११२

सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते ॥
यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात् ॥ ११२-१ ॥

चैत्रशुक्लतृतीयायां गौरीं कृत्वा सभर्तृकाम् ॥
सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज ॥ ११२-२ ॥

अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ॥
दूर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका ॥ ११२-३ ॥

वरार्थिनी च सौभाग्यपुत्रभर्त्रर्थिनी तथा ॥
द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः ॥ ११२-४ ॥

सिन्दूराञ्जनवस्त्राद्यैः प्रतोष्य प्रीतमानसा ॥
रात्रौ जागरणं कुर्याद्व्रतसम्पूर्तिकाम्यया ॥ ११२-५ ॥

ततस्तां प्रतिमां विप्र गुरवे प्रतिपादयेत् ॥
धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये ॥ ११२-६ ॥

एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ॥
धेनुद्वादशसङ्कल्पं दद्यादुत्सर्गसिद्धये ॥ ११२-७ ॥

किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ॥
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥ ११२-८ ॥

धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम् ॥
लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः ॥ ११२-९ ॥

राधशुक्लतृतीया या साक्षया परिकीर्तिता ॥
तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी ॥ ११२-१० ॥

द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ॥
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैव तपस्यथ ॥ ११२-११ ॥

द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै ॥
तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम् ॥ ११२-१२ ॥

नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः ॥
यद्वा गङ्गाम्भसि स्नातो मुच्यते सर्वकिल्बिषैः ॥ ११२-१३ ॥

अक्षतैः पूजयेद्विष्णुं स्नायादप्यक्षतैर्नरः ॥
सक्तून्सम्भोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान् ॥ ११२-१४ ॥

एवं कृतविधिर्विप्र नरो विष्णुपरायणः ॥
विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः ॥ ११२-१५ ॥

अथ ज्येष्ठतृतीया तु शुक्ला रम्भेति नामतः ॥
तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम् ॥ ११२-१६ ॥

गन्धपुष्पांशुकाद्यैस्तु नारी सौभाग्यकाम्यया ॥
रम्भाव्रतमिदं विप्र विधिवत्समुपाश्रितम् ॥ ११२-१७ ॥

ददाति वित्तं पुत्रांश्च मतिं धर्मे शुभावहाम् ॥
अथाषाढतृतीयायां शुक्लायां शुक्लवाससा ॥ ११२-१८ ॥

केशवं तु सलक्ष्मीकं सस्त्रीके तु द्विजेऽर्चयेत् ॥
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ॥ ११२-१९ ॥

प्रियेर्वाक्यैर्भृशं प्रीता नारी सौभाग्यवाञ्छया ॥
समुपास्य व्रतं चैतद्धनधान्यसमन्विता ॥ ११२-२० ॥

देवदेवप्रसादेन विष्णुलोकमवाप्नुयात् ॥
नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत् ॥ ११२-२१ ॥

उपचारैः षोडशभिर्भवानीमभिपूजयेत् ॥
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥ ११२-२२ ॥

अन्यांस्च सर्वकामान्मे देहि देहि नमोऽस्तु ते ॥
एवं सम्प्रार्थ्य देवेशीं भवानीं भवसंयुताम् ॥ ११२-२३ ॥

व्रतसम्पूर्तिकामा तु वायनं दापयेत्तथा ॥
एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम् ॥ ११२-२४ ॥

उद्यापनं चरेद्भक्त्या वित्तशाठ्यविवर्जिता ॥
मण्डपे मण्डले शुद्धे गणेशादिसुरार्चनम् ॥ ११२-२५ ॥

कृत्वा ताम्रमयं पात्रं कलशोपरिविन्यसेत् ॥
सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत् ॥ ११२-२६ ॥

गन्धपुष्पादिभिः सम्यक् ततो होमं समाचरेत् ॥
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ॥ ११२-२७ ॥

समर्प्य देव्यै नैवेद्यं द्विजेष्वेतन्निवेदयेत् ॥
वायनं च ततः पश्चाद्दद्यात्सम्बन्धिबन्धुषु ॥ ११२-२८ ॥

प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा ॥
पूर्णं लभेत्फलं नारी व्रताचरणतत्परा ॥ ११२-२९ ॥

भाद्रशुक्लतृतीयायां व्रतं वै हारितालकम् ॥
कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम् ॥ ११२-३० ॥

ततस्तु काञ्चने पात्रे राजते चापि ताम्रके ॥
वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम् ॥ ११२-३१ ॥

