११७

सनातन उवाच ।
शुक्लाष्टम्यां चैत्रमासे भवान्याः प्रोच्यते जनिः ॥
प्रदक्षिणशतं कृत्वा कार्यो यात्रामहोत्सवः ॥ ११७-१ ॥

दर्शनं जगदम्बायाः सर्वानन्दप्रदं नृणाम् ॥
अत्रैवाशो ककलिकाप्राशनं समुदाहृतम् ॥ ११७-२ ॥

अशोककलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ ॥
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ ११७-३ ॥

महाष्टमीति च प्रोक्ता देव्याः पूजाविधानतः ॥
वैशाखस्य सिताष्टम्यां समुपोष्यात्र वारिणा ॥ ११७-४ ॥

स्नात्वापराजितां देवीं मांसीबालकवारिभिः ॥
स्नापयित्वार्च्य गन्धाद्यैर्नैवेद्यं शर्करामयम् ॥ ११७-५ ॥

कुमारीर्भोजयेच्चापि नवम्यां पारणाग्रतः ॥
ज्योतिर्मयविमानेन भ्राजमानो यथा रविः ॥ ११७-६ ॥

लोकेषु विचरेद्विप्र देव्याश्चैव प्रसादतः ॥
कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनम् ॥ ११७-७ ॥

शिवलोके वसेत्कल्पं सर्वदेवनमस्कृतः ॥
ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः ॥ ११७-८ ॥

स विमानेन चरति गन्धर्वाप्सरसां गणैः ॥
शुक्लाष्टम्यां तथाऽऽषाढे स्नात्वा चैव निशाम्बुना ॥ ११७-९ ॥

तेनैव स्नापयेद्देवीं पूजयेच्च विधानतः ॥
ततः शुद्धजलैः स्नाप्य विलिम्पेत्सेन्दुचन्दनैः ॥ ११७-१० ॥

नैवेद्यं शर्करोपेतं दत्वाऽऽचमनमर्पयेत् ॥
भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम् ॥ ११७-११ ॥

विसृज्य च ततः पश्चात्स्वयं भुञ्जीत वाग्यतः ॥
एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात् ॥ ११७-१२ ॥

नभःशुक्लेतथाष्टम्यां देवीमिष्ट्वा विधानतः ॥
क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत् ॥ ११७-१३ ॥

ततो द्विजान् भोजयित्वा परेऽह्नि स्वयमप्युत ॥
भुक्त्वा समापयेदद्व्रतं सन्ततिवर्धनम् ॥ ११७-१४ ॥

नभोमासे सिताष्टम्यां दशाफलमिति व्रतम् ॥
उपवासं तु सङ्कल्प्य स्नात्वा कृत्वा च नैत्यिकम् ॥ ११७-१५ ॥

तुलस्याः कृष्णावर्णाया दलैर्दशभिरर्चयेत् ॥
कृष्णं विष्णुं तथाऽनन्तं गोविन्दं गरुडध्वजम् ॥ ११७-१६ ॥

दामोदरं हृषीकेशं पद्मनाभं हरिं प्रभुम् ॥
एतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेत् ॥ ११७-१७ ॥

नमस्कारं ततः कुर्यात्प्रदक्षिणसमन्वितम् ॥
एवं दशदिनं कुर्याद्व्रतानामुत्तमं व्रतम् ॥ ११७-१८ ॥

आदौ मध्ये तथा चान्ते होमं कुर्याद्विधानतः ॥
कृष्णमन्त्रेण जुहुयाच्चरुणाऽष्टोत्तरं शतम् ॥ ११७-१९ ॥

होमान्ते विधिना सम्यगाचार्य्यं पूजयेत्सुधीः ॥
सौवर्णे ताम्रपात्रे वा मृन्मये वेणुपात्रके ॥ ११७-२० ॥

तुलसीदलं सुवर्णेन कारयित्वा सुलक्षणम् ॥
हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः ॥ ११७-२१ ॥

