सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि चतुर्दश्या व्रतानि ते ॥
यानि कृत्वा नरो लोके सर्वान्कामानवाप्नुयात् ॥ १२३-१ ॥
चैत्रशुक्ल चतुर्दश्यां कुङ्कुमागरुचन्दनैः ॥
गन्धाद्यैर्वस्त्रमणिभिः कार्यार्या महती शिवे ॥ १२३-२ ॥
वितानध्वजछत्राणि दत्वा पूज्याश्च मातरः ॥
एवं कृत्वार्चनं विप्र सोपवासोऽथवैकभुक् ॥ १२३-३ ॥
अश्वमेधाधिकं पुण्यं लभते मानवो भुवि ॥
अत्रैव दमनार्चां च कारयेद्गन्धपुष्पकैः ॥ १२३-४ ॥
समर्पयेत्सुपूर्णायां शिवाय शिवरूपिणे ॥
राधकृष्णचतुर्द्दश्यां सोपवासो निशागमे ॥ १२३-५ ॥
लिङ्गमभ्यर्चयेच्चैवं स्नात्वा धौताम्बरः सुधीः ॥
गन्धाद्यैरुपचारैश्च बिल्वपत्रैश्च सर्वतः ॥ १२३-६ ॥
दत्वा मन्त्रं द्विजाग्र्याय भुञ्जीत च परेऽहनि ॥
एवमेव तु कृष्णासु सर्वासु द्विजसत्तम ॥ १२३-७ ॥
शिवव्रतं प्रकर्तव्यं धनसन्तानमिच्छता ॥
राधशुक्लचतुर्दश्यां श्रीनृसिंहव्रतं चरेत् ॥ १२३-८ ॥
उपवासविधानेन शक्तोऽशक्तस्तथैकभुक् ॥
निशागमे तु सम्पूज्य नृसिंहं दैत्यसूदनम् ॥ १२३-९ ॥
उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः ॥
ततः क्षमापयेद्देवं मन्त्रेणानेन नारद ॥ १२३-१० ॥
तत्पहाटककेशान्त ज्वलत्पावकलोचन ॥
वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु ते ॥ १२३-११ ॥
इति सम्प्रार्थ्य देवेशं व्रती स्यात्स्थण्डिलेशयः ॥
जितेन्द्रियो जितक्रोधः सर्वभोगविवर्ज्जितः ॥ १२३-१२ ॥
एवं यः कुरुते विप्र विधिवद्व्रतमुत्तमम् ॥
वर्षे वर्षे स लभते भुक्तभोगो हरेः पदम् ॥ १२३-१३ ॥
ॐकारेश्वरयात्रा च कार्यात्रैव मुनीश्वर ॥
दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम् ॥ १२३-१४ ॥
किमत्र बहुनोक्तेन पूजाध्यानजपेक्षणम् ॥
यद्भवेत्तत्समुद्दिष्टं ज्ञानमोक्षप्रदं नृणाम् ॥ १२३-१५ ॥
अत्र लिङ्गव्रतं चापि कर्त्तव्यं पापनाशनम् ॥
पञ्चामृतैस्तु संस्नाप्य लिङ्गमालिप्य कुङ्कुमैः ॥ १२३-१६ ॥
नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः ॥
एवं यः पूजयेत्पैष्टं लिङ्गं सर्वार्थसिद्धिदम् ॥ १२३-१७ ॥
भुक्तिं मुक्तिं स लभते महादेवप्रसादतः ॥
ज्येष्ठशुक्लचतुर्दश्यां दिवा पञ्चतपा निशः ॥ १२३-१८ ॥
मुखे ददेद्धेमधेनुं रुद्रव्रतमिदं स्मृतम् ॥
शुचिशुक्लचतुर्दश्यां शिवं सम्पूज्य मानवः ॥ १२३-१९ ॥
देशकालोद्भवैः पुष्पैः सर्वसम्पदमाप्नुयात् ॥
नभः शुक्लचतुर्दश्यां पवित्रारोपणं मतम् ॥ १२३-२० ॥
