाधिपतिना रूपद्रविणशालिना ॥ १०-५८ ॥
षण्मासेन रणे जित्वा कृत्वा सर्वान्निरायुधान् ॥
यो गत्वा प्रमदाराज्यं जित्वा ताः प्रमदा रणे ॥ १०-५९ ॥
आजहार शुभास्तासां मध्यादष्टौ वराङ्गनाः ॥
प्रददौ मयि ताः सर्वाः प्रणम्य च पुनः पुनः ॥ १०-६० ॥
यानि वासांसि दिव्यानि यानि रत्नानि भूतले ॥
तानि मे प्रददौ पुत्रो जनन्या तूपवर्णितः ॥ १०-६१ ॥
एकाह्ना पृथिवीं सर्वामतीत्य बहुयोजनाम् ॥
पुनरायाति शर्वर्यां मत्पादाभ्यङ्गकारणात् ॥ १०-६२ ॥
निशीथेंऽगानि संवाह्य द्वारि तिष्ठति दंशितः ॥
प्रबोधयन्प्रेष्यजनान्निद्रया सङ्कुलेन्द्रियान् ॥ १०-६३ ॥
तथायं मे मुनिश्रेष्ठ देहो रोगविवर्जितः, ॥
अप्रमेयं मम सुखं वशगा हि प्रिया गृहे ॥ १०-६४ ॥
वाजिनो वारणाश्चैव धनधान्यमनन्तकम् ॥
वर्तते हि जनः सर्वो ममाज्ञापालकः क्षितौ ॥ १०-६५ ॥
केन कर्मप्रभावेण ममेदं साम्प्रतं सुखम् ॥
इह जन्मकृतं वापि परजन्मकृतं तथा ॥ १०-६६ ॥
मम पुण्यं वद ब्रह्मन् विचार्य स्वमनीषया ॥ १०-६७ ॥
देहे न रोगो वशगाप्रिया च गृहे विभूतिर्नृहरौ च भक्तिः ॥
विद्वत्सु पूजा द्विजदानशक्तिर्मन्येऽहमेतत्सुकृतप्रसूतम् । १०-६८ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्माङ्गद वामदेवसंवादो नाम दशमोऽध्यायः ॥ १० ॥