१२१

सनातन उवाच ॥
अथ व्रतानि द्वादश्याः कथयामि तवानघ ॥
यानि कृत्वा नरो लोके विष्णोः प्रियतरो भवेत् ॥ १२१-१ ॥

चैत्रस्य शुक्लद्वादश्यां मदनव्रतमाचरेत् ॥
स्थापयेदव्रणं कुम्भं सिततन्दुलपूरितम् ॥ १२१-२ ॥

नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् ॥
सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम् ॥ १२१-३ ॥

नानाभक्ष्यसमोपेतं सहिरण्यं स्वशक्तितः ॥
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥ १२१-४ ॥

तत्र सम्पूजयेद्देवं कामरूपिणमच्युतम् ॥
गन्धाद्यैरुपचारैस्तु सोपवासो परेऽहनि ॥ १२१-५ ॥

पुनः प्रातः समभ्यर्च्य ब्राह्मणाय निवेदयेत् ॥
ब्रह्मणान्भोजयेच्चैव तेभ्यो दद्याच्च दक्षिणाम् ॥ १२१-६ ॥

वर्षमेवं व्रतं कृत्वा घृतधेनुसमन्विताम् ॥
शय्यां तु दद्याद्गुरवे सर्वोपस्करसंयुताम् ॥ १२१-७ ॥

काञ्चनं कामदेवं च शुक्तां गां च पयस्विनीम् ॥
वासोभिर्द्विजदाम्पत्यं पूजयित्वा समर्पयेत् ॥ १२१-८ ॥

प्रीयतां कामरूपी मे हरिरित्येवमुच्चरन् ॥
यः कुर्याद्विधिनाऽनेन मदनद्वादशीव्रतम् ॥ १२१-९ ॥

स सर्वपापनिर्भुक्तः प्राप्नोति हरिसाम्यताम् ॥
अस्यामेव समुद्दिष्टं भर्तृद्वादशिकाव्रतम् ॥ १२१-१० ॥

स्वास्तृतां तत्र शय्यां तु कृत्वात्र श्रीयुतं हरिम् ॥
संस्थाप्य मण्डपं पुष्पैस्तदुपर्प्युपकल्पयेत् ॥ १२१-११ ॥

ततः सम्पूज्य गन्धाद्यैर्व्रती जागरणं निशि ॥
नृत्यवादित्रगीताद्यैस्ततः प्रातः परेऽहनि ॥ १२१-१२ ॥

सशय्यं श्रीहरिं हैमं द्विजग्र्याय निवेदयेत् ॥
द्विजान्सम्भोज्य विसृजद्दक्षिणाभिः प्रतोषितान् ॥ १२१-१३ ॥

एवं कृतव्रतस्यापि दाम्पत्यं जायते स्थिरम् ॥
सप्तजन्मसु भुङ्क्ते च भोगान् लोकद्वयेप्सितान् ॥ १२१-१४ ॥

वैशाखशुक्लद्वादश्यां सोपवासो जितेन्द्रियः ॥
सम्पूज्य माधवं भक्त्या गन्धाद्यैरुपचारकैः ॥ १२१-१५ ॥

पक्कान्नं तृप्तिजनकं मधुरं सोदकुम्भकम् ॥
विप्राय दद्याद्विधिवन्माधवः प्रीयतामिति ॥ १२१-१६ ॥

द्वादश्यां ज्येष्ठशुक्लायां पूजयित्वा त्रिविक्रमम् ॥
गन्धाद्यैर्मधुरान्नाढ्यं करक विनिवेदयेत् ॥ १२१-१७ ॥

व्रती द्विजाय तत्पश्चादेकभक्तं समाचरेत् ॥
व्रतेनानेन सन्तुष्टो देवदेवस्त्रिविक्रमः ॥ १२१-१८ ॥

ददाति विपुलान्भोगानन्ते मोक्षं च नारद ॥
आषाढशुक्लद्वादश्यां द्विजान्द्वादश भोजयेत् ॥ १२१-१९ ॥

मधुरान्नेन तान्पूज्य पृथग्गन्धादिकैः क्रमात् ॥
तेभ्यो वासांसि दण्डांश्च ब्रह्मसूत्राणि मुद्रिकाः ॥ १२१-२० ॥