तत्स्वशाखोक्तविधिना कर्तव्यं द्विजसत्तम ॥
शताभिमन्त्रितं कृत्वा ततो देव्यै निवेदयेत् ॥ १२३-२१ ॥
पवित्रारोपणं कृत्वा नरो नार्यथवा यदि ॥
महादेव्याः प्रसादेन भुक्तिं मुक्तिमवाप्नुयात् ॥ १२३-२२ ॥
भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमम् ॥
कर्त्तव्यमेकभुक्तं हि गोधूमप्रस्थपिष्टकम् ॥ १२३-२३ ॥
विपाच्य शर्कराज्याक्तमनन्ताय निवेदयेत् ॥
गन्धाद्यैः प्राक् समभ्यर्च्यः कार्पासं पट्टजं तु वा ॥ १२३-२४ ॥
चतुर्दशग्रन्थियुतं सूत्रं कृत्वा सुशोभनम् ॥
ततः पुराणमुत्तार्य सूत्रं क्षिप्त्वा जलाशयें ॥ १२३-२५ ॥
निबघ्नीयान्नवं नारी वामे दक्षे पुमान्भुजे ॥
विपाच्य पिष्टपक्वं तत्प्रदद्याद्दक्षिणान्वितम् ॥ १२३-२६ ॥
स्वयं च तन्मितं चाद्यादेवं कुर्याद्व्रतोत्तमम् ॥
द्विसप्तवर्षपर्यन्तं तत उद्यापयेत्सुधीः ॥ १२३-२७ ॥
मण्डलं सर्वतोभद्रं धान्यवर्णैः प्रकल्प्य च ॥
सुशोभने न्यसेत्तत्र कलशं ताम्रजं मुने ॥ १२३-२८ ॥
तस्योपरि न्यसेद्धैमीमनन्तप्रतिमां शुभाम् ॥
पीतपट्टांशुकाच्छन्नां तत्र तां विधिना यजेत् ॥ १२३-२९ ॥
गणेशं मातृकाः खेटाँल्लोकपांश्च यजेत्पृथक् ॥
ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेत् ॥ १२३-३० ॥
शय्यां सोपस्करां धेनुं प्रतिमां च द्विजोत्तम ॥
प्रदद्याद्गुरवे भक्त्या द्विजानन्यांस्चतुर्दश ॥ १२३-३१ ॥
सम्भोज्य मिष्टपक्वान्नैर्दक्षिणाभिः प्रतोषयेत् ॥
एवं यः कुरुतेऽनन्तव्रतं प्रत्यक्षमादरात् ॥। १२३-३२ ॥
सोऽप्यनन्तप्रसादेन जायते भुक्तिमुक्तिभाक् ॥
कदलीव्रतमप्यत्र तद्विधानं च मे श्रृणु ॥ १२३-३३ ॥
नरो वा यदि वा नारी रम्भामुपवनस्थिताम् ॥
स्नात्वा सम्पूजयेद्गन्धपुष्पधान्याङ्कुरादिभिः ॥ १२३-३४ ॥
दधिदूर्वाक्षतैर्द्द्वीपैर्वस्त्रपक्कान्नसंयैः ॥
एवं सम्पूज्य मन्त्रेण ततः सम्प्रार्थयेद्र्वती ॥ १२३-३५ ॥
अप्सरो मरकन्याभिर्नागकन्याभिरार्चिते ॥
शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते ॥ १२३-३६ ॥
इति सम्प्रार्थ्यं कन्यास्तु चतस्रो वा सुवासिनीः ॥
सम्भोज्यां शुकसिद्वरकज्जलालक्तचर्चिताः ॥ १२३-३७ ॥
नमस्कृत्य निजं गेहं समाप्य नियमं व्रजेत् ॥
एवं कृते व्रते विप्र लब्ध्वा सौभाग्यमुत्तमम् ॥ १२३-३८ ॥
इह लोके विमानेन स्वर्गलोके व्रजेत्परम् ॥
इषकृष्णचतुर्द्दश्यां विषशस्त्राम्बुवह्निभिः ॥ १२३-३९ ॥
सर्पश्वापदवज्राद्यैर्हतानां ब्रह्मघातिनाम् ॥
चतुर्द्दश्यां क्रियाश्राद्धमेकोद्दिष्टविधानतः ॥ १२३-४० ॥
