वसिष्ट उवाच ॥
इममेवार्थमुद्दिश्य नैमिषारण्यवासिनः ॥
पप्रच्छुर्मुनयः सूतं व्यासशिष्यं महामतिम् ॥ २-१ ॥
स तु पृष्टो महाभाग एकादश्याः सुविस्तरम् ॥
माहात्म्यं कथयामास उपवासविधिं तथा ॥ २-२ ॥
तद्वाक्यं सूतपुत्रस्य श्रुत्वा द्विजवरोत्तमाः ॥
माहात्म्यं चक्रिणश्चापि सर्वपापौघ शान्तिदम् ॥ २-३ ॥
पुनः पप्रच्छुरमलं सूतं पौराणिकं नृप ॥
अष्टादश पुराणानि भवान् जानाति मानद ॥ २-४ ॥
कानीनस्य प्रसादेनः महाभारतमप्युत ॥
तन्नास्ति यन्न वेत्सि त्वं पुराणेषु स्मृतिष्वपि ॥ २-५ ॥
चरिते रघुनाथस्य शतकोटिप्रविस्तरे ॥
अस्माकं संशयः कश्चिद्धृदये सम्प्रवर्तते ॥ २-६ ॥
तं भवानर्हति च्छेत्तुं याथार्थ्येन सुविस्तरात् ॥
तिथेः प्रान्तमुपोष्यं स्यादाहोस्विन्मूलमेव च ॥ २-७ ॥
दैवे पैत्र्ये समाख्याहि नावेद्यं विद्यते तवल ॥
सौतिरुवाच ॥
तिथेः प्रान्तं सुराणां हि उपोष्यं प्रीतिवर्द्धनम् ॥ २-८ ॥
मूलं तिथेः पितॄणां तु कालज्ञैः प्रियमीरितम् ॥
अतः प्रान्तमुपोष्यं हि तिथेर्दशफलेप्सुभिः ॥ २-९ ॥
मूलं हि पितृतृप्त्यर्थं विज्ञेयं धर्मकाङ्क्षिभिः ॥
पूर्वविद्धा न कर्तव्या द्वितीया चाष्टमी तथा ॥ २-१० ॥
षष्ठी चैकादशी भूप धर्मकामार्थलिप्सुभिः ॥
पूर्वविद्धा द्विजश्रेष्ठाः कर्तव्या सप्तमी सदा ॥ २-११ ॥
दर्शश्च पौर्णमासश्च पितुः सांवत्सरं दिनम् ॥
पूर्वविद्धानिमांस्त्यक्त्वा नरकं प्रतिपद्यते ॥ २-१२ ॥
हानिं च सन्ततेर्भूपदौर्भाग्यं समवाप्नुयात् ॥
एतच्छ्रुतं मया विप्राः कृष्णद्वैपायनात्पुरा ॥ २-१३ ॥
आदित्योदयवेलायां यास्तोकापि तिथिर्भवेत् ॥
पूर्वविद्धा तु मन्तव्या प्रभूता नोदयं विना ॥ २-१४ ॥
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ॥
पित्र्येऽस्तमनवेलायां स्पर्शे पूर्णा निगद्यते ॥ २-१५ ॥
न तत्रोदयिनी ग्राह्या दैवस्योदयिकी तिथिः ॥
प्रत्यहं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिन्तकात् ॥ २-१६ ॥
तिथिप्रमाणं विप्रेन्द्राः क्षपाकरदिवाकरौ ॥
चन्द्रार्कचारविज्ञानात्कालं कालविदो विदुः ॥ २-१७ ॥
पूर्वायाः सङ्गदोषेण न योग्यास्ताः प्रपूजने ॥
वर्जयन्ति नरास्तज्ज्ञा यामांश्च चतुरो द्विजाः ॥ २-१८ ॥
अत ऊर्द्ध्वं प्रवक्ष्यामि स्नानपूजाविधिक्रमम् ॥
न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते ॥ २-१९ ॥
दिनकार्यमशेषं हि कर्तव्यं शर्वरीमुखे ॥
विधिरेष मया ख्यातो नराणामुपवासिनाम् ॥ २-२० ॥
अल्पायामथ विप्रेन्द्रा द्वादश्यामरुणोदये ॥
स्नानार्चनक्रिया कार्य्या दानहोमादिसंयुता ॥ २-२१ ॥
त्रयोदश्यां हि शुद्दायां पारणे पृथिवीफलम् ॥
शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम् ॥ २-२२ ॥
एतस्मात्कारणाद्विप्राः प्रत्यूषे स्नानमाचरेत् ॥
पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम् ॥ २-२३ ॥
महाहानिकरा ह्येषा द्वादशी लङ्घिता नृभिः ॥
करोति धर्महरणमस्नातेव सरस्वती ॥ २-२४ ॥
