ब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि पुराणं स्कन्दसञ्ज्ञकम् ॥
यस्मिन्प्रतिपदं साक्षान्महादेवो व्यवस्थितः ॥ १०४-१ ॥
पुराणे शतकोटो तु यच्छैवं वर्णितं मया ॥
लक्षं तस्यार्थं जातस्य सारो व्यासेन कीर्तितः ॥ १०४-२ ॥
स्कन्दाह्वयस्तत्र खण्डाः सप्तैव परिकल्पिताः ॥
एकाशीतिसहस्रं तु स्कान्दं सर्वोघकृतन्नम् ॥ १०४-३ ॥
यः श्रृणोति पठेद्वापि स तु साक्षाच्छिवः स्थितः ॥
यत्र माहेश्वरा धर्माः षण्मुखेन प्रकाशिताः ॥ १०४-४ ॥
कल्पे तत्पुरुषे वृत्ताः सर्वसिद्धिविधायकाः ॥
तस्य माहेश्वरश्चाथ खण्डः पापप्रणाशनः ॥ १०४-५ ॥
किञ्चिन्न्यूनार्कसाहस्रो बहुपुण्यो बृहत्कथः ॥
सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः ॥ १०४-६ ॥
यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा ॥
दक्षयज्ञकथा पश्चाच्छिवलिङ्गार्चने फलम् ॥ १०४-७ ॥
समुद्रमथनाख्यानं देवेन्द्रचरितं ततः ॥
पार्वत्याः समुपाख्यानं विवाहस्तदनन्तरम् ॥ १०४-८ ॥
कुमारोत्पत्तिकथनं ततस्तारकसङ्गरः ॥
ततः पाशुपताख्यानं चण्डाख्यानसमन्वितम् ॥ १०४-९ ॥
द्यूतप्रवर्तनाख्यानं नारदेन समागमः ॥
ततः कुमारमाहात्म्ये पञ्चतीर्थकथानकम् ॥ १०४-१० ॥
धर्मवर्मनृपाख्यानं नदीसागरकीर्तनम् ॥
इन्द्रद्युम्नकथा पस्चान्नाडीजङ्घकथान्वितम् ॥ १०४-११ ॥
प्रादुर्भावस्ततो मह्याः कथा दमनकस्य च ॥
महीसागरसंयोगः कुमारेशकथा ततः ॥ १०४-१२ ॥
ततस्तारकयुद्धं च नानाख्यानसमन्वितम् ॥
वधश्च तारकस्याथ पञ्चलिङ्गनिवेशनम् ॥ १०४-१३ ॥
द्वीपाख्यानं ततः पुण्यमूर्द्धलोकव्यवस्थितिः ॥
ब्रह्माण्डस्थितिमानं च वर्करेशकथानकम् ॥ १०४-१४ ॥
महाकालसमुद्भूतिः कथा चास्य महाद्भुता ॥
वासुदेवस्य माहात्म्यं कोटितीर्थं ततः परम् ॥ १०४-१५ ॥
नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्तितम् ॥
पाण्डवानां कथा पुण्या महाविद्याप्रसाधनम् ॥ १०४-१६ ॥
तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् ॥
अरुणाचलमाहात्म्यं सनकब्रह्मसङ्कथा ॥ १०४-१७ ॥
गौरीतपः समाख्यानं तत्तत्तीर्थनिरूपणम् ॥
माहिषासुरमाख्यानं वधश्चास्य महाद्भुतः ॥ १०४-१८ ॥
द्रोणाचले शिवास्थानं नित्यदापरिकीर्तितम् ॥
इत्येष कथितः स्कान्दे खण्डो माहेश्वरोऽद्भुतः ॥ १०४-१९ ॥
द्वितीयो वैष्णवः खण्डस्तस्याख्यानानि मे शुणु ॥
प्रथमं भूमिवाराहसमाख्यानं प्रकीर्तितम् ॥ १०४-२० ॥
यत्र वेङ्कटकुध्रस्य माहात्म्यं पापनाशनम् ॥
कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः ॥ १०४-२१ ॥
कुला लाख्यानकं चात्र सुवर्णमुखरी कथा ॥
नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता ॥ १०४-२२ ॥
मतङ्गाञ्जनसंवादः कीर्तितः पापनाशनः ॥
पुरुषोत्तममाहात्म्यं कीर्तितं चोत्कले ततः ॥ १०४-२३ ॥
मार्कण्डेयसमाख्यानमम्बरीषस्य भूपतेः ॥
इन्द्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा ॥ १०४-२४ ॥
जैमिनेः समुपाख्यानं नारदस्यापि वाडव ॥
नीलकण्ठसमाख्यानं नरसिंहोपवर्णनम् ॥ १०४-२५ ॥
अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा ॥