कर्तव्यं विप्रवर्गं च भोजयेन्मिष्टपक्वकैः ॥
तर्पणं च गवां ग्रासं बलिं चैव श्वकाकयोः ॥ १२३-४१ ॥
कृत्वाचम्य स्वयं पश्चाद्भुञ्जीयाद्बन्धुभिः सह ॥
एवं यः कुरुते विप्र श्राद्धं सम्पन्नदक्षिणम् ॥ १२३-४२ ॥
स उद्धृत्य पितॄन्गच्छेद्देवलोकं सनातनम् ॥
इषशुक्ल चतुर्द्दश्यां धर्मराजं द्विजोत्तम ॥ १२३-४३ ॥
गन्धाद्यैः सम्यगभ्यर्च्य सौवर्णं भोज्य वाङवम् ॥
दद्यात्तस्मै धर्मराजस्त्रायते भुवि नारद ॥ १२३-४४ ॥
एवं यः कुरुते धर्मप्रतिमादानमुत्तमम् ॥
स भुक्त्वेह वरान्भोगान्दिवं धर्माज्ञया व्रजेत् ॥ १२३-४५ ॥
ऊर्ज्जकृष्णचतुर्द्दश्यां तैलाभ्यङ्गं विधूदये ॥
कृत्वा स्नात्वार्चयेद्धर्मं नरकादभयं लभेत् ॥ १२३-४६ ॥
प्रदोषे तैलदीपांस्तु दीपयेद्यमतुष्टये ॥
चतुष्पथे गृहाद्ब्राह्मप्रदेशे वा समाहितः ॥ १२३-४७ ॥
वत्सरे हेमलम्ब्याख्ये मासि श्रीमति कार्तिके ॥
शुक्लपक्षे चतुर्द्दश्यामरुणाभ्युदयं प्रति ॥ १२३-४८ ॥
स्नात्वा विश्वेश्वरो देवो देवैः सह मुनीश्वर ॥
मणिकर्णिक तीर्थे च त्रिपुण्ड्रं भस्मना दधत् ॥ १२३-४९ ॥
स्वात्मानं स्वयमभ्यर्च्य चक्रे पाशुपतव्रतम् ॥
ततस्तत्र महापूजां लिङ्गे गन्धादिभिश्चरेत् ॥ १२३-५० ॥
द्रोणपुष्पैर्बिल्वदलैरर्कपुष्पैश्च केतकैः ॥
पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि ॥ १२३-५१ ॥
एवं कृत्वैकभुक्तं तु व्रतं विश्वेशतोषणम् ॥
लभते वाञ्छितान्कामानिहामुत्र च नारद ॥ १२३-५२ ॥
ब्रह्मकूर्चव्रतं चात्र कर्तव्यमृद्धिमिच्छता ॥
सोपवासः पञ्चगव्यं पिबेद्रात्रौ जितेन्द्रियः ॥ १२३-५३ ॥
कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा ॥
श्वेतायाः क्षीरमुदितं रक्तायाश्च तथा दधि ॥ १२३-५४ ॥
गृहीत्वा कर्बुरायाश्च घृतमेकत्र मेलयेत् ॥
कुशां बुना ततः प्रातः स्नात्वा सन्तर्प्यं देवताः ॥ १२३-५५ ॥
ब्रह्मणांस्तोषयित्वा च भुञ्जीयाद्वाग्यतः स्वयम् ॥
ब्रह्मकूर्चव्रतं ह्येतत्सर्वपातकनाशनम् ॥ १२३-५६ ॥
यच्च बाल्ये कृतं पापं कौमारे वार्द्धकेऽपि यत् ॥
ब्रह्मकूर्चोपवासेन तत्क्षणादेव नश्यति ॥ १२३-५७ ॥
पाषाणव्रतमप्यत्र प्रोक्तं तच्छृणु नारद ॥
सोपवासो दिवा नक्तं पाषाणाकारपिष्टचकम् ॥ १२३-५८ ॥
प्रार्च्य गन्धादिभिर्गौरीं घृतपङ्क्वमुपाहरेत् ॥
व्रतमेतच्चरित्वा तु यथोक्तं द्विजसत्तम ॥ १२३-५९ ॥
ऐश्वर्यसौख्यसौभाग्यरूपाणि प्राप्नुयान्नरः ॥
मार्गशुक्लचतुर्दश्यामेकभुक्तः पुरोदितम् ॥ १२३-६० ॥
