सनातन उवाच ॥
अथातः सम्प्रवक्ष्यामि त्रयोदश्या व्रतानि ते ॥
यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि ॥ १२२-१ ॥
मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् ॥
कृत्वा सम्पूज्य यत्नेन वीजेयव्द्यजनेन च ॥ १२२-२ ॥
ततः सङ्क्षुधितः कामः पुत्रपौत्रविवर्द्धनः ॥
अनङ्गपूजाप्यत्रोक्ता तां निबोध मुनीश्वर ॥ १२२-३ ॥
सिन्दूररजनीरागैः फलकेऽनङ्गमालिखेत् ॥
रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम् ॥ १२२-४ ॥
कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजम् ॥
मध्याह्ने पूजयेद्भक्त्या गन्धस्रग्भूषणांशुकैः ॥ १२२-५ ॥
क्षभ्यैर्नानाविधैस्चापि मन्त्रेणानेन नारद ॥
नमो माराय कामाय कामदेवस्य मूर्त्तये ॥ १२२-६ ॥
ब्रह्मविष्णुशिवेन्द्राणां मनःभोभकराय वै ॥
तत्तस्याग्रतो भक्त्या पूजयेदङ्गनापतिम् ॥ १२२-७ ॥
वस्त्रमाल्याविभूषाद्यैः कामोऽयमिति चिन्तयेत् ॥
सम्पूज्य द्विजदाम्पत्यं गन्धवस्त्रविभूषणैः ॥ १२२-८ ॥
एवं यः कुरुते विप्र वर्षे वर्षे महोत्सवम् ॥
वसन्तसमये प्राप्ते हृष्टः पुष्टः सदैव सः ॥ १२२-९ ॥
प्रतिमासं पूजयेद्वा यावद्वर्षं समाप्यते ॥
मदनं हृद्भवं कामं मन्मथं च रतिप्रियम् ॥ १२२-१० ॥
अनङ्गं चैव कन्दर्पं पूजयेन्मकरध्वजम् ॥
कुसुमायुधसञ्ज्ञं च ततः पश्चान्मनोभवम् ॥ १२२-११ ॥
विषमेषु तथा विप्र मालतीगप्रियमित्यपि ॥
अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः ॥ १२२-१२ ॥
अजाः पयस्विनीर्दद्याद्दरिद्राय कुटुम्बिने ॥
भूयस्त्वनेन दानेन स लोके नैव जायते ॥ १२२-१३ ॥
यदीयं शनिना युक्ता सा महावारुणी स्मृता ॥
गङ्गायां यदि लभ्येत कोटिसूर्यग्रहाधिका ॥ १२२-१४ ॥
शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते ॥
महामहेति विख्याता कुलकोटिविमुक्तिदा ॥ १२२-१५ ॥
राधशुक्लत्रयोदश्यां कामदेवव्रतं स्मृतम् ॥
तत्र गन्धादिभिः कामं पूजयेदुपवासवान् ॥ १२२-१६ ॥
प्रतिमासं ततः पश्चात्त्रयोदश्यां सिते दले ॥
एवमेव व्रतं कार्यं वर्षान्ते गामलङ्कृताम् ॥ १२२-१७ ॥
दद्याद्विप्राय सत्कृत्य व्रतसाङ्गत्वसिद्धये ॥
ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम् ॥ १२२-१८ ॥
तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम् ॥
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम् ॥ १२२-१९ ॥
निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा ॥
मन्दारकरवीरार्का भवन्तो भास्करांशजाः ॥ १२२-२० ॥
पूजिता मम दौर्भाग्यं नाशयन्तु नमोऽस्तु वः ॥
इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम् ॥ १२२-२१ ॥
नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा ॥
शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत् ॥ १२२-२२ ॥
पूजयित्वा जगन्नाथावुमामाहेश्वरी तनूः ॥
हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च ॥ १२२-२३ ॥
सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि ॥
स्थापयित्वा प्रतिष्ठाप्य दैवमन्त्रेण नारद ॥ १२२-२४ ॥
ततः पञ्चदिनं पूजा चैकभक्तं व्रतं तथा ॥
तृतीयदिवसे प्रातः स्नात्वा सम्पूज्य तौ पुनः ॥ १२२-२५ ॥
समर्पणीयौ विप्राय वेदवेदाङ्गशालिने ॥
वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपञ्चकम् ॥ १२२-२६ ॥
तदन्ते धेनुयुग्मेन सहितौ तौ प्रदापयेत् ॥
इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम् ॥ १२२-२७ ॥
नैव दाम्पत्यविच्छेदं लभते सप्तजन्मसु ॥
नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम् ॥ १२२-२८ ॥