रथयाव्राविधिः पश्चाज्जन्मस्थानविधिस्तथा ॥ १०४-२६ ॥
दक्षिणामूर्त्युपाख्यानं गुण्डिवाख्यानकं ततः ॥
रथरक्षाविधानं च शयनोत्सवकीर्तनम् ॥ १०४-२७ ॥
श्वेतोपाख्यानमत्रोक्तं पृथुत्सवनिरूपणम् ॥
दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम् ॥ १०४-२८ ॥
पूजा चाकामिका विष्णोरुद्दालकनियोगतः ॥
योगसाधनमत्रोक्तं नानायोगनिरूपणम् ॥ १०४-२९ ॥
दशावतारकथनं स्रानादिपरिकीर्तनम् ॥
ततो बदरिकायाश्च माहात्म्यं पापनाशनम् ॥ १०४-३० ॥
अग्न्यादितीर्थमाहात्म्यं वैनतेयशिलाभवम् ॥
कारणं भगवद्वासे तीर्थं कापालमोचनम् ॥ १०४-३१ ॥
पञ्चधाराभिधं तीर्थं मेरुसंस्थापनं तथा ॥
ततः कार्तिकमाहात्म्ये माहात्म्यं मदनालसम् ॥ १०४-३२ ॥
धूम्रकेशसमाख्यानं दिनकृत्यानि कार्तिके ॥
पञ्चभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम् ॥ १०४-३३ ॥
ततो मार्गस्य माहात्म्ये विधानं स्नानजं तथा ॥
पुण्ड्रादिकीर्तनं चात्र मालाधारणपुण्यकम् ॥ १०४-३४ ॥
पञ्चामृतस्नानपुण्यं घण्टानादादिजं फलम् ॥
नानापुष्पार्चनफलं तुलसीदलजं फलम् ॥ १०४-३५ ॥
नैवेद्यस्य च माहात्म्यं हरिवासरकीर्तनम् ॥
अखण्डैकादशीपुण्यं तथा जागरणस्य च ॥ १०४-३६ ॥
यस्योत्सवविधानं च नाममाहात्म्यकीर्तनम् ॥
ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम् ॥ १०४-३७ ॥
मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम् ॥
वनानां द्वादशानां च माहात्म्यं कीर्तितं ततः ॥ १०४-३८ ॥
श्रीमद्भागवतस्यात्र माहात्म्यं कीर्तितं परम् ॥
वज्रशाण्डिल्यसंवाद अन्तर्लीलाप्रकाशकम् ॥ १०४-३९ ॥
ततो माघस्य माहात्म्यं स्नानदानजपोद्भवम् ॥
नानाख्यानसमायुक्तं दशाध्यायैर्निरूपितम् ॥ १०४-४० ॥
ततो वैष्णवमाहात्म्ये शय्यादानादिजं फलम् ॥
जलदा नादिविधयः कामाख्यानमतः परम् ॥ १०४-४१ ॥
श्रुतदेवस्य चरितं व्याधोपाख्यानमद्भुतम् ॥
तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम् ॥ १०४-४२ ॥
ततस्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्वतीर्थके ॥
सुरापापविमोक्षाख्ये तथाधारसहस्रकम् ॥ १०४-४३ ॥
स्वर्गद्वारं चन्द्रहरिधर्महर्युपवर्णनम् ॥
स्वर्णवृष्टेरुपाख्यानं तिलोदासरयूयुतिः ॥ १०४-४४ ॥
सीताकुण्डं गुप्तहरिसरंयुघर्घरान्वयः ॥
गोप्रतारं च दुग्धोदं गुरुकुण्डादिपञ्चकम् ॥ १०४-४५ ॥
सोमार्का दीनि तीर्थानि त्रयोदश ततः परम् ॥
गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम् ॥ १०४-४६ ॥
माण्डव्याश्रमपूर्वाणि तीर्थानि तदनन्तरम् ॥
अजितादि मानसादितीर्थानि गदितानि च ॥ १०४-४७ ॥
इत्येष वैष्णवः खण्डो द्वितीयः परिकीर्तितः ॥
अतः परं ब्रह्मखण्डं मरीचे श्रृणु पुण्यदम् ॥ १०४-४८ ॥
यत्र वै सेतुमाहात्म्ये फलं स्नाने क्षणोद्भवम् ॥
गालवस्य तपश्चर्या राक्षसाख्यानकं ततः ॥ १०४-४९ ॥
चक्रतीर्थादिमाहात्म्यं देवीपत्तनसंयुते ॥
वेतालतीर्थमहिमा पापनाशादिकीर्तनम् ॥ १०४-५० ॥
मङ्गलादिकमाहात्म्यं ब्रह्मकुण्डादिवर्णनम् ॥
हनुमत्कुण्डमहिमागस्त्यतीर्थभवं फलम् ॥ १०४-५१ ॥
रामतीर्थादिकथनं लक्ष्मीतीर्थनिरूपणम् ॥
शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः ॥ १०४-५२ ॥
