यम उवाच ॥
प्राप्तं तात मया सार्द्धं वेदाङ्घ्रिनमने हितम् ॥
नाहं गच्छामि योगान्तं पुनरेव जगत्पते ॥ ७-१ ॥
प्रशासति महीं भूपेहाटकाङ्गदसञ्ज्ञके ॥
तमेकं देवताश्रेष्ठं सम्प्राप्ते हरिवासरे ॥ ७-२ ॥
यदि चालयसे धैर्यात्ततोऽहं तव किङ्करः ॥
स मे शत्रुर्महान्देव तेन लुप्तः पटो मम ॥ ७-३ ॥
तमेकं भोजयित्वा तु कार्ष्णेऽहनि महीपतिम् ॥
कृतकृत्यो भविष्यामि गयापिण्डप्रदो यथा ॥ ७-४ ॥
अद्य प्रभृति देवेशोयैर्नरैः संस्मृतो हरिः ॥
उपोषितः स्तुत्वोपि न नियम्या मया हि ते ॥ ७-५ ॥
हरिरिति सहसा ये सङ्गृणन्तिच्छलेन जननिजठरमार्गात्ते विमुक्ते विमुक्ता हि मर्त्याः ॥
मम पटविलिपिं ते नो विशन्ति प्रवीणा दिविचरवरसङ्घैस्ते नमस्या भवन्ति ॥ ७-६ ॥
सौतिरुवाच ॥
वैवस्वतस्य कार्येण तत्सम्मानचिकीर्षया ॥
चिन्तयामास देवेशो विरिञ्चिः कुशलाञ्छनः ॥ ७-७ ॥
चिन्तयित्वा क्षणं देवः सर्वभूतैश्च भूषितः ॥
भूतत्रासनमात्रं तु रूपं स जगृहे विभुः ॥ ७-८ ॥
तस्मिन्नुत्पादयामास प्रमदां लोकमोहिनीम् ॥
सर्वयोषिद्वरा देवीमनसा निर्भिता बभौ ॥ ७-९ ॥
सा बभूवाग्रतस्तस्य सर्वालङ्कारभूषिता ॥
दृष्ट्वा पितामहस्तां तु रूपद्रविणसंयुताम् ॥ ७-१० ॥
प्राहेमान् पश्यतो ह्येतां स्वकान्वै काममोहितान् ॥
प्रत्यवायभयाद्ब्रह्या चक्षुषी सन्न्यमीलयत् ॥ ७-११ ॥
सरागेणेह मनसा सरागेणेह चक्षुषा ॥
चिन्तयेद्वीक्षयेद्वापि जननीं वा सुतामपि ॥ ७-१२ ॥
वधूं वा भ्रातृजायां वा गुरोभार्यां नृपस्त्रियम् ॥
स याति नरकं घोरं सञ्चिन्त्य श्वपचीमपि ॥ ७-१३ ॥
दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः ॥
तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा ॥ ७-१४ ॥
प्रसङ्गे दशसाहस्रं पुण्यमायाति सङ्क्षयम् ॥
पुण्यस्य सङ्क्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम् ॥ ७-१५ ॥
तस्मान्न चिन्तयेत्प्राज्ञो ह्येता रागेण चक्षुषा ॥
जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः ॥ ७-१६ ॥
सुतैस्त्वभ्यङ्गकरणे पुनर्यौवनसंस्थितैः ॥
षष्ट्यतीतां सुतोऽभ्यङ्गे नियुञ्जीत विचक्षणः ॥ ७-१७ ॥
वृद्धो वापि युवा वापि न पादौ धावयेद्वधूम् ॥
उभयोः पतनं प्रोक्तं रौरवेऽङ्गारसञ्चये ॥ ७-१८ ॥
या वधूर्दर्शयेदङ्गं विवृतं श्वशुरस्य हि ॥
पाणिपादाहता राजन् क्रिमिभक्ष्या भवेत्तु सा ॥
वधूहस्तेन यः पापः पादशौचं करोति हि ॥ ७-१९ ॥
स्नानं वाप्यथवाभ्यङ्गं तस्याप्येवंविधा गतिः ॥
सूचीमुखैः कृष्णवक्रैःर्भुज्यते कल्पसंस्थितिम् ॥ ७-२० ॥
तस्मान्न वीक्षयेन्नारीं सुतां वापि वधूं नरः ॥
साभिलाषेण मनसा तत्क्षणात्पतते नरः ॥ ७-२१ ॥
एवं सञ्चिन्तयित्वा च सूक्ष्मां दृष्टिं चकार ह ॥
यदिदं वर्तुलं वक्त्रं सोन्नतं दृश्यते शुभम् ॥ ७-२२ ॥
अस्थिपञ्जरमेतद्धि चर्ममांसावृतं त्विति ॥
वसा मेदोऽथ नयने सोज्वले स्त्रीषु संस्थिते ॥ ७-२३ ॥
अत्युच्छ्रितमिदं मांसं स्तनयोः समवस्थितम् ॥
निम्नांशतां दर्शयति त्रिवली जठरस्थिता ॥ ७-२४ ॥
पुनरेवाधिकं क्षिप्तं मांसं जघनवत्मनि ॥
