सूत उवाच ॥
इत्येवमुक्त्वा मुनिना हि पृष्टास्ते वै कुमाराः किल नारदेन ॥
सम्पूजिताः शास्त्रविदां वरिष्ठाः कृताह्निका जग्मुरुमेशलोकम् ॥ १२५-१ ॥
तत्रेशमग्र्यर्कनिभैर्मुनीन्द्रैः श्रीवामदेवादिभिरर्चिताङ्घ्रिम् ॥
सुरासुरेन्द्रैरभिवन्द्यमुग्रं नत्वाज्ञया तस्य निषेदुरुर्व्याम् ॥ १२५-२ ॥
श्रुत्वाथ तत्राखिलशास्त्रसारं शिवागमं ते पशुपाशमोक्षणम् ॥
जग्मुस्ततो ज्ञानघनस्वरूपा नत्वा पुरारिं स्वपितुर्निकाशम् ॥ १२५-३ ॥
तत्पादपद्मे प्रणतिं विधाय पित्रापि सत्कृत्य सभाजितास्ते ॥
लब्ध्वाशिषोऽद्यापि चरन्ति शश्वल्लोकेषु तीर्थानि च तीर्थभूताः ॥ १२५-४ ॥
जग्मुस्ततो वै बदरीवनान्ते सुरेन्द्रवर्गैरुपसेव्यमानम् ॥
दध्युश्चिरं विष्णुपदाब्जमव्ययं ध्यायन्ति यद्यतयो वीतरागाः ॥ १२५-५ ॥
नारदोऽपि ततो विप्रा कुमारेभ्यः समीहितम् ॥
लब्ध्वा ज्ञानं सविज्ञानं भृशं प्रीतमना ह्यभूत् ॥ १२५-६ ॥
स तस्मात्स्वर्णदीतीरादागत्य पितुरन्तिके ॥
प्रणम्य सत्कृतः पित्रा ब्रह्मणा निषसाद च ॥ १२५-७ ॥
कुमारेभ्यः श्रुतं यच्च ज्ञानं विज्ञानसंयुतम् ॥
वर्णयामास तत्त्वेन सोऽपि श्रुत्वा मुमोद च ॥ १२५-८ ॥
अथ प्रणम्य शिरसा लब्धाशीर्मुनिसत्तमः ॥
आजगाम च कैलासं मुनिसिद्धनिषेवितम् ॥ १२५-९ ॥
नानाश्चर्यमयं शश्वत्सर्वर्त्तुकुसुमद्रुमैः ॥
मन्दारैः पारिजातैश्च चम्पकाशोकवञ्जुलैः ॥ १२५-१० ॥
अन्यैश्च विविधैर्वृक्षैर्नानापक्षिगणावृतैः ॥
वातोद्धूतशिखैः पान्थानाह्वयद्भिरिवावृतम् ॥ १२५-११ ॥
नानामृगगणाकीर्णं सिद्धकिन्नरसङ्कुलम् ॥
सरोभिः स्वच्छसलिलैर्लसत्काञ्चनपङ्कजैः ॥ १२५-१२ ॥
शोभितं सारसैर्हंसैश्चक्राह्वाद्यैर्निनादितम् ॥
स्वर्द्धनीपातनि र्घृष्टं क्रीडद्भिश्चाप्सरोगणैः ॥ १२५-१३ ॥
सलिलेऽलकनन्दायाः कुचकुङ्कुमपिङ्गले ॥
आमोदमुदितैर्नागैः सलिलैः पुष्करोद्धृतैः ॥ १२५-१४ ॥
स्नापयद्भिः करेणूश्च कलभांश्च समाकुले ॥
अथ श्वेताभ्रसदृशे श्रृङ्गे तस्य च भूभृतः ॥ १२५-१५ ॥
वटं कालाभ्रसदृशं ददर्श शतयोजनम् ॥
तस्याधस्तात्समासीनं योगिमण्डलमध्यगम् ॥ १२५-१६ ॥
कपर्दिनं विरूपाक्ष व्याघ्रचर्माम्बरावृतम् ॥