निधाय प्रतिमां पात्रे ह्याचार्याय निवेदयेत् ॥
दातव्या गौः सवत्सा च वस्त्रालङ्कारभूषिता ॥ ११७-२२ ॥

दशाहं कृष्णदेवाय पूरिका दश चार्पयेत् ॥
ताश्च दद्याद्विधिज्ञाय स्वयं वा भक्षयेद्व्रती ॥ ११७-२३ ॥

शयनं च प्रदातव्यं यथाशक्ति द्विजोत्तम ॥
दशमेऽह्नि ततो मूर्तिं सद्रव्यां गुरवेऽर्पयेत् ॥ ११७-२४ ॥

व्रतान्ते दशविप्रेभ्यः प्रत्येकं दश पूरिकाः ॥
दद्यादेव दशाब्दं तु कृत्वा व्रतमनुत्तमम् ॥ ११७-२५ ॥

उपोष्य विधिना भूयात्सर्वकामसमन्वितः ॥
अन्ते कृष्णस्य सायुज्यं लभते नात्र संशयः ॥ ११७-२६ ॥

कृष्णजन्माष्टमी चेयं स्मृता पापहरा नृणाम् ॥
केवलेनोपवासेन तस्मिञ्जन्मदिने हरेः ॥ ११७-२७ ॥

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥
उपवासी तिलैः स्नातो नद्यादौ विमले जले ॥ ११७-२८ ॥

सुदेशे मण्डपे क्लृप्ते मण्डलं रचयेत्सुधीः ॥
तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयम् ॥ ११७-२९ ॥

तस्योपरि न्यसेत्पात्रं ताम्रं तस्योपरि स्थिताम् ॥
हैमीं वस्त्रयुगाच्छन्नां कृष्णस्य प्रतिमां शुभम् ॥ ११७-३० ॥

पाद्याद्यैरुपचारैस्तु पूजयेत्स्निग्धमानसः ॥
देवकीं वसुदेवं च यशोदां नन्दमेव च ॥ ११७-३१ ॥

व्रजं गोपांस्तथा गोपीर्गाश्च दिक्षु समर्चयेत् ॥
तत आरार्तिकं कृत्वा क्षमाप्यानम्य भक्तितः ॥ ११७-३२ ॥

तिष्ठेत्तथैवार्द्धरात्रे पुनः संस्नापयेद्धरिम् ॥
पञ्चामृतैः शुद्धजलैर्गन्धाद्यैः पूजयेत्पुनः ॥ ११७-३३ ॥

धान्याकं च यवानीं च शुण्ठीं खण्डं च नारद ॥
साज्यं रौप्ये धृतं पात्रे नैवेद्यं विनिवेदयेत् ॥ ११७-३४ ॥

पुनरारार्तिकं कृत्वा दशधा रूपधारिणम् ॥
विचिन्तयन्मृगाङ्काय दद्यादर्घ्यं समुद्यते ॥ ११७-३५ ॥

ततः क्षमाप्य देवेशं रात्रिखण्डं नयेद्व्रती ॥
पौराणिकैः स्तोत्रपाठैर्गीतवाद्यैरनेकधा ॥ ११७-३६ ॥

ततः प्रभाते विप्रग्र्यान्भोजयेन्मधुरान्नकैः ॥
दत्वा च दक्षिणां तेभ्यो विसृजेत्तुष्टमानसः ॥ ११७-३७ ॥

ततस्तां प्रतिमां विष्णोः स्वर्णधेनुधरान्विताम् ॥
गुरवे दक्षिणां दत्वा विसृज्याश्रीत च स्वयम् ॥ ११७-३८ ॥

दारापत्यसुहृद्भृत्यरेवं कृत्वा व्रत नरः ॥
साक्षाद्गोकमाप्नोति विमानवरमास्थितः ॥ ११७-३९ ॥

नैतेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ॥
कृतेन येन लभ्येत कोट्यैकादशकं फलम् ॥ ११७-४० ॥

शुक्लाष्टम्यां नभस्यस्य कुर्याद्राधाव्रतं नरः ॥
पूर्ववद्राधिकां हैमीं कलशस्थां प्रपूजयेत् ॥ ११७-४१ ॥

मध्याह्ने पूजयित्वेनामेकभक्तं समापयेत् ॥
शक्तो भक्तश्चोपवासं परेऽह्नि विधिना ततः ॥ ११७-४२ ॥

सुवासिनीर्भोजयित्वा गुरवे प्रतिमार्पणम् ॥
कृत्वा स्वयं च भुञ्जीतं व्रतमेवं समापयेत् ॥ ११७-४३ ॥

व्रतेनानेन विप्रर्षे कृतेन विधिना व्रती ॥
रहस्यं गोष्ठजं लब्ध्वा राधापरिकरे वसेत् ॥ ११७-४४ ॥

दूर्वाष्टमीव्रतं चात्र कथितं तच्च मे श्रृणु ॥
शुचौ देशे प्रजातायां द्वर्वायां द्विजसत्तम । ११७-४५ ॥

स्थाप्य लिङ्गं ततो गन्धैः पुष्पैर्धूपैश्च दीपकैः ॥
नैवेद्यैरर्चयेद्भक्त्या दध्यक्षतफलादिभिः ॥ ११७-४६ ॥

अर्घ्यं प्रदद्यात्पूजान्ते मन्त्राभ्यां सुसमाहितः ॥
त्वं दूर्वेऽमृतजन्माऽसि सुरासुरनमस्कृते ॥ ११७-४७ ॥

सौभाग्यं सन्ततिं देहि सर्वकार्यकरी भव ॥
यथा शाखा प्रशाखाभिर्विस्तृताऽसि महीतले ॥ ११७-४८ ॥

तथा विस्तृतसन्तानं देहि मेऽप्यजरामरम् ॥
ततः प्रदक्षिणीकृत्य विप्रान्सम्भोज्य तत्र वै ॥ ११७-४९ ॥

भुक्त्वा स्वयं गृहं गच्छेदत्वा विप्रेषु दक्षिणाम् ॥
फलानि च प्रशस्तानि मिष्टानि सुरभीणि च ॥ ११७-५० ॥

एवं पुण्या पापहरा नृणा दूर्वाष्टमी द्विज ॥
चतुर्णामपि वर्णानां स्त्रीजनानां विशेषतः ॥ ११७-५१ ॥

या न पूजयते दूर्वा नारी मोहाद्यथाविधि ॥
जन्मानि त्रीणि वैधव्यं लभते सा न संशयः । ११७-५२ ॥

यदा ज्येष्ठर्क्षसंयुक्ता भवेच्जैवाष्टभी द्विज ॥
ज्येष्ठा नाम्नी तु सा ज्ञेया पूजिता पापनाशिनी ॥ ११७-५३ ॥

अथैनां तु समारभ्य व्रतं षोडशवासरम् ॥
महालक्ष्म्याः समुद्दिष्टं सर्वसम्पद्विवर्धनम् ॥ ११७-५४ ॥

करिष्येऽहं महालक्ष्मीव्रतं ते त्वत्परायणः ॥
तदविघ्नेन मे यातु समाप्तिं त्वत्प्रसादतः ॥ ११७-५५ ॥

इत्युच्चार्य ततो बद्धा डोरक दक्षिणे करे ॥
षोडशग्रन्थिसहितं गुणैः षोडशभिर्युतम् । ११७-५६ ॥

ततोऽन्वहं महालक्ष्मीं गन्धाद्यैरर्च्चयेद्व्रती ॥
यावत्कृष्णाष्टमी तत्र चरेदुद्यापनं सुधीः ॥ ११७-५७ ॥

वस्त्रमण्डपिकां कृत्वा सर्वतोभद्रमण्डले ॥
कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः ॥ ११७-५८ ॥