धनुष्कोट्यादिमाहात्म्यं क्षीरकुण्डादिजं तथा ॥
गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्तितम् ॥ १०४-५३ ॥
रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम् ॥
यात्राविधानकथनं सेतै मुक्तिप्रदं नृणाम् ॥ १०४-५४ ॥
धर्मारण्यस्य माहात्म्यं ततः परमुदीरितम् ॥
स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत् ॥ १०४-५५ ॥
धर्मारण्यसुसम्भूतिस्तत्पुण्यपरिकीर्त्तनम् ॥
कर्म्मसिद्धेः समाख्यानं ऋषिवंशनिरूपणम् ॥ १०४-५६ ॥
अप्सरस्तीर्थमुख्यानां माहात्म्यं यत्र कीर्तितम् ॥
वर्णानामाश्रमाणां च धर्मतत्त्वनिरूपणम् ॥ १०४-५७ ॥
दिवः स्थानविभागश्च बकुलार्ककथा शुभा ॥
छत्रानन्दा तथा शान्ता श्रीमाता च मतङ्गिनी ॥ १०४-५८ ॥
पुण्यदा च समाख्याता यत्र देव्यः समास्थिताः ॥
इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरूपणम् ॥ १०४-५९ ॥
लोहासुरसमाख्यानं गङ्गाकूपनिरूपणम् ॥
श्रीरामचरितं चैव सत्यमन्दिरवर्णनम् ॥ १०४-६० ॥
जीर्णोद्धा रस्य कथनमासनप्रतिपादनम् ॥
जातिभेदप्रकथनं स्मृतिधर्मनिरूपणम् ॥ १०४-६१ ॥
ततस्तु वैष्णवा धर्मा नानाख्यानैरुदीरिताः ॥
चातुर्मास्ये ततः पुण्ये सर्वधर्मनिरूपणम् ॥ १०४-६२ ॥
दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः ॥
तपश्चैव पूजायाः सच्छिद्रकथनं ततः ॥ १०४-६३ ॥
तद्वृत्तीनां भिदाख्यानं शालग्रामनिरूपणम् ॥
भारकस्य वधोपायो वृक्षाचामहिमा तथा ॥ १०४-६४ ॥
विष्णोः शापश्च वृक्षत्वं पार्वत्यनुतपस्ततः ॥
हरस्य ताण्डवं नृत्यं रामनामनिरूपणम् ॥ १०४-६५ ॥
हरस्य लिङ्गपतनं कथा बैजवनस्य च ॥
पार्वतीजन्मचरितं तारकस्य वधोऽद्भुतः ॥ १०४-६६ ॥
प्रणवैश्वर्यकथनं तारकाचरितं पुनः ॥
दक्षयज्ञसमाप्तिश्च द्वादशाक्षरभूषणम् ॥ १०४-६७ ॥
ज्ञानयोगसमाख्यानं महिमा द्वादशाक्षरेः ॥
श्रवणादिकपुण्यं च कीर्तितं शर्मदं नृणाम् ॥ १०४-६८ ॥
ततो ब्राह्मोत्तरे भागे शिवस्य महिमाद्भुतः ॥
पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः ॥ १०४-६९ ॥
शिवरात्रैश्च महिमा प्रदोषव्रतकीर्तनम् ॥
सोमवारव्रतं चापि सीमन्तिन्याः कथानकम् ॥ १०४-७० ॥
भद्रायुत्पत्तिकथनं सदाचारनिरूपणम् ॥
शिववर्मसमुद्देशो भद्रायूद्वाहवर्णनम् ॥ १०४-७१ ॥
भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्तनम् ॥
शबराख्यानकं चैव उमामाहेश्वरं व्रतम् ॥ १०४-७२ ॥
रुद्राक्षस्य च माहात्म्यं रुद्राध्यायस्य पुण्यकम् ॥
श्रवणादिकपुण्यं च ब्रह्मखण्डोऽयमीरितः ॥ १०४-७३ ॥
अतः परं चतुर्थँ तु काशीखण्डमनुत्तमम् ॥
विन्ध्यनारदयोर्यत्र संवादः परिकीर्तितः ॥ १०४-७४ ॥
सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः ॥
पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम् ॥ १०४-७५ ॥
ततश्च सप्तपुर्याख्या संयमिन्या निरूपणम् ॥
बुधस्य च तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्मणः ॥ १०४-७६ ॥
अग्नेः समुद्भवश्चैव क्रव्याद्वरुणसम्भवः ॥
गन्धवत्यलकापुर्योरीश्वर्याश्च समुद्भवः ॥ १०४-७७ ॥
चन्द्रार्कबुधलोकानां कुजेज्यार्कभुवां क्रमात् ॥