सफलं च सवस्त्रं च द्विजाय प्रतिपादयेत् ॥
तदन्ते पारणं कुर्यादिष्टबन्धुजनैः सह ॥ ११२-३२ ॥

एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ॥
व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत् ॥ ११२-३३ ॥

सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश ॥
दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि ॥ ११२-३४ ॥

अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः ॥
भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये ॥ ११२-३५ ॥

एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम् ॥
सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम् ॥ ११२-३६ ॥

यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत् ॥
हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा ॥ ११२-३७ ॥

तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना ॥
लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते ॥ ११२-३८ ॥

अस्यां व्रतं तु सङ्ग्राह्यं यावद्वर्षचतुष्टयम् ॥
उपवासेन कर्तव्यं वर्षे वर्षे तु नारद ॥ ११२-३९ ॥

अखण्डानां तण्डुलानां तिलानां वा मुनीश्वर ॥
लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते ॥ ११२-४० ॥

तत्पक्वेन तु निर्माय देव्या मूर्तिं सुशोमनाम् ॥
प्रकरे गन्धपुष्पाणां पुष्पमालाविभूषिताम् ॥ ११२-४१ ॥

संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः ॥
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः ॥ ११२-४२ ॥

विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेत् ॥
ततो विसर्जयद्देवीं जलमध्येऽथ दक्षिणाम् ॥ ११२-४३ ॥

दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने ॥
इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम् ॥ ११२-४४ ॥

गौरीलोकं प्रयात्यन्ते व्रतस्यास्य प्रभावतः ॥
इषशुक्लतृतीयायां बृहद्गौरीव्रतं चरेत् ॥ ११२-४५ ॥

पञ्चवर्षं विधानेन पूर्वोक्तेनैव नारद ॥
आचार्यं पूजयेदन्ते विप्रानन्यान्धनादिभिः ॥ ११२-४६ ॥

सुवासिनीः पञ्च पूज्या वस्त्रालङ्कारचन्दनैः ॥
कञ्चुकैश्चैव ताटङ्कैः कण्ठसूत्रैर्हरिप्रियाः ॥ ११२-४७ ॥

वंशपात्राणि पञ्चैव सूत्रैः संवेष्टितानि च ॥
सिन्दूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम् ॥ ११२-४८ ॥

गोधीमपिष्टजातं च नवापूपं फलादिकम् ॥
वायनानि च पञ्चैव ताभ्यो दद्याच्च भोजयेत् ॥ ११२–४९ ॥

अर्घं दत्त्वा वायनानि पश्चाद्भुञ्जीत वाग्यता ॥
तत्फलं धारयेत्कण्ठे सर्वकामसमृद्धये ॥ ११२-५० ॥

ततः प्रातः समुत्थाय सालङ्कारा सखीजनैः ॥
गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत् ॥ ११२-५१ ॥

आहूतासि मयाभद्रे पूजिता च यथा विधि ॥
मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया ॥ ११२-५२ ॥

एवं कृत्वा व्रतं भक्त्या द्विज देवीप्रसादतः ॥
भुक्त्वा भोगांस्तु देहान्ते गौरीलोकमवाप्नुयात् ॥ ११२-५३ ॥

ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं चरेत् ॥
पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः ॥ ११२-५४ ॥

सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजिताम् ॥
विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये ॥ ११२-५५ ॥

मार्गशुक्लतृतीयायां हरगौरीव्रतं शुभम् ॥
कृत्वा पूर्वविधानेन पूजयेज्जगदम्बिकाम् ॥ ११२-५६ ॥

एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ॥
देवीलोकं समासाद्य मोदते च तया सह ॥ ११२-५७ ॥

पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं चरेत् ॥
पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम ॥ ११२-५८ ॥

ब्रह्मगौरीप्रसादेन मोदते तत्र सङ्गता ॥
माघशुक्लतृतीयायां पूज्या सौभाग्यसुन्दरी ॥ ११२-५९ ॥

पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः ॥
प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता ॥ ११२-६० ॥

फाल्गुनस्य सिते पक्षे तृतीया कुलसौख्यदा ॥
पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत् ॥ ११२-६१ ॥

सर्वासु च तृतीयासु विधिः साधारणो मुने ॥
देवीपूजा विप्रपूजा दानं होमो विसर्जनम् ॥ ११२-६२ ॥

इत्येवं कथितानीह तृतीयाया व्रतानि ते ॥
भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान् । ११२-६३ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