१०७

ब्रह्मोवाच ॥
अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्विजसत्तम ॥
यत्रोक्तं सप्तकल्पानां वृत्तं सङ्क्षिप्य भूतले ॥ १०७-१ ॥

व्यासेन वेदविदुषा नारसिंहोपवर्णने ॥
उपक्रम्य तदुद्दिष्टं चतुर्द्दशसहस्रकम् ॥ १०७-२ ॥

मनुमत्स्यसुसंवादो ब्रह्माण्डकथनं ततः ॥
ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च ॥ १०७-३ ॥

मदनद्वादशी तद्वल्लोकपालाभिपूजनम् ॥
मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनम् ॥ १०७-४ ॥

सूर्यवैवस्वतोत्पत्तिर्बुधसङ्गमनं तथा ॥
पितृवंशानुकथनं श्रद्धाकालस्तथैव च ॥ १०७-५ ॥

पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च ॥
कीर्तनं सोमवंशस्य ययातिचरितं तथा ॥ १०७-६ ॥

पितृवंशानुकथनं सृष्टवंशानुकीर्तनम् ॥
भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ ॥ १०७-७ ॥

कीर्त्तनं पूरुवंशस्य वंशो हौताशनः परम् ॥
क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम् ॥ १०७-८ ॥

व्रतं नक्षत्रपुरुषं मार्तण्डशयनं तथा ॥
कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसञ्ज्ञितम् ॥ १०७-९ ॥

तडागविधि माहात्म्यं पादपोत्सर्ग एव च ॥
सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च ॥ १०७-१० ॥

तथानन्ततृतीयाया रसकल्याणिनीव्रतम् ॥
तथैवानं दकर्याश्च व्रतं सारस्वतं पुनः ॥ १०७-११ ॥

उपरागाभिषेकश्च सप्तमीशनं तथा ॥
भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा ॥ १०७-१२ ॥

अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् ॥
सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम् ॥ १०७-१३ ॥

मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च ॥
ग्रहस्वरूपकथनं तथा शिवचतुर्दशी ॥ १०७-१४ ॥

तथा सर्वफलत्यागः सूर्यवारव्रतं तथा ॥
सङ्क्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् ॥ १०७-१५ ॥

षष्टीव्रतानां माहात्म्यं तथा स्नानविधिकमः ॥
प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम् ॥ १०७-१६ ॥

तथान्तरिक्षचारश्च ध्रुवमाहात्म्यमेव च ॥
भवनानि सुरेन्द्राणां त्रिपुरोद्योतनं तथा ॥ १०७-१७ ॥

पितृप्रवरमाहात्म्यं मन्वन्तरविनिर्णयः ॥
चतुर्युगस्य सम्भूतिर्युगधर्मनिरूपणम् ॥ १०७-१८ ॥

वज्राङ्गस्य तु सम्भूति स्तारकोत्पत्तिरेव च ॥
तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम् ॥ १०७-१९ ॥

पार्वतीसम्भवस्तद्वत्तथा शिवतपोवनम् ॥
अनङ्गदेहदाहश्च रतिशोकस्तथैव च ॥ १०७-२० ॥

गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम् ॥
पार्वतीऋषिसंवादस्तथैरोद्वाहमङ्गलम् ॥ १०७-२१ ॥

कुमारसम्भवस्तद्वत्कुमारविजयस्तथा ॥
तारकस्य वधो घोरो नरसिंहोपवर्णनम् ॥ १०७-२२ ॥

पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् ॥
वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च ॥ १०७-२३ ॥

प्रवरानुक्रमस्तद्वत्पितृगाथानुकीर्तनम् ॥
तथोभयमुखीदानं दानं कृष्णाजिनस्य च ॥ १०७-२४ ॥

ततः सावित्र्युपाख्यानं राजधर्मास्तथैव च ॥
विविधोत्पातकथनं ग्रहणान्तस्तथैव च ॥ १०७-२५ ॥

यात्रानिमित्तकथनं स्वप्नमङ्गलकीर्तने ॥
वामनस्य तु माहात्म्यं वाराहस्य ततः परम् ॥ १०७-२६ ॥

समुद्रमथनं तद्वत्कालकूटाभिशान्तनम् ॥
देवासुरविमर्दश्च वास्तुविद्या तथैव च ॥ १०७-२७ ॥

प्रतिमालक्षणं तद्वद्देवतायतनं तथा ॥
प्रासादलक्षणं तद्वन्मण्डपान च लक्षणम् ॥ १०७-२८ ॥

भविष्यराज्ञामुद्देशो महादानानुकीर्तनम् ॥
कल्पानुकीर्तनं तद्वत्पुराणेऽस्मिन्प्रकीर्तितम् ॥ १०७-२९ ॥

पवित्रमेतत्कल्याणमायुः कीर्तिविवर्द्धनम् ॥
यः पठेच्छृणुयाद्वापि स याति भवनं हरेः ॥ १०७-३० ॥

लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवान्वितम् ॥
विप्रायाभ्यर्च्य विषुवे स याति परमं पदम् ॥ १०७-३१ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुराणानुक्रमणीकथनं नाम सप्तोत्तरशततमोऽध्यायः ॥ १०७ ॥