ब्रह्मोवाच ॥
शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम् ॥
त्रिविक्रमचरित्राढ्यं दशसाहस्रसङ्ख्यकम् ॥ १०५-१ ॥
कूर्मकल्पसमाख्यानं वर्गत्रयकथानम् ॥
भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम् ॥ १०५-२ ॥
पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः ॥
कपालमोचनाख्यानं दक्षयज्ञविहिंसनम् ॥ १०५-३ ॥
हरस्य कालरूपाख्या कामस्य दहनं ततः ॥
प्रह्लादनारायणयोर्युद्धं देवासुराहवः ॥ १०५-४ ॥
सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् ॥
ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ॥ १०५-५ ॥
तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् ॥
सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम् ॥ १०५-६ ॥
तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः ॥
ततः कौशिक्युपाख्यानं कुमारचरितं ततः ॥ १०५-७ ॥
ततोऽन्धकवधाख्यानंसाध्योपाख्यानकन्ततः ॥
जाबालिचरितं पश्चादरजायाः कथाद्भुता ॥ १०५-८ ॥
अन्धकेशरयोर्युद्धं गणत्वं चान्धकस्य च ॥
मरुतां जन्मकथनं बलेश्च चरितं ततः ॥ १०५-९ ॥
ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् ॥
प्रह्लादतीर्थयात्रायां प्रोच्यन्तेऽथ कथाः शुभाः ॥ १०५-१० ॥
ततश्च धुन्धु चरितं प्रेतोपाख्यानकं ततः ॥
नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ॥ १०५-११ ॥
त्रिविक्रमचरित्रान्ते ब्रह्मप्रोक्तः स्तवोत्तमः ॥
प्रह्लादबलिसंवादे सुतले हरिशंसनम् ॥ १०५-१२ ॥
इत्येष पूर्वभागोऽस्य पुराणस्य तवोदितः ॥
शृण्णतोऽस्योत्तरं भागं बृहद्वामनसञ्ज्ञकम् ॥ १०५-१३ ॥
माहेश्वरी भागवती सौरी गाणेश्वरी तथा ॥
चतस्रः संहिताश्चात्र पृथक् साहस्रसङ्ख्यया ॥ १०५-१४ ॥
माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनम् ॥
भागवत्यां जगन्मातुखतारकथाद्भुता ॥ १०५-१५ ॥
सौर्यां सूर्यस्य महिमा गदितः पापनाशनः ॥
गाणेश्वर्यां गणेशस्य चरितं च महेशितुः ॥ १०५-१६ ॥
इत्येतद्वामनं नाम पुराणं सुविचित्रकम् ॥
पुलस्त्येन समाख्यातं नारदाय महात्मने ॥ १०५-१७ ॥
ततो नारदतः प्राप्तं व्यासेन सुमहात्मना ॥
व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः ॥ १०५-१८ ॥
स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च ॥
एवं परम्पराप्राप्तं पुराणं वामनं शुभम् ॥ १०५-१९ ॥
ये पठन्ति च शृण्वन्ति तेऽपि यान्ति परां गतिम् ॥
लिखित्वैतत्पुराणं तु यः शरद्विषुवेऽर्पयेत् ॥ १०५-२० ॥
विप्राय वेदविदुषे घृतधेनुसमन्वितम् ॥
स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान् ॥ १०५-२१ ॥
देहान्ते भुक्तभोगोऽसौ याति विष्णोः परं पदम् ॥ १०५-२१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