मूत्रद्वारमिदं गुह्यं यत्र मुग्धं जगत्त्रयम् ॥ ७-२५ ॥
अपानवायुना जुष्टं सदैव प्रतिकुत्सितम् ।
भस्त्रावर्गाधिकं क्षिप्तं मांसं जघनवर्त्मनि ॥ ७-२६ ॥
कृतं यद्विद्द्विधा काष्ठं तद्वज्जङ्घा द्विधा ध्रुवम् ॥
शुक्रास्थिपूरितं मांसैः कथं सुन्दरतां व्रजेत् ॥ ७-२७ ॥
मांसमेदोवसासारे किं सारं देहिनां वद ॥
विष्ठामूत्रमलैः पुष्टे को देहे रज्यते नरः ॥ ७-२८ ॥
एवं विचार्य बहुधा विरिञ्चिर्ज्ञानचक्षुषा ॥
धैर्यं कृत्वा च नारीं तामुवाच गजगामिनीम् ॥ ७-२९ ॥
यथाहि मनसा सृष्टा मया त्वं वरवर्णिनी ॥
तथा भूतासि चार्वङ्गि मानसोन्मादकारिणी ॥ ७-३० ॥
तमुवाच तदा सा तु प्रणम्य चतुराननम् ॥
पश्य मूर्छान्वत्नान्थ जगत्स्थावरजङ्गमम् ॥ ७-३१ ॥
मोहितं मम रूपेण सयोगि यदकल्मषम् ॥
स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात् ॥ ७-३२ ॥
भवन्तमादितः कृत्वा न क्षोभं याति पद्मज ॥
आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता ॥ ७-३३ ॥
स्तवनान्नरकं याति विशुद्धोऽपि च मानवः ॥
तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना ॥ ७-३४ ॥
साहं सृष्टा त्वया ब्रह्मन् कस्यचित्क्षोभणाय वै ॥
तमादिश जगन्नाथ क्षोभयिष्ये न संशयः ॥ ७-३५ ॥
मां दृष्ट्वापि क्षितौ देव भूधरश्चापि मुह्यति ॥
किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति ॥ ७-३६ ॥
तथा चोक्तं पुराणेषु नारीवीक्षणवर्णनम् ॥
उन्मादकरणं नॄणां दुश्चरव्रतनाशनम् ॥ ७-३७ ॥
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ॥
भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ७-३८ ॥
धिक्तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति ॥
भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के ॥ ७-३९ ॥
पीतं हि मद्यं मनुजेन नाथ करोति मोहं सुविचक्षणस्य ॥
स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि ॥ ७-४० ॥
मोहनार्थं त्वया सृष्टा नराणां प्रपितामह ॥
तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम् ॥ ७-४१ ॥
ब्रह्मोवाच ॥
सत्यमुक्तं त्वया देवि नासाध्यं भुवनत्रये ॥
नागनासोरु सुभगे मत्तमातङ्गगामिनि ॥ ७-४२ ॥
या त्वं दूषयसे चेतो ममापि वरवर्णिनि ॥
तन्मया सुगृहीतं तु कृतं ज्ञानाङ्कुशेन हि ॥ ७-४३ ॥
सा त्वं कथं न लोकानां चेतांस्यपहरिष्यसि ॥
सत्यमेतद्विशालाक्षि तव रूपं विमोहनम् ॥ ७-४४ ॥
सामरं हि जगत्सर्वं निश्चेष्टमपि लक्षये ॥
यन्निमित्तं मया सृष्टा तत्साधय वरानने ॥ ७-४५ ॥
वैदिशे नगरे राजा नाम्ना रुक्माङ्गदः क्षितौ ॥
यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे ॥ ७-४६ ॥
यस्यां धर्माङ्गदो जातो पितुरत्यधिकः सुतः ॥
दशनागायु तबलः प्रतापेन रविर्यथा ॥ ७-४७ ॥
यः क्षान्त्या धरया तुल्यो गाम्भीर्ये साङ्गरोपमः ॥
तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः ॥ ७-४८ ॥
त्यागे वैरौचनिर्यद्वद्गतौ हि पवनोपमः ॥
सौम्यत्वे शशितुल्यस्तु रूपवान् मन्मथो यथा ॥ ७-४९ ॥
जीवभार्गवयोस्तुल्यो यो नीतौ राजनन्दनः ॥