पात्राणि च ददेद्भक्त्या विष्णुर्मे प्रीयतामिति ॥
द्वादश्यां तु नभःशुक्ले श्रीधरं पूजयेद्व्रती ॥ १२१-२१ ॥

गन्धाद्यैस्तत्परो भक्त्या दधिभक्तैर्द्विजोत्तमान् ॥
सम्भोज्य दक्षिणा रौप्यां दत्वा नत्वा विसर्ज्जयेत् ॥ १२१-२२ ॥

व्रतेनानेन देवेशः श्रीधरः प्रीयतामिति ॥
द्वादश्यां नभस्यशुक्ले व्रती सम्पूज्य वामनम् ॥ १२१-२३ ॥

तदग्रे भोजयेद्विप्रान्पायसैर्द्वादशैव च ॥
सौवर्णी दक्षिणां दत्वा विष्णुप्रीतिकरो भवेत् ॥ १२१-२४ ॥

द्वादश्यामिषशुक्लायां पद्मनाभं समर्चयेत् ॥
गन्धाद्यैरुपचारैस्तु तदग्रे भोजयेद्द्विजान् ॥ १२१-२५ ॥

मधुरान्नेन वस्त्राढ्यां सौवर्णीं दक्षिणां ददेत् ॥
व्रतेनैतेन सन्तुष्टः पद्मनाभो द्विजोत्तम ॥ १२१-२६ ॥

श्वेतद्वीपगतिं दद्याद्देहभोगांश्च वाञ्छितान् ॥
कार्तिके कृष्णपक्षे तु गोवत्सद्वादशीव्रतम् ॥ १२१-२७ ॥

तत्र वत्सयुतां गां तु समालिख्य सुगन्धिभिः ॥
चन्दनाद्यैस्तथा पुष्पमालाभिः प्रार्च्य ताम्रके ॥ १२१-२८ ॥

पात्रे पुष्पाक्षततिलैरर्घ्यं कृत्वा विधानतः ॥
प्रदद्यात्पादमूलेऽस्या मन्त्रेणानेन नारद ॥ १२१-२९ ॥

क्षीरोदार्णवसम्भूते सुरासुरनमस्कृते ॥
सर्वदेवमये देवि सर्वदेवैरलङ्कृते ॥ १२१-३० ॥

मातर्मातर्गवां मातर्गृहाणार्घ्यं नमोऽस्तु ते ॥
ततो माषादिसंसिद्धान्वटकांश्च निवेदयेत् ॥ १२१-३१ ॥

एवं पञ्च दशैकं वा यथाविभवमात्मनः ॥
सुरभि त्वं जगन्माता नित्यं विष्णुपदे स्थिता ॥ १२१-३२ ॥

सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस ॥
सर्वदेवमये देवि सर्वदेवैरलङ्कृते ॥ १२१-३३ ॥

मातर्ममाभिलषितं सफलं कुरु नन्दिनी ॥
तद्दिने तैलपक्वं च स्थालीपक्वं द्विजोत्तम ॥ १२१-३४ ॥

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत् ॥
द्वादश्यामूर्जशुक्लायां देवं दामोदरं द्विज ॥ १२१-३५ ॥

समभ्यर्च्योपचारैस्तु गन्धाद्यैः सुसमाहितः ॥
तदग्रे भोजयेद्विप्रान्पक्वान्नेनार्कसङ्ख्यकान् ॥ १२१-३६ ॥

ततः कुम्भानपाम्पूर्णान्वस्त्राच्छन्नान्समर्चितान् ॥
सपूगमोदकस्वर्णांस्तेभ्यः प्रीत्या समर्पयेत् ॥ १२१-३७ ॥

एवं कृते प्रियो विष्णोर्जायतेऽखिलभोगभुक् ॥
देहान्ते विष्णुसायुज्यं लभते नात्र संशयः ॥ १२१-३८ ॥

नीराजनव्रतं चात्र गदितं तन्निबोध मे ॥
सुप्तोत्थितं जगन्नाथमलङ्कृत्य निशागमे ॥ १२१-३९ ॥

अलङ्कृतो नवं वह्निमुत्पाद्याभ्यर्च्य मन्त्रतः ॥
हुत्वा तत्र समुद्दीप्ते रौप्य दीपिकया मुने ॥ १२१-४० ॥