मम विष्णोर्ध्रुवस्यापि तपोलोकस्य वर्णनम् ॥ १०४-७८ ॥
ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम् ॥
स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः ॥ १०४-७९ ॥
प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम् ॥
वाराणसीप्रशंसा च भैरवाविर्भवस्ततः ॥ १०४-८० ॥
दण्डपाणिज्ञानवाप्योरुद्भवः समनन्तरम् ॥
ततः कलावत्याख्यानं सदाचारनिरूपणम् ॥ १०४-८१ ॥
ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च ॥
कृत्याकृत्यविनिर्देशो ह्यविमुक्तेशवर्णनम् ॥ १०४-८२ ॥
गृहस्थयोगिनो धर्माः कालज्ञानं ततः परम् ॥
दिवोदासकथा पुण्या काशिकावर्णनं ततः ॥ १०४-८३ ॥
मायागणपतेश्चाथ भुवि प्रादुर्भवस्ततः ॥
विष्णुमायाप्रपञ्चोऽथ दिवोदासविमोक्षणम् ॥ १०४-८४ ॥
ततः पञ्चनदोत्पर्त्तिर्बिन्दुमाधवसम्भवः ॥
ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः ॥ १०४-८५ ॥
जैगीषव्येन संवादो ज्येष्ठेशाख्या महेशितुः ॥
क्षेत्राख्यानं कन्दुकेशः व्याघ्रेश्वरसमुद्भवः ॥ १०४-८६ ॥
शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्भवः ॥
देवतानामधिष्टानं दुर्गासुरपराक्रमः ॥ १०४-८७ ॥
दुर्गाया विजयश्चाथ ॐकारेशस्य वर्णनम् ॥
पुनरोङ्कार माहात्म्य त्रिलोचोनसमुद्भवः ॥ १०४-८८ ॥
केदाराख्या च धर्मेश कथा विष्णुभुजोद्भवा ॥
वीरेश्वरसमाख्यानं गङ्गामाहात्म्यकीर्तनम् ॥ १०४-८९ ॥
विश्वकर्मेशमहिमा दक्षयज्ञोद्भवस्तथा ॥
सतीशस्यामृतेशादेर्भुजस्तम्भः पराशरे ॥ १०४-९० ॥
क्षेत्रतीर्थकदम्बश्च मुक्तिमडपसङ्कथा ॥
विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः ॥ १०४-९१ ॥
अतः परं त्ववन्त्याख्यं श्रृणु खण्ड च पञ्चमम् ॥
महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः ॥ १०४-९२ ॥
प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः ॥
देवदीक्षा शिवस्तोत्रं नानापातकनाशनम् ॥ १०४-९३ ॥
कपोलमोचनाख्यानं महाकालवनस्थितिः ॥
तीर्थं कनखलेशस्य सर्वपापप्रणाशनम् ॥ १०४-९४ ॥
कुण्डमप्सरसञ्ज्ञं च सरो रुद्रस्य पुण्यदम् ॥
कुडवेशं च विद्याध्रं मर्कटेश्वरतीर्थकम् ॥ १०४-९५ ॥
स्वर्गद्वारचतुःसिन्धुतीर्थं शङ्करवापिका ॥
शङ्कराक गन्धवतीतीर्थं पापप्रणाशनम् ॥ १०४-९६ ॥
दशाश्वमेधिकानंशतीर्थे च हरिसिद्धिदम् ॥
पिशाचकादियात्रा च हनुमत्कवचेश्वरौ ॥ १०४-९७ ॥
महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम् ॥
शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः ॥ १०४-९८ ॥
अक्रूरसञ्ज्ञकन्त्वेकपादं चन्द्रार्कवैभवम् ॥
करभेशाख्यतीर्थं च लटुकेशादितीर्थकम् ॥ १०४-९९ ॥
मार्कण्डेशं यज्ञवापी सोमेशं नरकान्तकम् ॥
केदारेश्वररामेशसौभाग्येशनरार्ककम् ॥ १०४-१०० ॥
केशवार्कं शक्तिभेदं स्वर्णसारमुखानि च ॥
ॐकारेशादितीर्थानि अन्धकश्रुतिकीर्तनम् ॥ १०४-१०१ ॥
कालारण्ये लिङ्गसङ्ख्या स्वर्णश्रृङ्गाभिधानकम् ॥
कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम् ॥ १०४-१०२ ॥
पद्मावतीवै कुमुद्वत्यमरावतिनामकम् ॥
विशालाप्रतिकल्पाभिधानं च ज्वरशान्तिकम् ॥ १०४-१०३ ॥