भूतिभूषितसर्वाङ्गं नागभूषणभूषितम् ॥ १२५-१७ ॥
रुद्राक्षमालया शश्वच्छोभितं चन्द्रशेखरम् ॥
तं दृष्ट्वा नारदो विप्रा भक्तिनम्रात्मकन्धरः ॥ १२५-१८ ॥
ननाम् शिरसा तस्य पादयोर्जगदीशितुः ॥
ततः प्रसन्नमनसा स्तुत्वा वाग्भिर्वृषध्वजम् ॥ १२५-१९ ॥
निषसादाज्ञया स्थाणोः सत्कृतो योगिभिस्तदा ॥
अथापृच्छच्च कुशलं नारदं जगतां गुरुः ॥ १२५-२० ॥
स च प्राह प्रसादेन भवतः सर्वमस्ति मे ॥
सर्वेषां योगिवर्याणां श्रृण्वतां तत्र वाडवाः ॥ १२५-२१ ॥
पप्रच्छ शाम्भवं ज्ञानं पशुपाशविमोक्षणम् ॥
स शिवः सादरं तस्य भक्त्या सन्तुष्टमानसः ॥ १२५-२२ ॥
योगमष्टाङ्गसंयुक्तं प्राह प्रणतवत्सलः ॥
स लब्ध्वा शाम्भवं ज्ञानं शङ्कराल्लोकशङ्करात् ॥ १२५-२३ ॥
सुप्रसन्नमना नत्वा ययौ नारायणान्तिकम् ॥
तत्रापि नारदोऽभीक्ष्णं गतागतपरायणः ॥ १२५-२४ ॥
सेवितं योगिभिः सिद्धैर्नारायणमतोषयत् ॥
एतद्वः कीर्तितं विप्रा नारदीयं महन्मया ॥ १२५-२५ ॥
उपाख्यानं वेदसमं सर्वशास्त्रनिदर्शनम् ॥
चतुष्पादसमायुक्तं श्रृण्वतां ज्ञानवर्द्धनम् ॥ १२५-२६ ॥
य एतत्कीर्तयेद्विप्रा नारदीयं शिवालये ॥
समाजे द्विजमुख्यानां तथा केशवमन्दिरे ॥ १२५-२७ ॥
मथुरायां प्रयागे च पुरुषोत्तमसन्निधौ ॥
सेतौ काञ्च्यां कुशस्थल्यां गङ्गाद्वारे कुशस्थले ॥ १२५-२८ ॥
पुष्करेषु नदीतीरे यत्र कुत्रापि भक्तिमान् ॥
स लभेत्सर्वयज्ञानां तीर्थानां च फलं महत् ॥ १२५-२९ ॥
दानानां चापि सर्वेषां तपसां वाप्यशेषतः ॥
उपवासपरो वापि हविष्याशी जितेन्द्रियः ॥ १२५-३० ॥
श्रोता चैव तथा वक्ता नारायणपरायणः ॥
शिवभक्तिरतो वापि श्रृण्वन् सिद्धिमवाप्नुयात् ॥ १२५-३१ ॥
अस्निन्नशेषपुण्यानां सिद्धीनां च समुद्भवः ॥
कथितः सर्वपापघ्नः पठतां श्रृण्वतां सदा ॥ १२५-३२ ॥
कलिदोषहरं पुंसां सर्वसम्पत्तिवर्द्धनम् ॥
सर्वेषामीप्सितं चेदं सर्वज्ञानप्रकाशकम् ॥ १२५-३३ ॥
शैवानां वैष्णवानां च शाक्तानां सूयसेविनाम् ॥
तथैव गाणपत्यानां वर्णाश्रमवतां द्विजाः ॥ १२५-३४ ॥
तपसां च व्रतानां च फलानां सम्प्रकाशकम् ॥
मन्त्राणां चैव यन्त्राणां वेदाङ्गानां विभागशः ॥ १२५-३५ ॥