गन्धपुष्पाद्यर्चितया जनैर्नीराजयेद्धरिम् ॥
तत्रैवानुगतां लक्ष्मीं ब्रह्माणीं चण्डिकां तथा ॥ १२१-४१ ॥

आदित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान् ॥
मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्क्रमात् ॥ १२१-४२ ॥

गवां नीराजनं कुर्यान्महिष्यादेश्च मण्डलम् ॥
नमो जयेति शब्दैश्च घण्टाशङ्खा दिनिःस्वनैः ॥ १२१-४३ ॥

सिन्दूरालिप्तश्रृङ्गाणां चित्राङ्गाणां च वर्णकैः ॥
गवां कोलाहले वृत्ते नीराजनमहोत्सवे ॥ १२१-४४ ॥

तुरगांल्लक्षणोपेताम् गजांश्च मदविप्लुतान् ॥
राजचिह्नानि सर्वाणि च्छत्रादीनि च नारद ॥ १२१-४५ ॥

राजा पुरोधसा सार्धं मन्त्रिभृत्यपरः सरः ॥
पूजयित्वा यथान्यायं नीरज्य स्वयमादरात् ॥ १२१-४६ ॥

शङ्खतूर्यादिघोषैश्च नानारत्नविनिर्मिते ॥
सिंहासने नवे क्लृप्ते तिष्ठेत्सम्यगलङ्कृतः ॥ १२१-४७ ॥

ततः सुलक्षणैर्युक्ता वेश्या वाथ कुलाङ्गना ॥
शीर्षोपरि नरेन्द्रस्य तया नीराजयेच्छनैः ॥ १२१-४८ ॥

एवमेषा महासान्तिः कर्तव्या प्रतिवत्सरम् ॥
राज्ञा वित्तवतान्येन वर्षमारोग्यमिच्छता ॥ १२१-४९ ॥

येषां राष्ट्रे पुरे ग्रामे क्रियते शान्तिरुत्तमा ॥
नीराजनाभिधा विप्र तद्रोगा यान्ति सङ्क्षयम् ॥ १२१-५० ॥

द्वादश्यां मार्गशुक्लायां साध्यव्रतमनुत्तमम् ॥
मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान् ॥ १२१-५१ ॥

चितिर्हयो नृपश्चैव हंसो नारायणस्तथा ॥
विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥ १२१-५२ ॥

पूजयेद्गन्धपुष्पाद्यैरेतांस्तन्दुलकल्पितान् ॥
ततो द्विजाग्र्यान्सम्भोज्य द्वादशात्र सुदक्षिणाः ॥ १२१-५३ ॥

दत्वा तेभ्यस्तु विसृजेत्प्रीयान्नारयणस्त्विति ॥
एतस्यामेव विदितं द्वादशादित्यसञ्ज्ञितम् ॥ १२१-५४ ॥

व्रतं तत्रार्चयेद्धीमानादित्यान्द्वादशापि च ॥
धातामित्रोऽर्यमा पूषा शक्रोंऽशो वरुणो भगः ॥ १२१-५५ ॥

त्वष्टा विवस्वान्सविता विष्णुर्द्वादश ईरिताः ॥
प्रतिमासं तु शुक्लायां द्वादश्यामर्च्य यत्नतः ॥ १२१-५६ ॥

वर्षं नयेद्व्रतान्ते तु प्रतिमा द्वादशापि च ॥
हैमीः सम्पूज्य विधिना भोजयित्वा द्विजोत्तमान् ॥ १२१-५७ ॥

मधुरान्नैः सुसत्कृत्य प्रत्येकं चार्पयेद्व्रती ॥
एव व्रतं नरः कृत्वा द्वादशादित्यसञ्ज्ञकम् ॥ १२१-५८ ॥

सूर्यलोकं समासाद्य भुक्त्वा भोगांश्चरं ततः ॥
जायते भुवि धर्मात्मा मानुष्ये रोगवर्जितः ॥ १२१-५९ ॥

ततो व्रतस्य पुण्येन पुनरेव लभेद्व्रतम् ॥
तत्पुण्येन रवेन्भित्वा मण्डलं द्विजसत्तम ॥ १२१-६० ॥