वैधव्यवारणं स्त्रीणां तथा सन्तानवर्धनम् ॥
कृतोपवासा कन्यैव नारी वा द्विजसत्तम ॥ १२२-२९ ॥
ताम्रे वा मृन्मये वापि सौवर्णे राजते तथा ॥
रतिकामौ प्रविन्यस्य गन्धाद्यैः सम्यगर्चयेत् ॥ १२२-३० ॥
ततस्तु द्विजदाम्पत्यं चतुर्दश्यां निमन्त्र्य च ॥
सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे ॥ १२२-३१ ॥
एवं चतुर्दशाब्दं च कृत्वा व्रतमनुत्तमम् ॥
धेनुयुग्मान्विते देये व्रतसम्पूर्तिहेतवे ॥ १२२-३२ ॥
भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् ॥
लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम् ॥ १२२-३३ ॥
पञ्चामृतेन संस्नाप्य मण्डलेऽष्टदले शुभे ॥
पीठे विन्यस्य वस्त्राढ्यं गन्धाद्यैः परिपूजयेत् ॥ १२२-३४ ॥
आरार्तिकं ततः कृत्वा दद्यात्सान्नोदकं घटम् ॥
एवं दिनत्रयं कृत्वा व्रतान्ते मासमर्च्य च ॥ १२२-३५ ॥
सम्यगर्थं च सम्पाद्य दद्यान्मन्त्रेण नारद ॥
पञ्चगावः समुत्पन्ना मथ्यमाने महोदधौ ॥ १२२-३६ ॥
तासां मध्ये तु या नन्दा तस्यै धेन्वै नमो नमः ॥
प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मन्त्रतः ॥ १२२-३७ ॥
गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ॥
गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम् ॥ १२२-३८ ॥
ततश्च द्विजदाम्पत्यं सम्यगभ्यर्च्य भोजयेत् ॥
लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत् ॥ १२२-३९ ॥
अश्वमेधसहस्राणि राजसूयशतानि च ॥
कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत् ॥ १२२-४० ॥
इषे शुक्लत्रयोदश्यां त्रिरात्रशोककव्रतम् ॥
हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः ॥ १२२-४१ ॥
उपवासपरा नारी नित्यं कुर्यात्प्रदक्षिणाः ॥
अष्टोत्तरशतं विप्र मन्त्रेणानेन सादरम् ॥ १२२-४२ ॥
हरेण निर्मितः पूर्वं त्वमशोक कृपालुना ॥
लोकोपकारकरणस्तत्प्रसीद शिवप्रिय ॥ १२२-४३ ॥
ततस्तृतीये दिवसे वृक्षे तस्मिन्वृषध्वजम् ॥
समभ्यर्च्य विधानेन द्विजं सम्भोज्य दापयेत् ॥ १२२-४४ ॥
एवं कृतव्रता नारी वैधव्यं नाप्नुयात्क्वचित् ॥
पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा ॥ १२२-४५ ॥
ऊर्ज्जकृष्णत्रयोदश्यामेकभक्तः समाहितः ॥
प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः ॥ १२२-४६ ॥
गृहद्वारे बहिर्दद्याद्यमो मे प्रीयतामिति ॥
एवं कृते तु विप्रेन्द्र यमपीडा न जायते ॥ १२२-४७ ॥
ऊर्ज्शुक्लत्रयोदश्यामेकभोजी द्विजोत्तम ॥
पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः ॥ १२२-४८ ॥
प्रदीपानां सहस्रेण शतेनाप्यथवा द्विज ॥
प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया ॥ १२२-४९ ॥
घृतेन दीपयेद्द्वीपान्गन्धाद्यैः पूजयेच्छिवम् ॥
फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद ॥ १२२-५० ॥
ततः स्तुवीत देवेशं शिवं नाम्नां शतेन च ॥
तानि नामानि कीर्त्यन्ते सर्वाभीष्टप्रदानि वै ॥ १२२-५१ ॥
नमो रुद्राय भीमाय नीलकण्ठाय वेधसे ॥
कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः ॥ १२२-५२ ॥
वृषध्वजाय सोमाय सोमनाथाय वै नमः ॥
दिगम्बराय भृङ्गाय उमाकान्ताय वर्द्धिने ॥ १२२-५३ ॥
तपोमयाय व्याप्ताय शिपिविष्याय वै नमः ॥
व्यालप्रियाय व्यालाय व्यालानां पतये नमः ॥ १२२-५४ ॥
महीधराय व्योमाय पशूनां पतये नमः ॥
त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च ॥ १२२-५५ ॥
मिताय मितनाथाय सिद्धाय परमेष्ठिने ॥
वेदगीताय गुप्ताय वेदगुह्याय वै नमः ॥ १२२-५६ ॥
दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे ॥
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ॥ १२२-५७ ॥
कल्याणाय विशिष्याय शिष्टाय परमात्मने ॥
गजकृत्ति धरायाथ अन्धकासुरभेदिने ॥ १२२-५८ ॥
नीललोहितशुक्लाय चडमुण्डप्रियाय च ॥
भक्तिप्रियाय देवाय यज्ञान्तायाव्ययाय च ॥ १२२-५९ ॥
महेशाय नमस्तुभ्यं महादेवहराय च ॥
त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः ॥ १२२-६० ॥
अर्थायार्थस्वरूपाय परमार्थाय वै नमः ॥
विश्वरूपाय विश्वाय विश्वनाथाय वै नमः ॥ १२२-६१ ॥
शङ्कराय च कालाय कालावयवरूपिणे ॥
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः ॥ १२२-६२ ॥
श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे ॥
शशाङ्कशेखरायाथ रुद्रभूमिश्रिताय च ॥ १२२-६३ ॥
दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे ॥
लिङ्गरूपाय लिङ्गाय लिङ्गानपतये नमः ॥ १२२-६४ ॥
नमः प्रभावरूपाय प्रभावार्थाय वै नमः ॥ १२२-६५ ॥
नमो नमः कारणकारणाय ते मृत्युञ्जयायात्मभवस्वरूपिणे ॥
त्रियम्बकाय शितिकण्ठभार्गिणे गौरीयुजे मङ्गलहेतवे नमः ॥ १२२-६६ ॥
नाम्नां शतमिदं विप्र पिनाकिगुणकीर्तनम् ॥
पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम् ॥ १२२-६७ ॥
एवं कृत्वा व्रतं विप्र महादेवप्रसादतः ॥
भुक्त्वेह भोगानखिलानन्ते शिवपदं लभेत् ॥ १२२-६८ ॥
मार्गशुक्लत्रयोदश्यां योऽनङ्गं विधिना यजेत् ॥
त्रिकालमेककालं वा शिवसङ्गमसम्भवम् ॥ १२२-६९ ॥
गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानतः ॥
घटे मङ्गलपट्टे वा भोजयेद्द्विजदम्पती ॥ १२२-७० ॥
ततश्च दक्षिणां दत्वा स्वयमेकाशनं चरेत् ॥
एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः ॥ १२२-७१ ॥
जायते भुवि विप्रेन्द्र महादेवप्रसादतः ॥ १२२-७१ ॥
पौषशुक्लत्रयोदश्यां समभ्यर्च्याच्युतं हरिम् ॥
घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये ॥ १२२-७२ ॥
माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम् ॥
माघस्नानव्रतं विप्र नानाकामफलावहम् ॥ १२२-७३ ॥
प्रयागे माघमासे तु त्र्यहं स्नातस्य यत्फलम् ॥
नाश्वमेघसहस्रेण तत्फलं लभते भुवि ॥ १२२-७४ ॥
तत्र स्नानं जपो होमो दानं चानन्त्यमश्नुते ॥
फाल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः ॥ १२२-७५ ॥
नमस्कृत्य जगन्नाथं प्रारम्भे धनदव्रतम् ॥
महाराजं यक्षपतिं गन्धाद्यैरुपचारकैः ॥ १२२-७६ ॥
लिखितं वर्णकैः पट्टे पूजयेद्भक्तिभावतः ॥
एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम ॥ १२२-७७ ॥
सम्पूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः ॥
ततो व्रतान्ते तु पुनः सौवर्णं धननायकम् ॥ १२२-७८ ॥
विधाय निधिभिः सार्द्धं सौवर्णाभिर्द्विजोत्तम ॥
उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः ॥ १२२-७९ ॥
नैवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः ॥
ततो धेनुमलङ्कृत्य वस्त्रस्रग्गन्धभूषणैः ॥ १२२-८० ॥
सवत्सां दापयेद्विप्र सम्यग्वेदविदे शुभाम् ॥
सम्भोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश ॥ १२२-८१ ॥
गुरुं समर्च्य वस्त्राद्यैः प्रतिमां तां निवेदयेत् ॥
द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च ॥ १२२-८२ ॥
स्वयं भुञ्जीत मतिमानिष्टैः सह समाहितः ॥
एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम् ॥ १२२-८३ ॥
मोदते भुवि विख्यातो राजराज इवापरः ॥ १२२-८४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः ॥ १२२ ॥