सनातन उवाच ॥
एकादश्यां तु दलयोर्निराहारः समाहितः ॥
नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम् ॥ १२०-१ ॥
स्रात्वा सम्यग्विधानेन सोपवासो जितेन्द्रियः ॥
सम्पूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः ॥ १२०-२ ॥
उपचारैर्बहुविधैर्जपैर्होमैः प्रदक्षिणैः ॥
स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः ॥ १२०-३ ॥
दण्डवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः ॥
रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम् । १२०-४ ॥
चैत्रस्य शुक्लैकादश्यां सोपवासो नरोत्तमः ॥
कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये ॥ १२०-५ ॥
द्वादश्यामर्चयेद्भक्तया वासुदेवं सनातनम् ॥
उपचारैः षोडशभिस्ततः सम्भोज्य बान्धवान् ॥ १२०-६ ॥
दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत च स्वयम् ॥।
इयं तु कामदा नाम सर्वपातकनाशिनी ॥ १२०-७ ॥
भुक्तिमुक्तिप्रदा विप्र भक्त्या सम्यगुपोषिता ॥
वैशाखकृष्णैकादश्यां समुपोष्य विधानतः ॥ १२०-८ ॥
वरूथिनीं परदिने पूजयेन्मृधुसूदनम् ॥
स्वर्णान्नकन्याधेनूनां दानमत्र प्रशस्यते ॥ १२०-९ ॥
वरूथिनीव्रतं कृत्वा नरो नियमतत्परः ॥
सर्वपाप विनिर्मुक्तो वैष्णवं लभते पदम् ॥ १२०-१० ॥
वैशाखशुक्लैकादश्यां समुपोष्य च मोहिनीम् ॥
स्नात्वा परेऽह्नि सम्पूज्य गन्धाद्यैः पुरुषोत्तमम् ॥ १२०-११ ॥
सम्भोज्य विप्रान्मुच्येत पातकेभ्यो न संशयः ॥
ज्येष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप ॥ १२०-१२ ॥
द्वादश्यां नैत्यिकं कृत्वा समभ्यर्च्य त्रिविक्रमम् ॥
ततो द्विजाग्र्यान्सम्भोज्य दत्वा तेभ्यश्च दक्षिणाम् ॥ १२०-१३ ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥
ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु ॥ १२०-१४ ॥
उदयादुदयं यावद्भास्करस्य द्विजोत्तम ॥
प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः ॥ १२०-१५ ॥
ह्यषीकेशं समभ्यर्च्य विप्रान् सम्भोज्य भक्तितः ॥
चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात् ॥ १२०-१६ ॥
आषाढकृष्णैकादश्यां योगिनीं समुपोष्य वै ॥
नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः ॥ १२०-१७ ॥
ततः सम्भोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ॥
सर्वदानफलं प्राप्य मोदते विष्णुमन्दिरे ॥ १२०-१८ ॥
आषाढशुक्लैकादश्यां यद्विधानं श्रृणुष्व तत् ॥
उपोष्य तस्मिन् दिवसे विधिवन्मण्डपे शुभे ॥ १२०-१९ ॥
स्थापयेत्प्रतिमां विष्णोः शङ्खचक्रगदाम्बुजैः ॥
लसच्चतुर्भुजामग्र्यां काञ्चनीं वाथ राजतीम् ॥ १२०-२० ॥
पीताम्बरधरां शुभ्रे पर्य्यङ्के स्वास्तृते द्विज ॥
ततः पञ्चामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च ॥ १२०-२१ ॥
पौरुषेणैव सूक्तेन ह्युपचारान् प्रकल्पयेत् ॥
नीराजनान्तान्पाद्यादींस्ततः सम्प्रार्थयेद्धरिम् ॥ १२०-२२ ॥
सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् ॥
विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम् ॥ १२०-२३ ॥