निराहारो वृषं स्वर्णं प्रार्च्य दद्याद्द्विजातये ॥
परेऽह्नि प्रातरुत्थाय स्नात्वा सोमं महेश्वरम् ॥ १२३-६१ ॥
पूजयेत्कमलैः पुष्पैर्गन्धमाल्यानुलेपनैः ॥
द्विजान्सम्भोज्य मिष्टान्नौस्तोषयेद्दक्षिणादिभिः ॥ १२३-६२ ॥
एतच्छिवव्रतं विप्र भुक्तिमुक्तिप्रदायकम् ॥
कर्तॄणामुपदेष्टॄणां साह्यानामनुमोदिनाम् ॥ १२३-६३ ॥
पौषशुक्लचतुर्दश्यां विरूपाक्षव्रतं स्मृतम् ॥
कपर्दीश्वरसान्निध्यं प्राप्स्याम्यत्र विचिन्त्य च ॥ १२३-६४ ॥
स्नात्वागाधजले विप्र विरूपाक्षं शिवं यजेत् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ १२३-६५ ॥
तत्स्थं द्विजातये दत्त्वा मोदते दिवि देववत् ॥
माघकृष्णचतुर्द्दश्यां यमतर्पणमीरितम् ॥ १२३-६६ ॥
अनर्काभ्युदिते काले स्नात्वा सन्तर्पयेद्यमम् ॥
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये ॥ १२३-६७ ॥
तिलदर्भाम्बुभिः कार्यं तर्प्पणं द्विजभोजनम् ॥
कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः ॥ १२३-६८ ॥
अन्त्यकृष्णचतुर्दश्यां शिवरात्रिव्रतं द्विज ॥
निर्जलं समुपोष्यात्र दिवानक्तं प्रपूजयेत् ॥ १२३-६९ ॥
स्वयम्भुवादिकं लिङ्गं पार्थिवं वा समाहितः ॥
गन्धाद्यैरुपचारैश्च साम्बुबिल्वदलादिभिः ॥ १२३-७० ॥
धूपैर्दीपैश्च नैवेद्यैः स्तोत्रपाठैर्जपादिभिः ॥
ततः परेऽह्नि सम्पूज्य पुनरेवोपचारकैः ॥ १२३-७१ ॥
सम्भोज्य विप्रान्मिष्टान्नैर्विसृजेल्लब्धदक्षिणान् ॥
एवं कृत्वा व्रतं मर्त्यो महादेवप्रसादतः ॥ १२३-७२ ॥
अमर्त्यभोगान् लभते दैवतैः सुसभाजितः ॥
अन्त्यशुक्लचतुर्दश्यां दुर्गां सम्पूज्य भक्तितः ॥ १२३-७३ ॥
गन्धाद्यैरुपचारैस्तु विप्रान्सम्भोजयेत्ततः ॥
एवं कृत्वा व्रतं विप्र दुर्गायाश्चैकभोजनः ॥ १२३-७४ ॥
लभते वाञ्छितान्कामानिहामुत्र च नारद ॥
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ॥ १२३-७५ ॥
केदारोदकपानेन वाचिमेधफलं भवेत् ॥
उद्यापने तु सर्वांसां सामान्यो विधिरुच्यते ॥ १२३-७६ ॥
कुम्भाश्चतुर्दशैवात्र सपूगाक्षतमोदकाः ॥
सदक्षिणांशुकास्ताम्रामृन्मयाश्चाव्रणा नवाः ॥ १२३-७७ ॥
तावन्तो वशदण्डाश्च पवित्राण्यासनानि च ॥
पात्राणि यज्ञसूत्राणि तावत्येव हि कल्पयेत् ॥ १२३-७८ ॥
शेषं प्रागुक्तवत्कुर्याद्वित्तशाठ्यविवर्ज्जितः ॥ १२३-७९ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितचतुर्दशीव्रतवर्णनं नाम त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १२३ ॥