पित्रा भुक्तं समस्तैकं जम्बूद्वीपं वरानने ॥ ७-५० ॥
धर्माङ्गदेन द्वीपानि सञ्जितान्यपराण्यपि ॥
पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम् ॥ ७-५१ ॥
स्वयं प्राप्ताः परित्यक्ता येन भार्याः सहस्रशः ॥
यो न वाक्याद्विचलते सहैव हि पितुर्गृहे ॥ ७-५२ ॥
यस्य वै त्रीणि सुभगे मातॄणां चारुहासिनि ॥
शतानि कनकाभासे त्वविशेषेण पश्यति ॥७-५३ ॥
तस्य धर्मप्रधानस्य पुत्ररत्नाञ्चितस्य च ॥
समीपं गच्छ चार्वङ्गि मन्दरे पर्वतोत्तमे ॥ ७-५४ ॥
तत्र वत्स्यति राजा वै तुरगेणातिवाहितः ॥
तव गीतेन चार्वङ्गि मोहितोऽश्वं विहाय च ॥ ७-५५ ॥
अधिरुह्य गिरेः पृष्ठं स सङ्गं यास्यति त्वया ॥
तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह ॥ ७-५६ ॥
अहं भार्या भविष्यामि तव राजन्न संशयः ॥
यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम् ॥ ७-५७ ॥
मोहितस्तव रूपेण तथैव प्रतिपद्यते ॥
यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै ॥ ७-५८ ॥
वाच्यः कतिपयैः सुभ्रु दिनैरपगतैस्त्विति ॥
सुरते तव चार्वङ्गि यदा मुग्धो हि लक्ष्यते ॥ ७-५९ ॥
तदा प्रहस्य राज्ञो वै स्मारणीयं पुरा वचः ॥
यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने ॥ ७-६० ॥
तत्पालयमहीपाल मन्येऽहं समयस्त्विति ॥
एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात् ॥ ७-६१ ॥
पालयामि न सन्देहो ब्रूहि किं ते ददाम्यहम् ॥
एवमुक्ते तु वचने त्वया वाच्यो वरानने ॥ ७-६२ ॥
रुक्माङ्गदो महीपालो धर्माङ्गदपिता शुभे ॥
नोपवासस्त्वया कार्यो जातु वै हरिवासरे ॥ ७-६३ ॥
सुरतस्रं सकारी मे ह्युपवासो भवेत्प्रिय ॥
सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते ॥ ७-६४ ॥
पर्वापेक्षी दुराचारः स याति नरकं ध्रुवम् ॥
त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात् ॥ ७-६५ ॥
नाहं निमेषमप्येकं स्थातुं शक्ता त्वया विना ॥
श्राद्धकाले तु सम्प्राप्ते उपाविष्टैर्द्विजैः किल ॥ ७-६६ ॥
याचते सङ्गमं भार्या यदि भोग्या तदैव सा ॥
एवं सम्बोध्यमानोऽपि यदा राजा वचस्तव ॥ ७-६७ ॥
न करिष्यति चार्वङ्गि तदा वाच्यं परं वचः ॥
यदि न त्यजसे राजन्नुपवासं हरेर्दिने ॥ ७-६८ ॥
स्वहस्तेन शिरश्च्छित्वा स्वपुत्रस्य वरासिना ॥
धर्माङ्गदस्य राजेन्द्र ममोत्सङ्ग्क्षिप स्वयम् ॥ ७-६९ ॥
यद्येतन्मत्प्रियं त्वं हि न करोषि महीपते ॥
धर्मक्षीणो भवान् गन्ता नरके नात्र संशयः ॥ ७-७० ॥
श्रुत्वा त्वदीयं वचनं वराङ्गने न हिंस्यते प्राणसमं च पुत्रम् ॥
सङ्गृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरेऽसौ ॥ ७-७१ ॥
ततो जनो यास्यति पूर्ववच्च यमान्तिकं किङ्करपाशबद्धः ॥
लिपिप्रमाणं नरकाधिवासी भविष्यते साधु कृतं त्वया हि ॥ ७-७२ ॥
अथ यदि निहन्ति तनयं राजा सत्येन संयुतः श्रीमान् ॥
निःशेषामरपूज्यं व्रजति पदं पद्मनाभस्य ॥ ७-७३ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीं प्रति ब्रह्मवाक्यं नाम सप्तमोऽध्यायः ॥ ७ ॥