सौतिरुवाच ॥
रुक्माङ्गदस्तु राजेन्द्रो भुक्त्वा भोगांस्तुमानुषान् ॥
सम्पूज्य बहुशो देवं पीताम्बरधरं हरम् ॥ ९-१ ॥
दत्वा मूर्ध्नि पदं विप्राः शत्रीणां रणशालिनाम् ॥
कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम् ॥ ९-२ ॥
वैकुण्ठस्य तु पन्थानं सम्पूर्णं मानवैः कृतम् ॥
आहूय तनयं काले धर्माङ्गदमभाषत ॥ ९-३ ॥
एतां वसुमतीं पुत्र वसुपूर्णां समन्ततः ॥
परिपालय वीर्येण स्वधर्मे कृतनिश्चयः ॥ ९-४ ॥
पुत्र समर्थे जाते यो राज्यं न प्रतिपादयेत् ॥
तस्य धर्मस्तथा कीर्तिर्विनस्यति न संशयः ॥ ९-५ ॥
समर्थेन च पुत्रेण यो न याति पिता सुखम् ॥
अवश्यं पातकी सोऽपि विज्ञेयो भुवनत्रये ॥ ९-६ ॥
पितुर्भारक्षमः पुत्रो भारं नोद्वहते तु यः ॥
मातुरुच्चारवज्जातो द्विजिह्वो विषवर्जितः ॥ ९-७ ॥
स पुत्रो योऽधिकख्यातः पितुर्भवति भूतले ॥
प्रकाशयति सर्वत्र स्वकरैरिव भास्करः ॥ ९-८ ॥
पुत्रापनयजैर्दुःखै रात्रौ जागर्तिं यत्पिता ॥
स पुत्रो नरकं याति यावदाभूतसम्प्लवम् ॥ ९-९ ॥
पितुर्वचनमादृत्य सर्वं यः कुरुते गृहे ॥
स याति देव सायुज्यं स्तूयमानो दिवि स्थितैः ॥ ९-१० ॥
सोऽहं प्रजाकृते पुत्र आसक्तः कर्मभिः क्षितौ ॥
न भुक्तं नैव सुप्तं तु स्वेच्छया पालने स्थितः ॥ ९-११ ॥
असमर्थे त्वयि सुत न प्राप्तं हि मया सुखम् ।
विष्णुवासरभोक्तॄणां निग्रहे कृतबुद्धिना ॥ ९-१२ ॥
केचिच्छैवे स्थिता मार्गे सौरे केचिद्व्यवस्थिताः ॥
विरिञ्चिमार्गगाश्चान्ये पार्वत्याश्च स्थिताः परे ॥ ९-१३ ॥
सायं च प्रातरासीना अग्निहोत्रे व्यवस्थिताः ॥
बालो युवा वा वृद्धो वा गुर्विणी वा कुमारिका ॥ ९-१४ ॥
सरोगो विकलो वापि न शक्नोति ह्युपोषितुम् ॥
इत्येवं जल्पितं यैस्तु तान्निरस्य समन्ततः ॥ ९-१५ ॥
वचोभिस्तु पुराणोक्तैर्वासरैर्बहुभिस्त्वहम् ॥
सम्बोधयित्वा बहुशः प्रजानां सुखहेतवे ॥ ९-१६ ॥
निगृह्य तान्हरिदिने निराहारान्करोमि च ॥
शास्त्रदृष्ट्या तु विदुषो मूर्खान्दण्डनपूर्वकम् ॥ ९-१७ ॥
शासयित्वा कृताः सर्वे निराहारा हरेर्दिने ॥
तेन मे न सुखं किञ्चिदवलीढं धरातले ॥ ९-१८ ॥
कच्चिन्न दुःखेन जनान्योजयेत्किल पुत्रक ॥
स्वेभ्यो वापि परेभ्यो वा या रक्षेच्च प्रजा नृपः ॥ ९-१९ ॥
तस्यामी ह्यक्षया लोकाः पुराणेषु प्रकीर्तिताः ॥
सोऽहं प्रजाकृते सौम्य संस्थितो नात्मनः क्वचित् ॥ ९-२० ॥
सौख्यमिच्छाम्यहं भोक्तुं मृगयादिसमुद्भवम् ॥
न पानद्यूतजं पुत्र कामयेऽहं कदाचन ॥ ९-२१ ॥
एषु सक्तोऽचिरात्पुत्र विनाशं याति पार्थिवः ॥
त्वत्प्रसादादहं पुत्र मृगयाव्याजतोऽधुना ॥ ९-२२ ॥
गिरीन्वनानि सरितः सरांसि विविधानि च ॥
भोक्तुकामः प्रियान्कामांस्त्वयि भारं निवेश्य च ॥ ९-२३ ॥
एतत्सर्वं समाख्यातं यत्स्थितं हृदये मम ॥
कृते तव महाकीर्तिरकृते नरकस्थितिः ॥ ९-२४ ॥
धर्माङ्गद उवाच ॥
सर्वमेतत्करिष्यामि भुङ्क्ष्व भोगान्मनोऽनुगान् ॥
गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम् ॥ ९-२५ ॥