इति सम्प्रार्थ्य देवाग्रे चातुर्मास्यप्रचोदितान् ॥
नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः ॥ १२०-२४ ॥
ततः प्रभाते द्वादश्यां समर्चेच्छेषशायिनम् ॥
उपचारैः षोडशभिस्ततः सम्भोज्य वाडवान् ॥ १२०-२५ ॥
प्रतोष्य दक्षिणाभिश्च स्वयं भुञ्जीत वाग्यतः ॥
ततः प्रभृति विप्रेन्द्र गन्धाद्यैः प्रत्यहं यजेत् ॥ १२०-२६ ॥
कृत्वैवं विधिना विप्र देवस्य शयनीव्रतम् ॥
भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः ॥ १२०-२७ ॥
श्रावणे कृष्णपक्षे तु एकादश्यां द्विजोत्तम ॥
कामिकां समुपोष्यैव नियमेन नरोत्तम ॥ १२०-२८ ॥
द्वादश्यां कृतनित्यस्तु श्रीधरं पूजयेद्धरिम् ॥
उपचारैः षोडश भिस्ततः सम्भोज्य वै द्विजान् ॥ १२०-२९ ॥
दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत बान्धवैः ॥
एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम् ॥ १२०-३० ॥
स सर्वकामाँल्लब्ध्वेह याति विष्णोः परं पदम् ॥
एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै ॥ १२०-३१ ॥
द्वादश्यां नियतो भूत्वा पूजयेच्च जनार्दनम् ॥
उपचारैः षोडशभिस्ततः सम्भोज्य वाडवान् ॥ १२०-३२ ॥
दत्वा च दक्षिणां तेभ्यः पुत्रं प्राप्येह सद्गुणम् ॥
याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः ॥ १२०-३३ ॥
नभस्यकृष्णैकादश्यामजाख्यां समुपोष्य वै ॥
अर्चेदुर्पेन्द्रं द्वादश्यामुपचारैः पृथग्विधैः ॥ १२०-३४ ॥
विप्रान्सम्भोज्य मिष्टान्नैर्विसृजेत्प्राप्तदक्षिणान् ॥
एवं कृतव्रतो विप्रभक्त्याऽजायाः समाहितः ॥ १२०-३५ ॥
भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं क्षयम् ॥
नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै ॥ १२०-३६ ॥
कृत्वा नित्यार्चनं तत्र कटिदानमथाचरेत् ॥
पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम ॥ १२०-३७ ॥
समुत्सवविधानेन नीत्वा तां सलिलाशये ॥
कृताम्बुस्पर्शनां तत्र सम्प्रपूज्य विधानतः ॥ १२०-३८ ॥
आनीय मण्डपे तस्मिन् वामपार्श्वेन शाययेत् ॥
ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम् ॥ १२०-३९ ॥
सम्भोज्य वाडवान्दत्वा दक्षिणां च विसर्जयेत् ॥
एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम् ॥ १२०-४० ॥
भुक्तिं प्राप्येह मुक्तिं तु लभतेंऽते प्रपञ्चतः ॥
इषस्य कृष्णैका दश्यामिन्दिरां समुपोष्य वै ॥ १२०-४१ ॥
शालग्रामशिलाग्रे तु मध्याह्ने श्राद्धमाचरेत् ॥
विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने ॥ १२०-४२ ॥
पद्मनाभं समभ्यर्च्य भूदेवान्भोजयेत्सुधीः ॥
विसृज्य दक्षिणां दत्वा ताँस्ततोऽश्नीत च स्वयम् ॥ १२०-४३ ॥
एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् ॥
पितॄणां कोटिमुद्धृत्य यात्यन्ते वैष्णवं गृहम् ॥ १२०-४४ ॥
एकादश्यामिषे शुक्ले विप्र पाशाङ्कुशाह्वयाम् ॥
उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत् ॥ १२०-४५ ॥
ततः सम्भोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ॥
भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः ॥ १२०-४६ ॥
एवं यः कुरुते भक्त्या नरः पाशाङ्कुशाव्रतम् ॥
स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम् ॥ १२०-४७ ॥
कार्तिके कृष्णपक्षे तु एकादश्यां द्विजोत्तम ॥
रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत् ॥ १२०-४८ ॥
केशवं केशिहन्तारं देवदेवं सनातनम् ॥
भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान् ॥ १२०-४९ ॥
एवं कृतव्रतो विप्र भोगान्भुक्त्वेह वाञ्छितान् ॥
व्योमयानेन सान्निध्यं लभते च रमापतेः ॥ १२०-५० ॥
ऊर्जस्य शुक्लैकादश्यां समुपोष्य प्रबोधिनीम् ॥
केशवं बोधयेद्रात्रौ सुप्तं गीतादिमङ्गलैः ॥ १२०-५१ ॥
ऋग्यजुःसाममन्त्रैश्च वाद्यैर्नानाविधैरपि ॥
द्राक्षेक्षुदाडिमैश्चान्यै रम्भाश्रृङ्गाटकादिभिः ॥ १२०-५२ ॥
समर्पणैस्ततो रात्र्यां व्यतीतायां परेऽहनि ॥
स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत् ॥ १२०-५३ ॥
उपचारैः षोडशभिः पौरुषेणापि सूक्ततः ॥
सम्भोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान् ॥ १२०-५४ ॥
ततस्तां प्रतिमां हैमीं सधेनुं गुरवेऽर्पयेत् ॥
एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः ॥ १२०-५५ ॥
स भुक्त्वेह वरान्भोगान्वैष्णवं लभते पदम् ॥
मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै ॥ १२०-५६ ॥
द्वादश्यां कृष्णमभ्यर्चेद्गन्धाद्यैरुपचारकैः ॥
ततः सम्भोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ॥ १२०-५७ ॥
विसृज्य पश्चाद्भुञ्जीत स्वयमिष्टैः समाहितः ॥
एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत् ॥ १२०-५८ ॥
स विमानं समारुह्य यात्यन्ते वैष्णवं पदम् ॥
मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै ॥ १२०-५९ ॥
द्वादश्यां प्रातरभ्यर्च्य ह्यनन्तं विश्वरूपकम् ॥
सर्वैरेवोपचारैस्तु विप्रान्सम्भोजयेद्द्विजः ॥ १२०-६० ॥
विसृज्य दक्षिणां दत्वा स्वयं भुञ्जीत बान्धवैः ॥
एवं कृत्वा व्रतं विप्र भुक्त्वा भोगानिहेप्सितान् ॥ १२०-६१ ॥
दश पूर्वान्दश परान्समुद्धृत्य व्रजेद्धरिम् ॥
पौपस्य कृष्णैकादश्यां सफलां समुपोष्य वै ॥
द्वादश्यामच्युतं प्रार्च्य सर्वैरेवोपचारकैः ॥ १२०-६२ ॥
सम्भोज्य विप्रान्मधुरैर्विसृजेल्लब्धदक्षिणान् ॥
एवं कृत्वा व्रतं विप्र सफलाया विधानतः ॥ १२०-६३ ॥
भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं पदम् ॥
पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै ॥ १२०-६४ ॥
द्वादश्यां चक्रिणं प्रार्येदर्घाद्यैरुपचारकैः ॥
ततः सम्भोज्य विप्राग्र्यान्दत्वा तेभ्यस्तु दक्षिणाम् ॥ १२०-६५ ॥
विसृज्य स्वयमश्नीयाच्छेषान्नं स्वेष्टबान्धवैः ॥
एवं कृतव्रतो विप्र भुक्वा भोगानिहेप्सितान् ॥ १२०-६६ ॥
विमानवरमारुह्य यात्यन्ते हरिमन्दिरम् ॥
माघम्य कृष्णैकादश्यां षट्तिलां समुपोष्य वै ॥ १२०-६७ ॥
स्नात्वा दत्वा तर्पयित्वा हुत्वा भुक्त्वा समर्च्य च ॥
तिलैरेव द्विजश्रेष्ठ द्वादश्यां प्रातरेव हि ॥ १२०-६८ ॥
वैकुण्ठं सम्यगभ्यर्व्य सर्वैरेवोपचारकैः ॥