निरञ्जनं निरा कारं निर्द्वन्द्वं ब्रह्म चाप्नुयात् ॥
अत्रैवाखण्डसञ्ज्ञं च व्रतमुक्त द्विजोत्तम ॥ १२१-६१ ॥

मूर्तिं निर्माय सौवर्णीं जनार्दनसमाह्वयाम् ॥
अभ्यर्च्य गन्धपुष्पाद्यैस्तदग्रे भोजयेद्द्विजान् ॥ १२१-६२ ॥

द्वादश प्रतिमासं तु नक्ताशीः स्याज्जितेन्द्रियः ॥
ततः समान्ते तां मूर्तिं समभ्यर्च्य विधानतः ॥ १२१-६३ ॥

गुरवे धेनुसहितां दद्यात्सम्प्रार्थयेत्तथा ॥
शतजन्मसु यत्किञ्चिन्मयाखण्डव्रतं कृतम् ॥ १२१-६४ ॥

भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥
ततः सम्भोज्य विप्राग्र्यान्सखण्डाढ्यैस्तु पायसैः ॥ १२१-६५ ॥

द्वादशैव हि सौवर्णीं दक्षिणां प्रददेन्नमेत् ॥
इति कृत्वा व्रतं विप्र प्रीणयित्वा जनार्दनम् ॥ १२१-६६ ॥

सौवर्णेन विमानेन याति विष्णोः परं पदम् ॥
पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम् ॥ १२१-६७ ॥

दशम्यां विधिवत्स्नात्वा गृह्णीयाद्गोमयं व्रती ॥
श्वेताया वैकवर्णाया अन्तरिक्षगतं द्विज ॥ १२१-६८ ॥

अष्टोत्तरशतं तेन पिण्डिकाः कल्प्य नारद ॥
शोषयेदातपे धृत्वा पात्रे ताम्रेऽथ मृन्मये ॥ १२१-६९ ॥

एकादश्यां सोपवासः समभ्यर्च्य विधानतः ॥
सौवर्णीं प्रतिमां विष्णोर्निशायां जागरं चरेत् ॥ १२१-७० ॥

सुमङ्गलैर्गीतवाद्यैः स्तोत्रपाठैर्जपादिभिः ॥
ततः प्रभाते द्वादश्यां तिलपात्रोपरि स्थिताम् ॥ १२१-७१ ॥

अम्बुपूर्णे घटे न्यस्य पूजयेदुपचारकैः ॥
ततोऽग्निं नवमुत्पाद्य काष्ठसङ्घर्षणादिभिः ॥ १२१-७२ ॥

तं समभ्यर्च्य विधिवदेकैकां पिण्डिकां सुधीः ॥
होमयेत्सतिलाज्यां च द्वादशाक्षरविद्यया ॥ १२१-७३ ॥

वैष्णव्याथ च पूरणां च शतमष्टोत्तर ततः ॥
भोजयेत्पायसैर्विप्रान्प्रीत्या सुस्निग्धमानसः ॥ १२१-७४ ॥

सहितां च घटेनैव प्रतिमां गुरवऽपेयेत् ॥
विप्रेभ्यो दक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ॥
नरो वा यदि वा नारी व्रतं कृत्वैवमादरात् ॥ १२१-७५ ॥

लभते रूपसौभाग्यं नात्र कार्या विचारणा ॥
सहस्ये शुक्लपक्षे तु सुजन्मद्वादशीव्रतम् ॥ १२१-७६ ॥

स्नात्वा विधानेन गृह्णोयाद्वार्षिकव्रतम् ॥
पीत्वा गश्रृङ्गवार्यादौ तां च कृत्वा प्रदक्षिणम् ॥ १२१-७७ ॥

प्रतिमासं ततः शुक्लेद्वादश्यां दानमाचरेत् ॥
घृतप्रस्थं तच्चतुष्कं क्रमाद्वीहेर्यवस्य च ॥ १२१-७८ ॥

द्विरक्तिकं हेम तिलाढकार्द्धं पयसां घटम् ॥
रौप्यस्य माषमेकं च तृप्तिकृन्मिष्टपक्वकम् ॥ १२१-७९ ॥