तथागमानां साङ्ख्यानां वेदानां चैव सङ्ग्रहम् ॥
य एतत्पठते भक्त्या श्रृणुयाद्वा समाहितः ॥ १२५-३६ ॥
स लभेद्वाञ्छितान्कामान्देवादिष्वपि दुर्लभान् ॥
श्रुत्वेदं नारदीयं तु पुराणं वेदसम्मितम् ॥ १२५-३७ ॥
वाचकं पूजयेद्भक्त्या धनरत्नांशुकादिभिः ॥
भूमिदानैर्गवां दानै रत्नदानैश्च सन्ततम् ॥ १२५-३८ ॥
हस्त्यश्वरथदानैश्च प्रीणयेत्सततं गुरुम् ॥
यस्तु व्याकुरुते विप्राः पुराणं धर्मसङ्ग्रहम् ॥ १२५-३९ ॥
चतुर्वर्गप्रदं नॄणां कोऽन्यस्तत्सदृशो गुरुः ॥
कायेन मनसा वाचा धनाद्यैरपि सन्ततम् ॥ १२५-४० ॥
प्रियं समाचरेत्तस्य गुरोर्द्धर्मोपदेशिनः ॥
श्रुत्वा पुराणं विधिवद्धोमं कृत्वा सुरार्चनम् ॥ १२५-४१ ॥
ब्राह्मणान्भोजयेत्पश्चाच्छतं मिष्टान्नपायसैः ॥
दक्षिणां प्रददेच्छक्त्या भक्त्या प्रीयेत माधवः ॥ १२५-४२ ॥
यथा श्रेष्ठा नदी गङ्गा पुष्करं च सरो यथा ॥
काशी पुरी नगो मेरुर्देवो नारायणो हरिः ॥ १२५-४३ ॥
कृतं युगं सामवेदो धेनुर्विप्रोऽन्नमम्बु च ॥
मार्गो मृगेन्द्रः पुरुषोऽश्वत्थः प्रह्लाद आननम् ॥ १२५-४४ ॥
उच्चैः श्रवा वसन्तश्च जपः शेषोऽर्यमा धनुः ॥
पावको विष्णुरिन्द्रश्च कपिलो वाक्पतिः कविः ॥ १२५-४५ ॥
अर्जुनो हनुमान्दर्भश्चित्तं चित्ररथोंऽबुजम् ॥
उर्वशी काञ्चनं यद्वच्छ्रेष्टाश्चैते स्वजातिषु ॥ १२५-४६ ॥
तथैव नारदीयं तु पुराणेषु प्रकीर्तितम् ॥
शान्तिरस्तु शिवं चास्तु सर्वेषां वो द्विजोत्तमाः ॥ १२५-४७ ॥
गमिष्यामि गुरोः पांर्श्वं व्यासस्यामिततेजसः ॥
इत्युक्त्वाभ्यर्चितः सूतः शौनकाद्यैर्महात्मभिः ॥ १२५-४८ ॥
आज्ञप्तश्च पुनः सर्वैर्दर्शनार्थं गुरोर्ययौ ॥
तेऽपि सर्वे द्विजश्रेष्ठाः शौनकाद्याः समाहिताः ॥
श्रुतं सम्यगनुष्ठाय तत्र तस्थुश्च सत्रिणः ॥ १२५-४९ ॥
कलिकल्मषविषनाशनं हरिं यो जपपूजनविधिभेषजोपसेवी ॥
स तु निर्विषमनसा समेत्य यागं लभते सतमभीप्सितं हि लोकम् ॥ १२५-५० ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने चतुर्थपादे पुराणमहिमावर्णनं नाम पञ्चविंशोत्तरशततमोऽध्यायः ॥ १२५ ॥
॥ समाप्तोयं बृहन्नारदीयपुराणस्य पूर्वभागः ॥
॥ श्रीराधामदनमोहनो जयति तराम् ॥