शिवानामादिकफलं नागोद्गीता शिवस्तुतिः ॥
हिरण्याक्षवधाख्यानं तीर्थं सुन्दरकुण्डकम् ॥ १०४-१०४ ॥
नीलगङ्गापुष्कराख्यं विन्ध्यवासनतीर्थकम् ॥
पुरुषोत्तमाभिधानं तु तत्तीर्थं चाघनाशनम् ॥ १०४-१०५ ॥
गोमती वामनं कुण्डो विष्णोर्नामसहस्रकम् ॥
वीरेश्वरसरः कालभैरवस्य च तीर्थकम् ॥ १०४-१०६ ॥
महिमा नागपञ्चम्या नृसिंहस्य जयन्तिका ॥
कुटुम्बेश्वरयात्रा च देवसाधककीर्तनम् ॥ १०४-१०७ ॥
कर्कराजाख्यतीर्थं च विघ्नेशादिसुरोहनम्॥
रुन्द्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम् ॥ १०४-१०८ ॥
यात्राष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते ॥
धर्मपुत्रस्य वैराग्यो मार्कण्डेयेन सङ्गमः ॥ १०४-१०९ ॥
प्राग्रीयानुभवाख्यानममृतापरिकीर्त्तनम् ॥
कल्पे कल्पे पृथङ् नाम नर्मदायाः प्रकीर्तितम् ॥ १०४-११० ॥
स्तवमार्षं नामेदं च कालरात्रिकथा ततः ॥
महादेवस्तुतिः पश्चात्पृथक्कल्पकथाद्भुता ॥ १०४-१११ ॥
विशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा ॥
गोरीव्रत समाख्यानं त्रिपुरज्वालनं ततः ॥ १०४-११२ ॥
देहपातविधानं च कावेरीसङ्गमस्ततः ॥
दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम् ॥ १०४-११३ ॥
अग्नितीर्थं रवितीर्थं मेघनादादिदारुकम् ॥
देवतीर्थं नर्मदेशं कपिलाख्यं करञ्जकम् ॥ १०४-११४ ॥
कुण्डलेशं पिप्पलादं विमलेशं च शूलभित् ॥
शचीहरणमाख्या नमभ्रकस्य वधस्ततः ॥ १०४-११५ ॥
शूलभेदोद्भवो यत्र दानधर्माः पृथग्विधाः ॥
आख्यानं दीर्घतपस ऋष्यश्रृङ्गकथा ततः ॥ १०४-११६ ॥
चित्रसेनकथापुण्या काशिराज्यस्य लक्षणम् ॥
ततो देवशिलाख्यानं शबरीतीर्थकान्वितम् ॥ १०४-११७ ॥
व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम् ॥
आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम् ॥ १०४-११८ ॥
कुमारेशमगस्त्येशमानन्देशं च मातृजम् ॥
लोकेशं धनदेशं च मङ्गलेशं च कामजम् ॥ १०४-११९ ॥
नागेशं चापि गोपारं गौतमं शङ्खचूडकम् ॥
नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम् ॥ १०४-१२० ॥
दधिस्कन्दादितीर्थानि हनूमतेश्वरं ततः ॥
रामेश्वरादि तीर्थानि सोमेशं पिङ्गलेश्वरम् ॥ १०४-१२१ ॥
ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम् ॥
चण्डार्कं यमतीर्थं च काल्होडीशं वनादिके ॥ १०४-१२२ ॥
नारायणं च कोटीशं व्यासतीर्थं प्रभासकम् ॥
नागेशसङ्कर्षणकं प्रश्रयेश्वरतीर्थकम् ॥ १०४-१२३ ॥
ऐरण्डीसङ्गमं पुण्यं सुवर्णशिलतीर्थकम् ॥
करञ्जं कामहं तीर्थं भाण्डीरो रोहिणीभवम् ॥ १०४-१२४ ॥
चक्रतीर्थं दौतपापं स्कन्दमाङ्गिरसाह्वयम् ॥
कोटितीर्थमयोन्यख्यमङ्गाराख्यं त्रिलोचनम् ॥ १०४-१२५ ॥
इन्द्रेशं कम्बुकेशं च सोमेशं कोहनं शकम् ॥
नार्मदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम् ॥ १०४-१२६ ॥
ब्राह्मं दैवं च मार्गेशमादिवाराहकेश्वरम् ॥
रामेशमथ सिद्धेशमाहल्यं कङ्कटेश्वरम् ॥ १०४-१२७ ॥
शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवम् ॥
योजनेशं वराहेशं द्वादशीशिवतीर्थकम् ॥ १०४-१२८ ॥
सिद्धेशं मङ्गलेशं च लिङ्गवाराहतीर्थकम् ॥