छत्रं माषार्धहेम्नश्च प्रस्थं फाणितमुत्तमम् ॥
चन्दनं पलिकं वस्त्रं पञ्चहस्तोन्मितं तनुम् ॥ १२१-८० ॥

एवं तु मासिकं दानं कृत्वा प्राश्य यथाक्रमम् ॥
गोमूत्रं जलमाज्यं वा पक्त्वा शाकं चतुर्विधम् ॥ १२१-८१ ॥

दधियुक्तं च यावान्नं तिलाज्यं शर्करान्विताम् ॥
दर्भाम्बुक्षीरमुदितं प्राशनं प्रतिमासिकम् ॥ १२१-८२ ॥

एवं कृतव्रतो वर्षं सौवर्णीं प्रतिमां रवेः ॥
कृत्वा वै ताम्रपात्रस्थां न्यस्याभ्यर्च्य विधानतः ॥ १२१-८३ ॥

गुरवे धेनुसहितां प्रत्यर्प्य प्रणमेत्पुरः ॥
विप्रान्द्रादश सम्भोज्य तेभ्यो दद्याच्च दक्षिणाम् ॥ १२१-८४ ॥

एवं कृतव्रतो विप्र जन्माप्नोत्युत्तमे कुले ॥
निरोगो धनधान्याढ्यो भवेच्चाविकलेद्रियः ॥ १२१-८५ ॥

माघस्य शुक्लद्वादश्यां शालग्रामशिलां द्विज ॥
अभ्यच्य विधिवद्भक्त्या सुवर्णं तन्मुखे न्यसेत् ॥ १२१-८६ ॥

तां स्थाप्य रौप्यपात्रे तु सितवस्त्रयुगावृताम् ॥
प्रदद्याद्वेदविदुषे तं हि सम्भोजयेत्ततः ॥ १२१-८७ ॥

पायसान्नेन खण्डाज्यसहितेन हितेन च ॥
एवं कृत्वैकभक्तः सन्विष्णु चिन्तनतत्परः ॥ १२१-८८ ॥

वैष्णवं लभते धाम भुक्त्वा भोगानिहेप्सितान् ॥
अन्त्ये सितायां द्वादश्यां सौवर्णीं प्रतिमां हरेः ॥ १२१-८९ ॥

अभ्यर्च्य गन्धपुष्पाद्यैर्दद्याद्वेदविदे द्विज ॥
द्विषट्कसङ्ख्यान्विप्रांश्च भोजयित्वा च दक्षिणाम् ॥ १२१-९० ॥

दत्वा विसर्जयेत्पश्चात्स्वयं भुञ्जीत बान्धवैः ॥
त्रिस्पृशोन्मीलिनी पक्षवर्द्धिनी वञ्जुली तथा ॥ १२१-९१ ॥

जया च विजया चैव जयन्ती चापराजिता ॥
एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः ॥ १२१-९२ ॥

श्रीनारद उवाच ॥
कीदृशं लक्षणं ब्रह्मन्नेतासां किं फलं तथा ॥
तत्सर्वं मे समाचक्ष्व याश्चन्याः पुण्यदायिकाः ॥ १२१-९३ ॥

सूत उवाच ॥
इत्थं सनातनः पृष्टो नारदेन द्विजोत्तमः ॥
प्रशस्य भ्रातरं प्राह महाभागवतं मुनिः ॥ १२१-९४ ॥

सनातन उवाच ॥
साधु पृष्टं त्वया भ्रातः साधूनां संशयच्छिदा ॥
वक्ष्ये महाद्वादशीनां लक्षणं च फलं पृथक् ॥ १२१-९५ ॥

एकादशी निवृत्ता चेत्सूर्यस्योदयतः पुरा ॥
तदा तु त्रिस्पृशा नाम द्वादशी सा महाफला ॥ १२१-९६ ॥

अस्यामुपोष्य गोविन्दं यः पूजयति नारद ॥
अश्वमेधसहस्रस्य फलं लभते ध्रुवम् ॥ १२१-९७ ॥

यदारुणोदये विद्धा दशम्यैकादशी तिथिः ॥
तदा तां सम्परित्यज्य द्वादशीं समुपोषयेत् ॥ १२१-९८ ॥

