१०९

ब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् ॥
यच्च द्वादशसाहस्रमादिकल्पकथायुतम् ॥ १०९-१ ॥

प्रक्रियाख्योऽनुषङ्गाख्य उपोद्घातस्तृतीयकः ॥
चतुर्थ उपसंहारः पादाश्चत्वार एव हि ॥ १०९-२ ॥

पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः ॥
तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ॥ १०९-३ ॥

आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः ॥
हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ॥ १०९-४ ॥

एष वै प्रथमः पादो द्वितीयं श्रृणु मानद ॥
कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ॥ १०९-५ ॥

मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् ॥
महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ॥ १०९-६ ॥

अग्नीनां विजयश्चाथ कालसद्भाववर्णनम् ॥
प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः ॥ १०९-७ ॥

वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम् ॥
जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ॥ १०९-८ ॥

उर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम् ॥
आदित्यव्यूहकथनं देवग्रहानुकीर्तनम् ॥ १०९-९ ॥

नीलकण्ठाह्वयाख्यानं महादेवस्य वैभवम् ॥
अमावास्यानुकथनं युगतत्त्वनिरूपणम् ॥ १०९-१० ॥

यज्ञप्रवर्तनं चाथ युगयोरन्त्ययोः कृतिः ॥
युगप्रजालक्षणं च ऋषिप्रवरवर्णनम् ॥ १०९-११ ॥

वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम् ॥
शेषमन्वन्तराख्यानं पृथिवीदोहनं ततः ॥ १०९-१२ ॥

चाक्षुषेऽद्यतने सर्गे द्वितीयोऽङ्घ्रिः पुरोदले ॥
अथोपोद्घातपादे तु सप्तर्षिपरिकीर्तनम् ॥ १०९-१३ ॥

प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः ॥
ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम् ॥ १०९-१४ ॥

काश्यपेयानुकथनं ऋषिवंशनिरूपणम् ॥
पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ॥ १०९-१५ ॥

वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् ॥
मनुपुत्रान्वयश्चान्तो गान्धर्वस्य निरूपणम् ॥ १०९-१६ ॥

इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः ॥
अमावसोरन्वयश्च रजेश्चरितमद्भुतम् ॥ १०९-१७ ॥

ययातिचरितं चाथ यदुवंशनिरूपणम् ॥
कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम् ॥ १०९-१८ ॥

वृष्णिवंशानुकथनं सगरस्याथ सम्भवः ॥
भार्गवस्यानुचरितं पितृकार्यवधाश्रयम् ॥ १०९-१९ ॥

सगरस्याथ चरितं भार्गवस्य कथा पुनः ॥
देवासुराहवकथा कृष्णाविर्भाववर्णनम् ॥ १०९-२० ॥

इन्द्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः ॥
विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम् ॥ १०९-२१ ॥

भविष्यराजचरितं सम्प्राप्तेऽथ कलौ युगे ॥
समुपोद्धातपादोऽयं तृतीयो मध्यमे दले ॥ १०९-२२ ॥

चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे ॥
वैवस्वतान्तराख्यानं विस्तरेण यथातथाम् ॥ १०९-२३ ॥

पूर्वमेव समुद्दिष्टं सङ्क्षेपादिह कथ्यते ॥
भविष्याणां मनूनां च चरितं हि ततः परम् ॥ १०९-२४ ॥

कल्पप्रलयनिर्देशः कालमानं ततः परम् ॥
लोकाश्चतुर्द्दश ततः कथिताः प्राप्तलक्षणैः ॥ १०९-२५ ॥

वर्णनं नरकाणां च विकर्माचरणैस्ततः ॥
मनोमयपुराख्यानं लयः प्राकृतिकस्ततः ॥ १०९-२६ ॥

शैवस्याथ पुरस्यापि वर्णनं च ततः परम् ॥
त्रिविधा गुणसम्बन्धाज्जन्तूनां कीर्तिता गतिः ॥ १०९-२७ ॥

अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः ॥
अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ॥ १०९-२८ ॥

इत्येष उपसंहारपादो वृत्तः सहोत्तरः ॥
चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतकम् ॥ १०९-२९ ॥

अष्टादशमनौपम्यं सारात्सारतरं द्विज ॥
ब्रह्माण्डं यच्चतुर्लक्षं पुराणं येन पठ्यते ॥ १०९-३० ॥

तदेतदस्य गदितमत्राष्टादशधा पृथक् ॥
पाराशर्येण मुनिना सर्वेषामपि मानद ॥ १०९-३१ ॥

वस्तुतस्तूपदेष्ट्राथ मुनीनां भावितात्मनाम् ॥
मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ॥ १०९-३२ ॥

मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः ॥
मयाचेदं पुराणं तु वसिष्टाय पुरोदितम् ॥ १०९-३३ ॥

तेन शक्तिसुतायोक्तं जातूकर्ण्याय तेन च ॥
व्यासो लब्ध्वा ततश्चैतत्प्रभञ्जनमुखोद्गतम् ॥ १०९-३४ ॥

प्रमाणीकृत्य लोकेऽस्मिन्प्रावर्तयदनुत्तमम् ॥
य इदं कीर्तयेद्वत्स श्रृणोति च समाहितः ॥ १०९-३५ ॥

स विधूयेह पापानि याति लोकमनामयम् ॥
लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम् ॥ १०९-३६ ॥

वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति ॥
स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा ॥ १०९-३७ ॥

मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते ॥
पुराणानि तु सङ्क्षेपाच्छ्रोतव्यानि च विस्तरात् ॥ १०९-३८ ॥

अष्टादश पुराणानि यः श्रृणोति नरोत्तमः ॥
कथयेद्वा विधानेन नेह भूयः स जायते ॥ १०९-३९ ॥

सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना ॥
तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ॥ १०९-४० ॥

न दाम्भिकाय पापाय देवगुर्वनुसूयवे ॥
देयं कदापि साधूनां द्वेषिणे न शठाय च ॥ १०९-४१ ॥

शान्ताय शमचित्ताय शुश्रूषाभिरताय च ॥
निर्मत्सराय शुचये देयं सद्वैष्णवाय च ॥ १०९-४२ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरूपणं नाम नवोत्तरशततमोऽध्यायः ॥ १०९ ॥