कुण्डेशं श्वेतवाराहं गर्भावेशं रवीश्वरम् ॥ १०४-१२९ ॥
शुक्लादीनि च तीर्थानि हुङ्कारस्वामितीर्थकम् ॥
सङ्गमेशं नहुषेशं मोक्षणं पञ्चगोपकम् ॥
नागशावं च सिद्धेशं मार्कण्डाङ्क्रूरतीर्थके ॥ १०४-१३० ॥
कामोदशूलारोपाख्ये माण्डव्यं गोपकेश्वरम् ॥
कपिलेशं पिङ्गलेशं भूतेशं गाङ्गगौतमे ॥ १०४-१३१ ॥
आस्वमेधं भृगुकच्छं केदारेशं च पापनुत् ॥
कलकलेशं जालेशं शालग्रामं वराहकम् ॥ १०४-१३२ ॥
चन्द्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकम् ॥
मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकम् ॥ १०४-१३३ ॥
शिखीशं कोटितीर्थं च दशकन्यं सुवणकम् ॥
ऋणमोक्षं भारभूति पुङ्खां मुडिं च डिण्डिमम् ॥ १०४-१३४ ॥
आमलेशं कपालेशं शृङ्गैरण्डीभवं ततः ॥
कोटितीर्थं लोटणेषं फलस्तुतिरतः परम् ॥ १०४-१३५ ॥
दृमिजङ्गलमाहात्म्ये रोहिताश्वकथा ततः ॥
धुन्धुमारसमाख्यानं वधोपायस्ततोऽस्य वै ॥ १०४-१३६ ॥
वधौ धुन्धोस्ततः पश्चात्ततश्चित्रवहोद्भवः ॥
महिमास्य ततश्चडीशप्रभावो रतीश्वरः ॥ १०४-१३७ ॥
केदारेशो लक्षतीर्थं ततो विष्णुपदीभवम् ॥
मुखारं च्यवनान्धास्यं ब्रह्मणश्च सरस्ततः ॥ १०४-१३८ ॥
चक्राख्यं ललिताख्यानं तीर्थं च बहुगोमयम् ॥
रुद्रावर्तं च मर्कण्डं तीर्थं पापप्रणाशनम् ॥ १०४-१३९ ॥
श्रवणेशं शुद्धपटं देवान्धुप्रेततीर्थकम् ॥
जिह्वोदतीर्थंसम्भूतिः शिवोद्भन्दं फलस्तुतिः ॥ १०४-१४० ॥
एष खण्डो ह्यवन्त्याख्यः श्रृण्वतां पापनाशनः ॥
अतः परं नागराख्यः खण्डः षष्ठोऽभिधीयते ॥ १०४-१४१ ॥
लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा ॥
विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा ॥ १०४-१४२ ॥
हाटकेश्वरमाहात्म्ये वृत्रासुरवधस्तथा ॥
नागबिलं शङ्खतीर्थमचलेश्वरवर्णनम् ॥ १०४-१४३ ॥
चमत्कारपुराख्यानं चमत्कारकरं परम् ॥
गयशीर्षं बालशाख्यं वालमण्डं मृगाह्वयम् ॥ १०४-१४४ ॥
विष्णुपादं च गोकर्णं युगरूपं समाश्रयः ॥
सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम् ॥ १०४-१४५ ॥
भ्रूणगर्तं नलेशं च भैष्मं वैडुरमर्ककम् ॥
शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम् ॥ १०४-१४६ ॥
जामदग्न्यवधाख्यानं नैःक्षत्रियकथानकम् ॥
रामह्रदं नागपुरं षड्लिङ्गं चैव यज्ञभूः ॥ १०४-१४७ ॥
मुण्डीरादित्रिकार्कं च सतीपरिणयाह्वयम् ॥
रुद्रशीर्षं च यागेशं वालखिल्यं च गारुडम् ॥ १०४-१४८ ॥
लक्ष्मीशापः सप्तविंशसोमप्रासादमेव च ॥
अम्बाबद्धं पाण्डुकाख्यमाग्नेयं ब्रह्मकुण्डकम् ॥ १०४-१४९ ॥
गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा ॥
शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः ॥ १०४-१५० ॥
कुशेशाख्यं लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम् ॥
अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम् ॥ १०४-१५१ ॥
ततो वै रेवती चात्र भक्तिकातीर्थसम्भवः ॥
क्षेमङ्करी च केदारं शुक्लतीर्थमुखारकम् ॥ १०४-१५२ ॥
सत्यसन्धेश्वराख्यानं तथा कर्णोत्पलाकथा ॥
अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च ॥ १०४-१५३ ॥
