पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ॥
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ १-१ ॥
सुरा सुरशिरोरत्ननिघृष्टमणिरञ्जितम् ॥
हरिपादाम्बुजद्वन्द्वमभीष्टप्रदमस्तु नः ॥ १-२ ॥
मान्धातोवाच ॥
पापेन्धनस्य घोरस्य शुष्कार्द्रस्य द्विजोत्तम ॥
कोवह्निर्दहते तस्य तद्भवान्वक्तुमर्हति । १-३ ॥
नाज्ञातं त्रिषु लोकेषु चतुर्मुखसमुद्भव ॥
विद्यते तव विप्रेन्द्र त्रिविधस्य सुनिश्चितम् ॥ १-४ ॥
अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् ॥
भाव्यं वाप्यथवातीतं वर्तमानं वदस्व नः ॥ १-५ ॥
वह्निना केन तद्भस्म भवेदेतन्मतं मम ॥
वसिष्टं उवाच ॥
श्रूयतां नृपशार्दूल वह्निना येन तद्भवेत् ॥ १-६ ॥
भस्म शुष्कं तथार्द्रं च पापमस्य ह्येशेषतः ॥ १-७ ॥
अवाप्य वासरं विष्णोर्यो नरः संयतेन्द्रियः ॥
उपवासपरो भूत्वा पूजयेन्मधुसूदनम् ॥ १-८ ॥
स धात्रीस्नानसहितो रात्रौ जागरणान्वितः ॥
विशोधयति पापानि कितवो हि यथा धनम् ॥ १-९ ॥
एकदाशीसमाख्येन वह्निना पातकेन्धनम् ॥
भस्मतां याति राजेन्द्र अपि जन्मशतोद्भवम् ॥ १-१० ॥
नेदृश पावनं किञ्चिन्नराणां भूप विद्यते ॥
यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥ १-११ ॥
तावत्पापानि देहेऽस्मिंस्तिष्ठन्ति मनुजाधिप ॥
यावन्नोपवसेज्जन्तुः पद्मनाभदिमं शुभम् ॥ १-१२ ॥
अश्वमेधसहस्राणि राजसूयशतानि च ॥
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ १-१३ ॥
एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो ॥
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ॥ १-१४ ॥
एकादशीसमं किञ्चित्पापनाशं न विद्यते ॥
व्याजेनापि कृता राजन्न दर्शयति भास्करिम् ॥ १-१५ ॥
स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदायिनी ॥
सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी ॥ १-१६ ॥
न गङ्गा न गया भूप न काशी न च पुष्करम् ॥
न चापि कैरवं क्षेत्रं न रेवा न च देविका ॥ १-१७ ॥
यमुना चन्द्रभागा च पुण्या भूप हरेर्दिनात् ॥
अनायासेन राजेन्द्र प्राप्यते हरिमन्दिरम् ॥ १-१८ ॥
रात्रौ जागरण कृत्वा समुपोष्य हरेर्दिनम् ॥
सर्वपापविनिर्मुक्तो विष्णुलोके व्रजेन्नरः ॥ १-१९ ॥
दशैव मातृके पक्षे दश राजेन्द्र पैतृके ॥
भार्याया दश पक्षे च पुरुषानुद्धरेत्तथा ॥ १-२० ॥
आत्मानमपि राजेन्द्र स नयेद्वैष्णवं पुरम् ॥
चिन्तामणिसमा ह्येषा अथवापि निधेः समा ॥ १-२१ ॥
सङ्कल्पपादपप्रख्या वेदवाक्योपमाथवा ॥
द्वादशीं ये प्रपन्ना हि नरा नरवरोत्तम ॥ १-२२ ॥
ते द्वन्द्वबाहवो जाता नागारिकृतवाहनाः ॥
स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम् ॥ १-२३ ॥
एष प्रभावो हि मया द्वादश्याः परिकीर्तितः ॥
पापेन्धनस्य घोरस्य पावकाख्यो महीपते ॥ १-२४ ॥
हरेर्द्दिनं सदोपोष्यं नरैर्धर्मपरायणैः ॥
इच्छद्भिर्विपुलान्योगान्पुत्रपौत्रादिकाँस्तथा ॥ १-२५ ॥
हरिदिनमिह मर्त्यो यः करोत्यादरेण नरवर स तु कुक्षिं मातुराप्नोति नैव ॥
बहुवृजिनसमेतोऽकामतः कामतो वा व्रजति पदमनन्तं लोकनाथस्य विष्णोः ॥ १-२६ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे द्वादशीमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