क्षये वाप्यथवा वृद्धौ सम्प्राप्ते वा दिनोदये ॥
उपोष्या द्वादशी पुण्या पूर्वविद्धां विवर्जयेत् ॥ २-२५ ॥
ब्राह्मण उवाच ॥
यदा च प्राप्यते सूत द्वादश्यां पूर्वसम्भवा ॥
तदोपवासो हि कथं कर्तव्यो मानवैर्वद ॥ २-२६ ॥
उपवासदिनं विद्धं यदा भवति पूर्वया ॥
द्वितीयेऽह्नि यदा न स्यात्स्वल्पाप्येकादशी तिथिः ॥ २-२७ ॥
तत्रोपवासो विहितः कथं तद्वद सूतज ।
सौतिरुवाच ॥
यदा न प्राप्यते विप्रा द्वादश्यां पूर्वसम्भवम् ॥ २-२८ ॥
रविचन्द्रार्कजाहं तु तदोपोष्यं परं दिनम् ॥
बह्वा गमविरोधेषु ब्राह्मणेषु विवादिषु ॥ २-२९ ॥
उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारणम् ॥
एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा ॥ २-३० ॥
उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि ॥
एष वो निर्णयः प्रोक्तो मया शास्त्रविनिर्णयात् ॥ २-३१ ॥
किमन्यच्छ्रोतुकामा हि तद्भवन्तो ब्रुवन्तु मे ॥
ऋषय ऊचुः ॥
युगादीनां वद्विधिं सौते सम्यग्यथातथम् ॥ २-३२ ॥
रविसङ्क्रातिकादीनां नावेद्यं विद्यते तव ॥
सौतिरुवाच ॥
द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः ॥ २-३३ ॥
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे ग्राह्येऽपराह्णिके ॥
अयनं दिनभागाढ्यं सङ्क्रमः षोडशः पलः ॥ २-३४ ॥
पूर्वे तु दक्षिणे भागे व्यतीते चोत्तरो मतः ॥
मध्यकाले तु विषुवे त्वक्षया परिकीर्तिता ॥ २-३५ ॥
ज्ञात्वा विप्रास्तिथिं सम्यक्सांवत्सरसमीरिताम् ॥
कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेत् ॥ २-३६ ॥
पूर्वविद्धां प्रकुर्वाणो नरो धर्मं निकृन्तति ॥
सन्ततेस्तु विनाशाय सम्पदां हरणाय च ॥ २-३७ ॥
पलवेधेऽपि विप्रेन्द्रा दशम्या वर्जयेच्छिवाम् ॥
सुराया बिन्दुना स्पृष्टं यथा गङ्गाजलन्त्यजेत् ॥ २-३८ ॥
श्वहतं पञ्चगव्यं च दशम्या दूषितां त्यजेत् ॥
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि ॥ २-३९ ॥
पूर्वविद्धा पुरा दत्ता सा तिथिर्यदुमौलिना ॥
दानवेभ्यो द्विजश्रेष्ठाः प्रीणनार्थं महात्मनाम् ॥ २-४० ॥
अकाले यद्धनं दत्तमपात्रेभ्यो द्विजोत्तमाः ॥
सङ्क्रुद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम् ॥ २-४१ ॥
पूर्वविद्धतिथौ दत्तं तद्दत्तमसुरेष्वथ ॥
यदुच्छिष्टेन दत्तं तु यद्दत्तं पतितेष्वपि ॥ २-४२ ॥
स्त्रीजेतेषु च यद्दत्तं यद्दत्तं जलवर्जितम् ॥
पुनः कीर्तनसंयुक्तं तद्दत्तमसुरेषु वै ॥ २-४३ ॥
तस्माद्विप्रा न कर्त्व्या विद्धाप्येकादशी तिथिः ॥
यथा हन्तिपुरा पुण्यं श्राद्धं च वृषलीपतिः ॥ २-४४ ॥
दत्तं जप्तं हुतं स्नातं तथा पूजा कृता हरेः ॥
तिथौ विद्धे क्षयं याति तमः सूर्योदये यथा ॥ २-४५ ॥
जीर्णं पतिं यौवनगर्विता यथा त्यजन्ति नार्यो झषकेतुनार्दिताः ॥
तथा हि वेधं विबुधास्त्यजन्ति तिथ्यन्तरं धर्मविवृद्धये सदा ॥ २-४६ ॥
श्रीबृहन्नारदीयपुरणोत्तरभागे तिथिविचारो नाम द्वितीयोऽध्यायः ॥ २ ॥