ततो वास्तुपदाऽख्यानमजागृहकथानकम् ॥
सौभाग्यान्धुश्च शुलेशं धर्मराजकथानकम् ॥ १०४-१५४ ॥
मिष्टान्नेदश्वराख्यानं गाणापत्यत्रयं ततः ॥
जाबालिचरितं चैव मकरेशकथा ततः ॥ १०४-१५५ ॥
कालेश्वर्यन्धकाख्यानं कुण्डमाप्यरसं तथा ॥
पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम् ॥ १०४-१५६ ॥
भार्गवं चरितं चैव वैश्वामैत्रं ततः परम् ॥
सारस्वतं पैप्पलादं कंसारीशं च पैण्डकम् ॥ १०४-१५७ ॥
ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम् ॥
रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम् ॥ १०४-१५८ ॥
कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम् ॥
पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम् ॥ १०४-१५९ ॥
वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम् ॥
बृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम् ॥ १०४-१६० ॥
कल्पः शालस्तथा नन्दिग्रामत्रयमनुत्तमम् ॥
असिशुक्लपितृसञ्ज्ञं तीर्थत्रयमुदाहृतम् ॥ १०४-१६१ ॥
श्र्यर्बुदौ रैवतश्चैव पर्वतत्रयमुत्तमम् ॥
नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती ॥ १०४-१६२ ॥
सार्द्धकोटित्रयफलमेकैकं चैषु कीर्त्तितम् ॥
कूषिका शङ्खतीर्थं चामरकं बालमण्डनम् ॥ १०४-१६३ ॥
हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम् ॥
साम्बादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम् ॥ १०४-१६४ ॥
जलशायि चतुर्मासमशून्यशयनव्रतम् ॥
मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम् ॥ १०४-१६५ ॥
पृथ्वीदानं वानकेशं कपालमोचनेश्वरम् ॥
पापपिण्डं मासलैङ्गं युगमानादिकीर्तनम् ॥ १०४-१६६ ॥
निंवेशशाकम्भर्याख्या रुद्रैकादशकीर्तनम् ॥
दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम् ॥ १०४-१६७ ॥
इत्येषनागरः खण्डः प्रभासाख्योऽधुनोच्यते ॥
सोमेशो यत्र विश्वेशोऽर्कस्थलं पुण्यदं महत् ॥ १०४-१६८ ॥
सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम् ॥
अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम् ॥ १०४-१६९ ॥
भीमभैरवचण्डीशभास्करेन्दुकुजेश्वराः ॥
बुधेज्यभृगुसौरागुशिरवीशा हरविग्रहाः ॥ १०४-१७० ॥
सिद्धेश्वराद्याः पञ्चान्ये रुद्रास्तत्र व्यवस्तत्र व्यवस्थिताः ॥
वरारोहा ह्यजा पाला मङ्गला ललितेश्वरी ॥ १०४-१७१ ॥
लक्ष्मीशो वाडवेशश्चोर्वीशः कामेस्वरस्तथा ॥
गौरीशवरुणेशाख्यं दुर्वासेशं गणेश्वरम् ॥ १०४-१७२ ॥
कुमारेशं चण्डकल्पं शकुलीश्वरसञ्ज्ञकम् ॥
ततः प्रोक्तोऽथ कोटीशबालब्रह्यादिसत्कथा ॥ १०४-१७३ ॥
नरकेशसंवर्त्तेशनिधीश्वरकथा ततः ॥
बलभद्रेश्वरस्याथ गङ्गाया गणपस्य च ॥ १०४-१७४ ॥
जाम्बवत्याख्यसरितः पाण्डुकूपस्य सत्कथा ॥
शतमेधलक्षमेधकोटिमेधकथा तथा ॥ १०४-१७५ ॥
दुर्वासार्कघटस्थानहिरण्यासङ्गमोत्कथा ॥
नगरार्कस्य कृष्णस्य सङ्कर्षणसमुद्रयोः ॥ १०४-१७६ ॥
कुमार्याः क्षेत्रपास्य ब्रह्येशस्य कथा पृथक् ॥
पिङ्गलासङ्गमेशस्य शङ्करार्कघटेशयोः ॥ १०४-१७७ ॥
ऋषितीर्थस्य नन्दार्कत्रितकूपस्य कीर्तनम् ॥
