००४

यम उवाच ॥
श्रृणु मे वचनं नाथ पितामह पितामह ॥
मरणादधिकं देव यत्प्रतापस्य खण्डनम् ॥ ४-१ ॥

निस्पृहो नाचरेद्यस्तु नियोगं पद्मसम्भव ॥
अन्धकूपे निपतति स चाशु नरके ध्रुवम् ॥ ४-२ ॥

नियोगी न नियोगं यः करोति कमलासन ॥
प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः ॥ ४-३ ॥

योऽश्नाति लोभाद्वित्तानि प्रजाभ्यो वा महीपतेः ॥
नियोगी नरकं याति यावत्कल्पशतत्रयम् ॥ ४-४ ॥

आत्मकार्यपरो यस्तु स्वामिनं च विलुम्पति ।
भवेद्वेश्मनि मन्दात्मा आखुः कल्पशतत्रयम् ॥ ४-५ ॥

नियोगी यस्तु वै भूत्वा आत्मवेश्मनि भोक्ष्यति ॥
भृत्यान्वै कर्मकरणे राज्ञो मार्जारतां व्रजेत् ॥ ४-६ ॥

सोऽहं देव तवादेशात् प्रजा धर्मेण शासयन् ॥
पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा ॥ ४-७ ॥

सम्यग्विचार्य मुनिभिर्घर्मशास्त्रादिभिर्विभो ॥
कल्पादौ वर्तमानस्य यावद्यावद्दिनं तव ॥ ४-८ ॥

सोऽहं त्वदीयेन विभो नियोगेनैव शक्नुयाम् ॥
कर्तुं रुक्माङ्गदेनाद्य पराभूतो हि भूभुजा ॥ ४-९ ॥

भयाद्यस्य जगन्नाथ पृथिवी सागराम्बरा ॥
न भुङ्क्ते वासरे विष्णोः सर्वपापप्रणाशने ॥ ४-१० ॥

विहाय सर्वधर्मांस्तु विहाय पितृपूजनम् ॥
विहाय देवपूजां च तीर्थस्नानादिकव्सक्रियाम् ॥ ४-११ ॥

योगसाङ्ख्यावुभौ त्यक्त्वा ज्ञानं ज्ञेयं च मानद ॥
त्यक्त्वा स्वाध्यायहोमांश्च कृत्वा पापानि भूरिशः ॥ ४-१२ ॥

प्रयान्ति वैष्णवं लोकमुपोष्य हरिवासरम् ॥
मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः ॥ ४-१३ ॥

तेषामपीह पितरः पितॄणां पितरस्तथा ॥
तथा मातामहा यान्ति मातुर्ये जनकादयः ॥ ४-१४ ॥

तेषामपि जनेतारो जनितॄणां हि पूर्वजाः ॥
एतद्दुःखं पुनर्देव मम मर्मविभेदनम् ॥ ४-१५ ॥

प्रियायाः पितरो यान्ति मार्जयित्वा लिपिं मम ॥
पितॄणां बीजतो यस्माद्धात्र्या कुक्षौ धृतो यतः ॥ ४-१६ ॥

यदेकः कुरुते कर्म तदेकेनैव भुज्यते ॥
ततोऽन्यस्य कृतं ब्रह्मन्बीजं धात्रीसमुद्भवम् ॥ ४-१७ ॥

तारयेत्स उभौ पक्षौ यत्पिण्डो यस्य विग्रहः ॥
न भार्याया भवेद्वीजं न भार्या कुक्षिधारिणी ॥ ४-१८ ॥

कथं तस्या जगन्नाथ पक्षो याति परं पदम् ॥
जामातुः पुण्यमाहात्म्यत्तेन मे शिरसो रुजा ॥ ४-१९ ॥

न मे प्रयोजनं देव नियोगेनेदृशेन वै ॥
एकादश्युपवासी यः स मां त्यक्त्वा व्रजेद्धरिम् ॥ ४-२० ॥

कुलत्रयं समुद्धृत्य आत्मना सह पद्मज ॥
त्यक्त्वा तु मामकं मार्गं प्रयाति हरिमन्दिरम् ॥ ४-२१ ॥

न यज्ञैस्तादृशैर्देव गतिं प्राप्नोति मानवः ॥
न तीर्थैर्नापि दानैर्वा न व्रतैर्विष्णुवर्जितैः ॥ ४-२२ ॥

न जले पावके वापि मृतः प्राप्नोति तां गतिम् ॥
योगेन सम्प्रणष्टो वा भृगुपातेन वा विधे ॥ ४-२३ ॥

तादृशीं न गतिं याति यादृशीं वैष्णवव्रती ॥
गतिं मतिमतां श्रेष्ठ सत्यमेतदुदीरितम् ॥ ४-२४ ॥

हरेर्दिने धातृफलाङ्गलिप्तो विमुक्तवाञ्छारसभोजनो नरः ॥
प्रयाति लोके धरणीधरस्य विदुष्टकर्मापि मनुष्यजन्मा ॥ ४-२५ ॥

सोऽहं निराशो भुवि हीनकर्मा तवागतः पादसरोजयुग्मम् ॥
विज्ञप्ति मात्राभयदाप्तिकालं कुरुष्व सर्गस्थितिनाशहेतोः ॥ ४-२६ ॥

मास्युस्तदा पापकृतो विहीना यन्मामकैर्भूतगणैर्मनुष्याः ॥
नियन्त्रिताः श्रृङ्खलरज्जुबन्धनैः समीपगा मे वशगा भवेयुः ॥ ४-२७ ॥

भग्नस्तु मार्गो रवितापयुक्तो यद्विष्णुसङ्घैरतितीव्रहस्तैः ॥
विमुच्य कुम्भीं सकलो जनौघः प्रयाति तद्धाम परात्परस्य ॥ ४-२८ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमवाक्यं नाम चतुर्थोऽध्यायः ॥ ४ ॥