तत्रेष्ट्वा वासुदेवाख्यं सम्यक्पूजाविधानतः ॥
राजसूयसहस्रस्य फलमुन्मीलिते लभेत् ॥ १२१-९९ ॥

यदोदये तु सवितुर्याम्या त्वेकादशीं स्पृशेत् ॥
तदा वञ्जुलिकाख्यां तु तां त्यक्त्वोपोषयेत्सदा ॥ १२१-१०० ॥

अस्यां सङ्कर्षणं देवं गन्धाद्यैरुपचारकैः ॥
पूजयेत्सततं भक्त्या सर्वस्याभयदं परम् ॥ १२१-१०१ ॥

एषा महाद्वादशी तु सर्वक्रतुफलप्रदा ॥
सर्वपापहरा प्रोक्ता सर्वसम्पत्प्रदायिनी ॥ १२१-१०२ ॥

कुहूराके यदा वृद्धे स्यातां विप्र यदा तदा ॥
पक्षवर्द्धनिका नाम द्वादशी सा महाफला ॥ १२१-१०३ ॥

तस्यां सम्पूजयेद्देवं प्रद्युम्नं जगतां पतिम् ॥
सर्वैश्वर्य्यप्रदं साक्षात्पुत्र पौत्रविवर्धनम् ॥ १२१-१०४ ॥

यदा तु धवले पक्षे द्वादशी स्यान्मधान्विता ॥
तदा प्रोक्ता जया नाम सर्वशत्रुविनाशिनी ॥ १२१-१०५ ॥

अस्यां सम्पूजयेद्देवमनिरुद्धं रमापतिम् ॥
सर्वकामप्रदं नॄणां सर्वसौभाग्यदायकम् ॥ १२१-१०६ ॥

श्रवणर्क्षयुता चेत्स्याद्द्वादशी धवले दले ॥
तदा सा विजया नाम तस्यामचेद्गदाधरम् ॥ १२१-१०७ ॥

सर्वसौख्यप्रदं शश्वत्सर्वभोगपरायणम् ॥
सर्वतीर्थफलं विप्र तां चोपोष्याप्नुयान्नरः ॥ १२१-१०८ ॥

यदा स्याच्च सिते पक्षे प्राजापत्यर्क्षसंयुता ॥
द्वादशी सा महापुण्या जयन्ती नामतः स्मृता ॥ १२१-१०९ ॥

यस्यां समर्च्चयेद्देवं वामनं सिद्धिदं नृणाम् ॥
उपोषितैषा विप्रेन्द्र सर्वव्रतफलप्रदा ॥ १२१-११० ॥

सर्वदानफला चापि भुक्तिमुक्तिप्रदायिनी ॥
यदा तु स्यात्सिते पक्षे द्वादशी जीवभान्विता ॥ १२१-१११ ॥

तदापराजिता प्रोक्ता सर्वज्ञानप्रदायिनी ॥
अस्यां समर्चयेद्देवं नारायणमनामयम् ॥ १२१-११२ ॥

संसारपाशविच्छित्तिकारकं ज्ञानसागरम् ॥
अस्यास्तूपोषणादेव मुक्तः स्याद्विप्र भोजनः ॥ १२१-११३ ॥

यदा त्वाषाढशुक्लायां द्वादश्यां मैत्रभं भवेत् ॥
तदा व्रतद्वयं कार्य्यं न दोषोऽत्रैकदैवतम् ॥ १२१-११४ ॥

श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके ॥
ऊर्ज्जे सितायां द्वादश्यामन्त्यभे च व्रतद्वयम् ॥ १२१-११५ ॥

एताभ्योऽन्त्र विप्रेन्द्र द्वादश्यामेकभुक्तकम् ॥
निसर्गतः समुद्दिष्टं व्रतं पातकनाशनम् ॥ १२१-११६ ॥

एकादश्या व्रतं नित्यं द्वादश्याः सहितं यतः ॥
नोद्यापनमिहोद्दिष्टं कर्त्तव्यं जीविताविधि ॥ १२१-११७ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने पूर्वभागे चतुर्थपादे द्वादशमासस्य द्वादशीव्रतनिरूपणं नामैकविंशत्यधिकशततमोऽध्यायः ॥ १२१ ॥