ब्रह्मोवाच ॥
श्रृणु वत्स मरीचे त्वं पुराणं कूर्मसञ्ज्ञकम् ॥
लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः ॥ १०६-१ ॥
धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक्पृथक् ॥
इन्द्रद्युम्नप्रसङ्गेन प्राहर्षिभ्यो दयान्वितः ॥ १०६-२ ॥
तत्सप्तदशसाहस्रं सुचतुः संहितं शुभम् ॥
यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधा मुने ॥ १०६-३ ॥
नाननाकथाप्रसङ्गेन नृणां सद्गतिदायकाः ॥
तत्र पूर्वविभागे तु पुराणोपक्रमः पुरा ॥ १०६-४ ॥
लक्ष्मीन्द्रद्युम्नसंवादः कूर्म्मर्षिगणसङ्कथा ॥
वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम् ॥ १०६-५ ॥
कालसङ्ख्या समासेन लयान्ते स्तवनं विभोः॥
ततः सङ्क्षेपतः सर्गः शाङ्करं चरितं तथा ॥ १०६-६ ॥
सहस्रनाम पार्वत्या योगस्य च निरूपणम् ॥
भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च ॥ १०६-७ ॥
देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः ॥
दक्षसृष्टिकथा पश्चात्कश्यपान्वयकीर्तनम् ॥ १०६-८ ॥
आत्रेयवंशकथनं कृष्णस्यं चरितं शुभम् ॥
मार्तण्डकृष्णसंवादो व्यासपाण्डवसङ्कथा ॥ १०६-९ ॥
युगधर्मानुकथनं व्यासजैमिनिकीर्तनम् ॥
वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ॥ १०६-१० ॥
त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् ॥
उत्तरेऽस्या विभागे तु पुरा गीतैश्वरी ततः ॥ १०६-११ ॥
व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी ॥
नानाविधानां तीर्थानां माहात्म्यं च पृथक् ततः ॥ १०६-१२ ॥
प्रतिसर्गप्रकथनं ब्राह्मीयं संहिता स्मृता ॥
अतः परं भागवतीसंहितार्थ निरूपणम् ॥ १०६-१३ ॥
कथिता यत्र वर्णानां पृथक्वृत्तिरुदाहृता ॥
पादऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः ॥ १०६-१४ ॥
सदा चागत्मिका वत्स भोगसौख्यविवर्द्धनी ॥
द्वितीये क्षत्त्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता ॥ १०६-१५ ॥
यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् ॥
तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा ॥ १०६-१६ ॥
यया चरितया सम्यग्लभे गतिमुत्तमाम् ॥
चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता ॥ १०६-१७ ॥
यया सन्तुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः ॥
पञ्चमेऽस्यास्ततः पादे वृत्तिः सङ्करजोदिता ॥ १०६-१८ ॥
यया चरितयाप्नोति भाविनीं गतिमुत्तमाम् ॥
इत्येषा पञ्चपद्युक्ता द्वितीया संहिता मुने ॥ १०६-१९ ॥
तृतीयात्रोदिता सौरी नॄणां कार्यविधायिनी ॥
षोढा षट्कर्मसिर्द्धि बोधयन्ती च कामिनाम् ॥ १०६-२० ॥
चतुर्थीवैष्णवो नाम मोक्षदा परिकीर्तिता ॥
चतुष्पदी द्विजातीनां साक्षाद्ब्रह्मस्वरूरिणी ॥ १०६-२१ ॥
ताः क्रमात्षट्चतुर्द्वीषुसाहस्राः परिकीर्तिताः ॥ १०६-२२ ॥
एतत्कूर्मपुराणं तु चतुर्वर्गफलप्रदम् ॥
पठतां श्रृण्वतां नॄणां सर्वोत्कृष्टगतिप्रदम् ॥ १०६-२३ ॥
लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वितम् ॥
ब्राह्मणायायने दद्यात्स याति परमां गतिम् ॥ १०६-२४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपुराणानुक्रमणीकथनं नाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