ब्रह्मोवाच ॥
किमाश्चर्यं त्वया दृष्टं कथं वा खिद्यते भवान् ॥
सद्गुणेषु च सन्तापः स तापो मरणान्तिकः ॥ ६-१ ॥
यस्योच्चारणमात्रेण प्राप्यते परमं पदम् ॥
तमुपोष्य कथं सौरे न गच्छति नरस्त्विति ॥ ६-२ ॥
एको हि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ॥
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ ६-३ ॥
कुरुक्षेत्रेण किं तस्य किं काश्या विरजेन वा ॥
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ ६-४ ॥
ब्राह्मणः श्वपचीं गच्छन् विशेषेण रजस्वलाम् ॥
अन्नमश्नन्सुरापक्वं मरणे यो हरिं स्मरेत् ॥ ६-५ ॥
अभक्ष्यागम्ययोर्जातं विहाय पापसञ्चयम् ॥
स याति विष्णुसायुज्यं विमुक्तो भवबन्धनैः ॥ ६-६ ॥
यन्नामोच्चारणान्मोक्षः कथं न तदुपोषणे ॥
यस्मिन्सङ्गीयते सोऽपि चिन्त्यते पुरुषोत्तमः ॥ ६-७ ॥
लीलया चोच्चरेद्देवं श्रृणुयाच्च जनार्दनम् ॥
गङ्गाम्भः पूतपुण्यत्वे स नरः समतां व्रजेत् ॥ ६-८ ॥
अस्माकं जगतान्नाथो जन्मदः पुरुषोत्तमः ॥
कथं शासति दुर्मेधास्तस्य वासरसेविनम् ॥ ६-९ ॥
यस्त्वं न चूर्णितस्तैस्तु यस्त्वं बद्धो न तैर्दृढम् ॥
तदस्माकं कृतं मानं मे तत्त्वं नावबुध्यसे ॥ ६-१० ॥
यो नियोगी न जानाति नृपभक्तान्वरान् क्षितौ ॥
कृत्स्नायासेन संयुक्तः स तैर्निग्राह्यते पुनः ॥ ६-११ ॥
राजेष्टा न नियोक्तव्याः सापराधा नियोगिना ॥
स्वामिप्रसादात्सिद्धास्ते विनिन्युर्व्वै नियोगिनम् ॥ ६-१२ ॥
एवं हि पापकर्तारः प्रणता ये जनार्दने ॥
कथं संयमिता तेषां बाल्याद्भास्करनन्दन ॥ ६-१३ ॥
शैवैर्भास्करभक्तैर्वा मद्भक्तैर्वा दिवाकरे ॥
करोमि तव साहाय्यं हरिभक्तैर्न भास्करे ॥ ६-१४ ॥
सर्वेषामेव देवानामादिस्तुपुरुषोत्तमः ॥ ६-१५ ॥
मधुसूदनभक्तानां निग्रहो नोपपद्यते ॥
व्याजेनापि कृता यैस्तु द्वादशी पक्षयोर्द्वयोः ॥ ६-१६ ॥
तैः कृते अवमाने तु तव नाहं सहायवान् ॥
कृते सहाये तव सूर्यसूनो भवेदनीतिर्मम देहघातिनी ।
विपर्ययो ब्रह्मपदात्सुपुण्यात्कृतेव मार्गे सह विष्णुभक्तैः ॥ ६-१७ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे ब्रह्मवाक्यं नाम षष्ठोऽध्यायः ॥ ६ ॥