नारद उवाच ॥
पुराणसूत्रमखिलं श्रुतं तव मुखाद्विभो ॥
मरीचये यथा प्रोक्तं ब्रह्मणा परमेष्ठिना ॥ ११०-१ ॥
अधुना तु महाभाग तिथीनां वै कथानकम् ॥
क्रमतो मह्यमाख्याहि यथा स्याद्वतनिश्चयः ॥ ११०-२ ॥
यस्मिन्मासे तु या पुण्या तिथिर्येन उपासिता ॥
यद्विधानं च पूजादेस्तत्सर्वं वद साम्प्रतम् ॥ ११०-३ ॥
सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि तिथीनां ते व्रतं पृथक् ॥
तिथीशानुक्रमादेव सर्वसिद्धिविधायकम् ॥ ११०-४ ॥
चैत्रे मासि जगद्ब्रह्मा ससज प्रथमेऽहनि ॥
शुक्लपक्षे समग्रं वै तदा सूर्योदये सति ॥ ११०-५ ॥
वत्सरादौ वसन्तादौ बलिराज्ये तथैव च ॥
पूर्वविद्धैव कर्तव्या प्रतिपत्सर्वदा बुधैः ॥ ११०-६ ॥
तत्र कार्या महाशान्तिः सर्वकल्मषनाशिनी ॥
सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी ॥ ११०-७ ॥
आयुः प्रदापुष्टिकरी धनसौभाग्यवर्द्धिनी ॥
मङ्गल्या च पवित्रा च लोकद्वयमुखावहा ॥ ११०-८ ॥
तस्यामादौ तु सम्पूज्यो ब्रह्मा वह्निवपुर्धरः ॥
पाद्यार्ध्यपुष्पधूपैश्च वस्त्रालङ्कारभोजनैः ॥ ११०-९ ॥
होमैर्बल्युपहारैश्च तथा ब्राह्मणतर्पणैः ॥
ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक् ॥ ११०-१० ॥
कृत्वोङ्कार नमस्कारं कुशोदकतिलाक्षतैः ॥
सवस्त्रं सहिरण्यं च ततो दद्याद्दिजातये ॥ ११०-११ ॥
दक्षिणां वेदविदुषे व्रतसम्पूर्तिहेतवे ॥
एवं पूजाविशेषेण व्रतं स्यात्सौरिसञ्ज्ञकम् ॥ ११०-१२ ॥
आरोग्यदं नृणां विप्र तस्मिन्नेव दिने मुने ॥
विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने ॥ ११०-१३ ॥
तिलकं नाम च प्रोक्तं कृष्णेनाजातशत्रवे ॥
अथ ज्येष्ठे सिते पक्षे पक्षत्यां दिवसोदये ॥ ११०-१४ ॥
देवोद्यानभवं हृद्यं करवीरं समर्चयेत् ॥
रक्ततन्तुरीधानं गन्धधूपविलेपनैः ॥ ११०-१५ ॥
प्ररूढसप्तधान्यैश्च नारगैर्बीजपूरकैः ॥
अभ्युक्ष्याक्षततोयेन मन्त्रेणेत्थं क्षमापयेत् ॥ ११०-१६ ॥
करवीर वृषावास नमस्ते भानुवल्लभ ॥
दम्भोलिमृडदुर्गादिदेवानां सततं प्रिय ॥ ११०-१७ ॥
आकृष्णेनेति वेदोक्तमन्त्रेणेत्थं क्षमापयेत् ॥
एवं भक्त्या समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् ॥ ११०-१८ ॥
प्रदक्षिणं ततः कुर्यात्पश्चात्स्वभवनं व्रजेत् ॥
नभः शुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम् ॥ ११०-१९ ॥
धर्मार्थकाममोक्षाणां निदानं परमं व्रतम् ॥
सोमवारं समारभ्य सार्धमासत्रयं द्विज ॥ ११०-२० ॥
कार्तिकासितभूतायामुपोष्यं व्रततत्परः ॥
पूर्णायां शिवमभ्यर्च्य सुवण वंशसंयुतम् ॥ ११०-२१ ॥
वायनं सुमहत्पुण्यं देवताप्रीतिवर्धकम् ॥
दद्याद्विप्राय सङ्कल्प्य धनवृद्ध्यै मुनीश्वर ॥ ११०-२२ ॥
भाद्रशुक्लप्रतिपदि व्रतं नाम्ना महत्तमम् ॥
व्रतं मौनाह्वयं केचित्प्राहुरत्र शिवोऽर्च्यते ॥ ११०-२३ ॥
नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च ॥
फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश ॥ ११०-२४ ॥
देवाय षोडशान्यानि भुज्यन्ते षोडशात्मना ॥
सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित् ॥ ११०-२५ ॥
