१११

सनातन उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि द्वितीयाया व्रतानि ते ॥
यानि कृत्वा नरो भक्त्या ब्रह्मलोके महीयते ॥ १११-१ ॥

चैत्रशुक्लद्वितीयायां ब्रह्मणं च सशक्तिकम् ॥
हविष्यान्नेन गन्धाद्यैः स्तोष्य सर्वक्रतूद्भवम् ॥ १११-२ ॥

फलं लब्ध्वाखिलान्कामानन्ते ब्रह्मपदं लभेत् ॥
अस्मिन्नेव दिने विप्र बालेन्दुमुदितं परे ॥ १११-३ ॥

समभ्यर्च्य निशारम्भे भुक्तिमुक्तिफलं भवेत् ॥
अथवास्मिन्दिने भक्त्या दस्रावभ्यर्च्य यत्नतः ॥ १११-४ ॥

सुवर्णरजते नेत्रे प्रदद्याच्च द्विजातये ॥
पूर्णयात्राव्रते ह्यस्मिन्दध्ना वापि घृतेन च ॥ १११-५ ॥

नेत्रव्रतं द्वादश वत्सरान्वै कृत्या भवेद्भूमिपतिर्द्विजेन्द्र ॥
सुरूपरूपोऽरिगणप्रतापी धर्माभिरामो नृपवर्गमुख्यः ॥ १११-६ ॥

राधशुक्लद्वितीयायां ब्रह्मणं विष्णुरूपिणम् ॥
समर्च्य सप्तधान्यान्याढ्यकुम्भोपरि विधानतः ॥ १११-७ ॥

विष्णुलोकमवाप्नोति भुक्त्वा भोगान्मनोरमान् ॥
ज्येष्ठशुक्लद्वितीयायां भास्करं भुवनाधिपम् ॥ १११-८ ॥

चतुवक्त्रस्वरूपं च समभ्यर्च्य विधानतः ॥
भोजयित्वा द्विजान् भक्त्या भास्करं लोकमाप्नुयात् ॥ १११-९ ॥

आषाढस्य सिते पक्षे द्वितीया पुण्यसंयुता ॥
तस्यां रथं समारोप्य रामं सह सुभद्रया ॥ १११-१० ॥

द्विजादिभिर्व्रती सार्धं परिक्रम्य पुरादिकम् ॥
जलाशयान्तिकं गत्वा कारयेच्च महोत्सवम् ॥ १११-११ ॥

तदन्ते देवभवने निवेश्य च यथाविधि ॥
ब्राह्मणान्भोजयेच्चैव व्रतस्यास्य प्रपूर्तये ॥ १११-१२ ॥

नभः शुक्लद्वितीयायां विश्वकर्मा प्रजापतिः ॥
स्वपितीति तिथिः पुण्या ह्यशोकशयनाह्वया ॥ १११-१३ ॥

सशक्तिक तु शय्यास्थं पूजयित्वा चतुर्मुखम् ॥
इममुच्चारयेन्मन्त्रं प्रणम्य जगतां पतिम् ॥ १११-१४ ॥

श्रीवत्सधारिञ्छ्रीकान्त श्रीवास श्रीपते प्रभो ॥
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद ॥ १११-१५ ॥

चन्द्रार्द्धदानमत्रोक्तं सर्वसिद्धिविधायकम् ॥
भाद्रशुक्लद्वितीयायां शक्ररूपं जगद्विधिम् ॥ १११-१६ ॥

पूजयित्वा विधानेनन सर्वक्रतुफलं लभेत् ॥
आश्विने मासि वै पुण्या द्वितीया शुक्लपक्षगा ॥ १११-१७ ॥

दानं प्रदत्तमेतस्यामनन्तफलमुच्यते ॥
ऊर्ज्जशुक्लद्वितीयायां यमो यमुनया पुरा ॥ १११-१८ ॥

भोजितः स्वगृहे तेन द्वितीयैषा यमाह्वया ॥
पुष्टिप्रवर्द्धनं चात्र भगिन्या भोजनं गृहे ॥ १११-१९ ॥

वस्त्रालङ्कारपूर्वं तु तस्मै देयमतः परम् ॥ १११-२० ॥

यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितो निजकरात्स्वसृसौहृदेन ॥
तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नधनधान्यमनुत्तमं सः ॥ १११-२१ ॥

मार्गशुक्लद्वितीयायां श्राद्धेन पितृपूजनम् ॥
आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः ॥ १११-२२ ॥

पौषशुक्लद्वितीयायां गोश्रृङ्गोदकमार्जनम् ॥
सर्वकामप्रदं नॄणामास्ते बालेन्दुदर्शनम् ॥ १११-२३ ॥

योऽर्घ्यदानेन बालेन्दुं हविष्याशी जितेन्द्रियः ॥
पूजयेत्साज्यसुमनेधर्मकामार्थसिद्धये ॥ १११-२४ ॥

माघशुक्लद्वितीयायां भानुरूपं प्रजापतिम् ॥
समभ्यर्च्य यथान्यायं पूजयेद्रक्तपुष्पकैः ॥ १११-२५ ॥

रक्तैर्गंवैस्तथा स्वर्णमूर्तिं निर्माय शक्तितः ॥
ततः पूर्णं ताम्रपात्रं गाघृमैर्वापितण्डुलैः ॥ १११-२६ ॥

समर्प्य देवे भक्त्यैव स मूर्तिं प्रददेद्द्विजे ॥
एवं कृते व्रते विप्र साक्षात्सूर्य इवोदितः ॥ १११-२७ ॥

दुरासदो दुराधर्षो जायते भुविमानवः ॥
इह कामान्वराम्भुक्त्वा यात्यन्ते ब्रह्मणः पदम् ॥ १११-२८ ॥

सर्वदेवस्तुतोऽभीक्ष्णं विमानवरमास्थितः ॥
अथ फाल्गुनशुक्लाया द्वितीयायां द्विजोत्तमः ॥ १११-२९ ॥

पुष्पैः शिवं समभ्यर्च्य सुश्वेतैश्च सुगन्धिभिः ॥
पुष्पैर्वितानकं कृत्वा पुष्पालङ्करणैः शुभैः ॥ १११-३० ॥

नैवेद्यैर्विविधैर्धूपैर्दीपर्नीराजनादिभिः ॥
प्रसाद्य प्रणमेच्चैव साष्टाङ्गं पतितो भुवि ॥ १११-३१ ॥

एवमभ्यर्च्य देवेशं मर्त्यो व्याधिविवर्जितः ॥
धनधान्यसमायुक्तो जीवेद्विर्षशतं ध्रुवम् ॥ १११-३२ ॥

यद्विधानं द्वितीयासु शुक्लपक्षगतासु वा ॥
प्रोक्तं तदेव कृष्णासु कर्त्तव्यं विधिकोविदैः ॥ १११-३३ ॥

वह्निरेव पृथङ्मास्सु नानारूपवपुर्द्धरः ॥
पूज्यते हि द्वितीयासु ब्रह्मचर्य्यादि पूर्ववत् ॥ १११-३४ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासद्वितीयाव्रतनिरूपणं नामैकादशाधिकशततमोऽध्यायः ॥ १११ ॥