उत्तार्य डोरकं बाहोः कुम्भस्याधो निवेदयेत् ॥
चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः ॥ ११७-५९ ॥

स्नपनं कारयेत्तासाः जलैः पञ्चामृतैस्तथा ॥
उपचारैः षोडशभिः पूजयित्वा विधानतः ॥ ११७-६० ॥

जागरस्तत्र कर्तव्यो गीतवादित्रनिः स्वनैः ॥
ततो निशीथे सम्प्राप्तेऽभ्युदितेऽमृतदीधितौ ॥ ११७-६१ ॥

दत्वार्घ्यं बन्धनं द्रव्यैः श्रीखण्डाद्यैर्विधानतः ॥
चन्द्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत् ॥ ११७-६२ ॥

क्षीरोदार्णवसम्भूत महालक्ष्मीसहोदर ॥
पीयूषधाम रोहिण्याः सहिताऽर्घ्यं गृहाण मे ॥ ११७-६३ ॥

क्षीरोदार्णवसम्भूते कमले कमलालये ॥
विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव । ११७-६४ ॥

एकनाथे जगन्नाथे जमदग्निप्रियेऽव्यये ॥
रेणुके त्राहि मां देवि राममातः शिवं कुरु ॥ ११७-६५ ॥

मन्त्रैरेतैर्महालक्ष्मीं प्रार्थ्य श्रोत्रिययोषितः ॥
सम्यक्सम्पूज्य ताः सम्यग्गन्धयावककज्जलैः ॥ ११७-६६ ॥

सम्भोज्य जुहुयादग्नौ बिल्वपद्मकपायसैः ॥
तदलाभे घृतैर्विप्र गृहेभ्यः समिधस्तिलान् ॥ ११७-६७ ॥

मृत्युञ्जयाय च परं सर्वरोगप्रशान्तये ॥
चन्दनं तालपत्रं च पुष्पमालां तथाऽक्षतान् ॥ ११७-६८ ॥

दुर्वां कौसुम्भसूत्रं च युगं श्रीफलमेव वा ॥
भक्ष्याणि च नवे शूर्पे प्रतिद्रव्यं तु षोडश ॥ ११७-६९ ॥

समाच्छाद्यान्यशूर्पेण व्रती दद्यात्समन्त्रकम् ॥
क्षीरोदार्णवसम्भूता लक्ष्मीश्चन्द्रसहोदरा ॥ ११७-७० ॥

व्रतेनानेन सन्तुष्टा भवताद्विष्णुवल्लभा ॥
चेतस्रः प्रतिमास्तास्तु श्रोत्रियेभ्यः समर्पयेत् ॥ ११७-७१ ॥

ततस्तु चतुरो विप्रान् षोडशापि सुवासिनीः ॥
मिष्टान्नेनाशयित्वा तु विसृजेत्ताः सदक्षिणाः ॥ ११७-७२ ॥

समाप्तिनियमः पश्चाद्भुञ्जीतेष्टैः समन्वितः ॥
एतद्व्रतं महालक्ष्म्याः कृत्वा विप्र विधानतः ॥ ११७-७३ ॥

भुक्त्वेष्टानैहिकान् कामांल्लक्ष्मीलोके वसेच्चिरम् ॥
एषाऽशोकाष्टमी चोक्ता यस्यां पूर्णं रमाव्रतम् ॥ ११७-७४ ॥

अत्राशोकस्य पूजा स्यादेकभक्तं तथा स्मृतम् ॥
कृत्वाऽशोकव्रतं नारी ह्यशोका शोकजन्मनि ॥ ११७-७५ ॥

यत्र कुत्रापि सञ्जाता नात्र कार्या विचारणा ॥
आश्विने शुक्लपक्षे तु प्रोक्ता विप्र महाष्टमी ॥ ११७-७६ ॥