तत्सर्वं धेनुसहितमाचार्य्याय प्रदापयेत् ॥
इदं कृत्वा व्रतं विप्र देव देवस्य शूलिनः ॥ ११०-२६ ॥
चतुर्दशाब्दं देहान्तं भुक्तभोगः शिवं व्रजेत् ॥
आश्विने सितपक्षत्यां कृत्वाशोकव्रतं नरः ॥ ११०-२७ ॥
अशोको जायते विप्रधनधान्यसमन्वितः ॥
अशोकपूजनं तत्र कार्यं नियमतत्परैः ॥ ११०-२८ ॥
व्रतान्ते द्वादशे वर्षे मूर्तिं चाशोकशाखिनः ॥
समर्प्य गुरवे भक्त्या शिवलोके महीयते ॥ ११०-२९ ॥
अस्यामेव प्रतिपदि नवरात्रं समारभेत् ॥
पूर्वाह्णे पूजयेद्देवीं घटस्थापनपूर्वकम् ॥ ११०-३० ॥
अङ्कुरारोपणं कृत्वा यवैर्गोधूममिश्रितैः ॥
ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम् ॥ ११०-३१ ॥
उपवासं यथाशक्ति पूजापाठजपादिकम् ॥
मार्कण्ण्डेय पुराणोक्तं चरितत्रितयं द्विज ॥ ११०-३२ ॥
पठनीयं नवदिनं भुक्तिमुक्ती अभीप्सता ॥
कुमारीपूजनं तत्र प्रशस्तं भोजनादिभिः ॥ ११०-३३ ॥
इत्थं कृत्वा व्रतं विप्र सर्वसिद्ध्यालयो नरः ॥
जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः ॥ ११०-३४ ॥
अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत् ॥
विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम् ॥ ११०-३५ ॥
सर्वपाकैः सर्ददोहैः सर्वैः सर्वार्थसिद्धये ॥
कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने ॥ ११०-३६ ॥
सायं गोभिः सह श्रीमद्गोवर्द्धनधराधरम् ॥
समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात् ॥ ११०-३७ ॥
अथ मार्गसिताद्यायां धनव्रतमनुत्तमम् ॥
नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम् ॥ ११०-३८ ॥
रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत् ॥
एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि ॥ ११०-३९ ॥
वह्निना दग्धपापस्तु विष्णुलोके महीयते ॥
पौषशुक्लप्रतिपदि भानुमभ्यर्च्य भक्तितः ॥ ११०-४० ॥
एकभक्तव्रतो मर्त्यो भानुलोकमवाप्नुयात् ॥
माघशुक्लाद्यदिवसे वह्निं साक्षान्महेश्वरम् ॥ ११०-४१ ॥
समभ्यर्च्य विधानेन समृद्धो जायते भुवि ॥
अथ फाल्गुनशुक्लादौ देवदेवं दिगम्बरम् ॥ ११०-४२ ॥
धूलिधूसरसर्वाङ्गं जलैरुक्षेत्समन्ततः ॥
कर्मणा लौकिकेनापि सन्तुष्टो हि महेश्वरः ॥ ११०-४३ ॥
स्वसायुज्यं प्रदिशति भक्त्या सम्यक्समर्चितः ॥
वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम् ॥ ११०-४४ ॥
समभ्यर्च्य विधानेन विप्रान्सम्भोजयेद्वती ॥
एवं शुचिसिताद्यायां ब्रह्माणं जगतां गुरुम् ॥ ११०-४५ ॥
विष्णुना सहितो ब्रह्मा सर्वलोकेश्वरेश्वरः ॥
स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात् ॥ ११०-४६ ॥
आसु द्वादशमासानां प्रतिपत्सु द्विजोत्तम ॥
व्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च ॥ ११०-४७ ॥
व्रतेष्वेतेषु सर्वेषु ब्रह्मचर्यं विधीयते ॥
भोजने तु हविष्यान्नं सामान्यत उदाहृतम् ॥ ११०-४८ ॥
इति श्रीबृहन्ननारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्व्रतनिरूपणं नाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