नहि मेऽन्यः स्मृतो धर्मस्त्वद्वाक्यकरणं विना ॥
पितुर्वाक्यमकुर्वाणः कुर्वन्धर्मानधो व्रजेत् ॥ ९-२६ ॥
तस्मात्करिष्ये वचनं त्वदीयं प्राञ्जलिः स्थितः ॥
एवमुक्ते तु वचने राजा हृष्टो बभूव ह ॥ ९-२७ ॥
गन्तुकामो मृगान्भूयो लब्ध्वा ज्ञात्वा वनं ततः ॥
धर्माङ्गदोऽपि दृष्टात्मा प्रजा आहूय चाब्रवीत् ॥ ९-२८ ॥
पित्रा नियुक्तो भवतां पालनाय हिताय च ॥
पितुर्वाक्यं मया कार्यं सर्वथा धर्ममिच्छता ॥ ९-२९ ॥
नान्यो हि धर्मः पुत्रस्य पितुर्वाक्यं विना प्रजाः ॥
मयि दण्डधरे शास्ता न यमो भवति क्वचित् ॥ ९-३० ॥
एवं ज्ञात्वा तु युष्माभिः स्मर्तव्यो गरुडध्वजः ॥
ब्रह्मार्पणप्रयोगेण यजनीयो जनार्दनः ॥ ९-३१ ॥
ममत्वं हि परित्यज्य स्वजातिविहितेन च ॥
येन वो ह्यक्षया लोका भवेयुर्नात्र संशयः ॥ ९-३२ ॥
पितृमार्गाधिको ह्येष भवतां दर्शितः प्रजाः ॥
ब्रह्मार्पणक्रियायुक्ता भवन्तु ज्ञानकोविदाः ॥ ९-३३ ॥
न भोक्तव्यं हरिदिने पैत्रो मार्गस्तु शाश्वतः ॥
विशेषो हि मयाख्यातो भवतां ब्रह्मसंस्थितिः ॥ ९-३४ ॥
प्रयोक्तव्या च तत्त्वज्ञैः पुनरावृत्ति दुर्लभा ॥
यदुपोष्यं हरिदिनं तदवश्यमिति स्थितिः ॥ ९-३५ ॥
अनुनीय प्रजाः सर्वाः समाश्वात्य पुनः पुनः ॥
न दिवा न च शर्वर्यां शेते धर्मां गदः सदा ॥ ९-३६ ॥
सर्वत्र भ्रमते शौर्यात्कुर्वन्निष्कण्टकां क्षितिम् ॥
पटहो रटते नित्यं मृगारिरिपुमस्तके ॥ ९-३७ ॥
अभुक्त्वा द्वादशीं लोका ममत्वेन विवर्जिताः ॥
त्रिविधेषु च कार्येषु देवेशश्चिन्त्यतां हरिः ॥ ९-३८ ॥
हव्यकव्यवहो देवः स एव पुरुषोत्तमः ॥
सूर्ये यो हि कृशाकाशे विसर्गे जगतां पतिः ॥ ९-३९ ॥
स्मर्त्तव्यो मनुजैः सर्वैर्धर्मकामार्थकामुकैः ॥
स्वजातिविहितोऽप्येवं सन्मार्गे चैव माधवः ॥ ९-४० ॥
स एव भोक्ता भोक्तव्यः स एव पुरुषोत्तमः ॥
विनियोगस्तु तस्यैव सर्वकर्मसु युज्यते ॥ ९-४१ ॥
एवं रटन्ति विप्रेन्द्राः पटहे मेघनिःस्वने ॥
एवं धर्ममवाप्याथ पितां धर्माङ्गदस्य हि ॥ ९-४२ ॥
ज्ञात्वा पुत्रं क्रियोपेतमात्मनो ह्यधिकं द्विजाः ॥
उवाच भार्यां संहृष्टः स्थितां लक्ष्मीमिवापराम् ॥ ९-४३ ॥
सन्ध्यावलि ह्यहं धन्यस्त्वं चापि वरवर्णिनी ॥
उभयोर्जनितः पुत्रः शशाङ्कधवलः क्षितौ ॥ ९-४४ ॥
कर्णाभ्यां श्रूयते मोक्षो न दृष्टः केनचित्क्वचित् ॥
सोऽस्माभिरधिकं प्राप्तो मोक्षः सत्पुत्रसम्भवः ॥ ९-४५ ॥
पुत्रे विनयसम्पन्ने वृत्ताशौर्यसमन्विते ॥
प्रतापिनि वरारोहे पितुर्मोक्षो गृहे ध्रुवम् ॥ ९-४६ ॥
आनन्दं ब्रह्मणो रूपं शतानन्दः सुतेन यः ॥
पिता भवति चार्वङ्गि सत्कर्मकरणैः शुभैः ॥ ९-४७ ॥
नैतत्साम्यं भवेद्देवि लोके स्थावरजङ्गमे ॥
सत्पुत्रः पितुरादाय भारमुद्वहते तु यः ॥ ९-४८ ॥
सोऽहं गमिष्यामि वनाय हृष्टो विहारशीलो मृगहिंसनाय ॥
स्वेच्छाचरश्चाथ विशालनेत्रे विमुक्तपापो जनरक्षणाय ॥ ९-४९ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरेभागे रुक्माङ्गदधर्माङ्गदसंवादो नाम नवमोऽध्यायः ॥ ९ ॥