द्विजान्सम्भोज्य विसृजेद्दत्वा तेभ्यश्च दक्षिणाम् ॥ १२०-६९ ॥
एवं कृत्वा व्रतं विप्र विधिना सुसमाहितः ॥
भुक्त्वेह वाञ्छितान्भोगानन्ते विष्णुपदं लभेत् ॥ १२०-७० ॥
माघस्य शुक्लैकादश्यां समुपोष्य जयाह्वयाम् ॥
प्रातर्हरि दिनेऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज ॥ १२०-७१ ॥
भोजयित्वा दक्षिणां च दत्वा विप्रान्विसृज्य च ॥
स्वयं भुञ्जीत तच्छेषं प्रयतो निजबान्धवैः ॥ १२०-७२ ॥
य एवं कुरुते विप्र व्रतं केशवतोषणम् ॥
स भुक्त्वेह वरान्भोगानन्ते विष्णोः पदं व्रजेत् ॥ १२०-७३ ॥
तपस्यकृष्णैकादश्यां विजयां समुपोष्य वै ॥
द्वादश्यां प्रातरभ्यर्च्य योगीशं गन्धपूर्वकैः ॥ १२०-७४ ॥
ततः सम्भोज्य भूदेवान्दक्षिणाभिः प्रतोष्य तान् ॥
विसृज्य बान्धवैः सार्द्धं स्वयमश्नीत वाग्यतः ॥ १२०-७५ ॥
एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् ॥
देहान्ते वैष्णवं लोकं याति देवैः सुसत्कृतः ॥ १२०-७६ ॥
फाल्गुनस्य सिते पक्षे एकादश्यां द्विजोत्तम ॥
उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत् ॥ १२०-७७ ॥
पुण्डरीकाक्षमखिलैरुपचारैस्ततो द्विजान् ॥
भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम् ॥ १२०-७८ ॥
एवं कृत्वा विधानेनामलक्यां पूजनादिकम् ॥
सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम् ॥ १२०-७९ ॥
चैत्रस्य कृष्णैकादशीं पापमोचनिकां द्विज ॥
उपाष्य द्वादश्याम्प्रातर्गोविन्दं पूजयेत्तथा ॥ १२०-८० ॥
उपचारैः षोडशभिर्द्विजान्सम्भोज्य दक्षिणाम् ॥
दत्वा तेभ्यो विसृज्याथ स्वयं भुञ्जीत बान्धवैः ॥ १२०-८१ ॥
एव यः कुरुते विप्र पापमोचनिकाव्रताम् ॥
स याति वैष्णवं लोकं विमानेन तु भास्वता ॥ १२०-८२ ॥
इत्थं कृष्णो तथा शुक्ले व्रतं चैकादशीभवम् ॥
मोक्षदं कीर्तितं विप्र नास्त्यस्मिन्संशयः क्वचित् ॥ १२०-८३ ॥
यतस्त्रिदिनसंसाध्यं कीर्तिनं पापनाशनम् ॥
सर्वव्रतोत्तमं विप्र ततो ज्ञेयं महाफलम् ॥ १२०-८४ ॥
त्यजेच्चत्वारि भुक्तानि नारदै तद्दिनत्रये ॥
आद्यन्तयोरेकमेकं मध्यमे द्वयमेव हि ॥ १२०-८५ ॥
अथ ते नियमान्वच्मि व्रते ह्यस्मिन्दिनत्रये ॥
कांस्यं मांसं मसूरान्नं चणकान्कोद्रवांस्तथा ॥ १२०-८६ ॥
शाकं मधु परान्नं च पुनर्भोजनमैथुने ॥
दशम्यां दश वस्तूनि वर्जयेद्वैष्णवः सदा ॥ १२०-८७ ॥
द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनम् ॥
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥ १२०-८८ ॥
कोपं ह्यनृतवाक्यं च एकादश्यां विवर्ज्जयेत् ॥
कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम् ॥ १२०-८९ ॥
व्यायामं च प्रवासं च पुनर्भोजनमैथुने ॥
अस्पृश्यस्पर्शमाशूरे द्वादश्यां द्वादश त्यजेत् ॥ १२०-९० ॥
एवं नियमकृद्विप्र उपवासं समाचरेत् ॥
शक्तोऽशक्तुस्तु मतिमानेकभुक्तं न नक्तकम् ॥ १२०-९१ ॥
अयाचितं वापि चरेन्न त्यजेद्व्रतमीदृशम् ॥ १२०-९२ ॥
इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्तितैकादशीव्रतकथनं नाम विंशत्यधिकशततमोऽध्यायः ॥ १२० ॥