तत्र दुर्गाचनं प्रोक्तं सव्रैरप्युपचारकैः ॥
उपवासं चैकभक्तं महाष्टम्यां विधाय तु ॥ ११७-७७ ॥

सर्वतो विभवं प्राप्य मोदते देववच्चिरम् ॥
ऊर्ज्जे कृष्णादिकेऽष्टम्यां करकाख्यं व्रतं स्मृतम् ॥ ११७-७८ ॥

तत्रोमासहितः शम्भुः पूजनीयः प्रयत्नतः ॥
चन्द्रोदयेऽर्घदानं च विधेयं व्रतिभिः सदा ॥ ११७-७९ ॥

पुत्रं सर्वगुणोपेतमिच्छद्भिर्विविधं सुखम् ॥
गोपाष्टमीति सम्प्रोक्ता कार्तिके धवले दले ॥ ११७-८० ॥

तत्रकुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणाम् ॥
गवानुगमनं दानं वाञ्छन्सर्वाश्च सम्पदः ॥ ११७-८१ ॥

कृष्णाष्टम्यां मार्गशीर्षे मिथुनं दर्भनिर्मितम् ॥
अनघां चानघां तत्र बहुपुत्रसमन्वितम् ॥ ११७-८२ ॥

स्थापयित्वा शुभे देशे गोमयेनोपलेपिते ॥
पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः ॥ ११७-८३ ॥

सम्भोज्य द्विजदाम्पत्यं विसृजेल्लब्धदक्षिणम् ॥
व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम् ॥ ११७-८४ ॥

पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः ॥ ११७-८५ ॥

मार्गाशीर्षसिताष्टम्यां कालभैरवसन्निधौ ॥
उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते ॥ ११७-८६ ॥

यत्किञ्चिदशुभं कर्म कृतं मानुषजन्मनि ॥
तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ ११७-८७ ॥

अथ पौषसिताष्टम्यां श्राद्धमष्टकसञ्ज्ञितम् ॥
पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम् ॥ ११७-८८ ॥

शुक्लाष्टम्यां तु पौषस्य शिवं सम्पूज्य भक्तितः ॥
भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन् ॥ ११७-८९ ॥

कृष्णाष्टम्यां तु माघस्य भद्रकालीं समर्चयेत् ॥
भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम् ॥ ११७-९० ॥

माघमासे सिताष्टम्यां भीष्मं सन्तर्पयद्द्विज ॥
सन्ततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम् ॥ ११७-९१ ॥

फाल्गुने त्वसिताष्टम्यां भीमां देवीं समर्चयेत् ॥
तत्र व्रतपरो विप्र सर्वकामसमृद्धये ॥ ११७-९२ ॥

शुक्लाष्टम्यां फाल्गुनस्य शिवं चापि शिवां द्विज ॥
गन्धाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत् ॥ ११७-९३ ॥

फाल्गुनापरपक्षे तु शीतलामष्टमीदिने ।
पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः ॥ ११७-९४ ॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ॥
शीतले त्वं जगद्वात्री शीतलायै नमोनमः ॥ ११७-९५ ॥

वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् ॥
मार्जनी कलशोपेतां विस्फोटकविनाशिनीम् ॥ ११७-९६ ॥

शीतले शीतले चेत्थं ये जपन्ति जले ल्थिताः ॥
तेषां तु शीतला देवी स्याद्विस्फोटकशान्तिदा ॥ ११७-९७ ॥

इत्येवं शीतलामन्त्रैर्यः समर्चयते द्विज ॥
तस्य वर्षं भवेच्छान्तिः शीतलायाः प्रसादतः ॥ ११७-९८ ॥

सर्वमासोभये पक्षे विधिवच्चाष्टमीदिने ॥
शिवां वापिशिवं प्रार्च्यलभते वाञ्छितं फलम् ॥ ११७-९९ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थिताष्टमीव्रतकथनं नाम सप्तदशाधिकशततमोऽध्यायः ॥ ११७ ॥