ससोपानस्य पर्णार्कन्यङ्कुमत्योः कथाद्भुता ॥ १०४-१७८ ॥
वाराहस्वामिवृत्तान्तं छायालिङ्गाख्यगुल्फयोः ॥
कथा कनकनन्दायाः कुतीगङ्गेशयोस्तथा ॥ १०४-१७९ ॥
चमसोद्बेदविदुरत्रिलोकेशकथा ततः ॥
मङ्कणेशत्रैपुरेशषण्डतीर्थकथास्तथा ॥ १०४-१८० ॥
सूर्यप्राची त्रीक्षणयोरुमानातकथा तथा ॥
भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा ॥ १०४-१८१ ॥
अजापालेशबालार्ककुबेरस्थलजा कथा ॥
ऋषितोया कथा पुण्या सङ्गालेश्वरकीर्तनम् ॥ १०४-१८२ ॥
नारदादित्यकथनं नारायणनिरूपणम् ॥
तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनम् ॥ १०४-१८३ ॥
चतुर्वक्त्रगणाध्यक्षकलम्बेश्वरयोः कथा ॥
गोपालस्वामिव कुलस्वामिनोर्मरुतां कथा ॥ १०४-१८४ ॥
क्षेमार्कोन्नतविघ्नेशजलस्वामिकथा ततः ॥
कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः ॥ १०४-१८५ ॥
शङ्खावर्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम् ॥
जालेश्वरस्य हुङ्कारेश्वरचण्डीशयोः कथा ॥ १०४-१८६ ॥
आशापुरस्थविघ्नेशकलाकुण्डकथाद्भुता ॥
कपिलेशस्य च कथा जरद्गवशिवस्य च ॥ १०४-१८७ ॥
नलकर्कोटेश्वरयोर्हाटकेश्वरजा कथा ॥
नारदेशयन्त्रभूषादुर्गकूटगणेशजा ॥ १०४-१८८ ॥
सुपर्णैलाख्यभैरव्योर्भल्लतीर्थभवा कथा ॥
कीर्तनं कर्दमालस्य गुप्तसोमेश्वस्य च ॥ १०४-१८९ ॥
बहुस्वर्णेशश्रृङ्गेशकोटीश्वरकथा ततः ॥
मार्कण्डेश्वरकोटीशदामोदरगृहोत्कथा ॥ १०४-१९० ॥
स्वर्णरेखा ब्रह्मकुण्डं कुन्तीभीमेश्वरौ तथा ॥
मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ॥ १०४-१९१ ॥
दुर्गाभिल्लेशगङ्गेशरैवतानां कथाद्भुता ॥
ततोऽर्बुदेश्वर कथा अचलेश्वरकीर्तनम् ॥ १०४-१९२ ॥
नागतीर्थस्य च कथा वसिष्टाश्रमवर्णनम् ॥
भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम् ॥ १०४-१९३ ॥
केदारस्य च माहात्म्यं तीर्थाङ्गमनकीर्तनम् ॥
कोटीश्वररूपतीर्थहृषीकेशकथारस्ततः ॥ १०४-१९४ ॥
सिद्धेशशुक्रेश्वरयोर्मणिकर्णीशकीर्तनम् ॥
पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनम् ॥ १०४-१९५ ॥
चन्द्रप्रभासर्पिडोदश्रीमाताशुक्लतीर्थजम् ॥
कात्यायन्याश्च माहात्म्यं ततः पिण्डारकस्य च ॥ १०४-१९६ ॥
ततः कनखलस्याथ चक्रमानुषतीर्थयोः ॥
कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा ॥ १०४-१९७ ॥
गणेशपार्थेश्वरयोर्यान्त्रायामुज्ज्वलस्य च ॥
चण्डीस्थाननागोद्भवशिवकुण्डमहेशजा ॥ १०४-१९८ ॥
कामेश्वरस्य मार्कण्डेयोत्पत्तेश्च कथा ततः ॥
उद्दालकेशसिद्धेशगततीथकथा पृथक् ॥ १०४-१९९ ॥
श्रीदेवरवातोत्पत्तिश्च व्यासगौतमतीर्थयोः ॥
कुलसन्तारमाहात्म्यं रामकोट्याह्वतीर्थयोः ॥ १०४-२०० ॥
चन्द्रोद्भेदेशानश्रृङ्गब्रह्मस्थानोद्भवोऽद्भुतम् ॥
त्रिपुष्कररुद्रह्रदगुहेश्वर कथा शुभा ॥ १०४-२०१ ॥
अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च ॥
महौजसः प्रभावश्च जम्बूतीर्थस्य वर्णनम् ॥ १०४-२०२ ॥
गङ्गाधरमिश्रकयोः कथा वाथफलस्तुतिः ॥
द्वारकायाश्च माहात्म्ये चन्द्रशर्मकथानकम् ॥ १०४-२०३ ॥
जागराद्यर्चनाद्याख्या व्रतमेकादशीभवम् ॥
महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः ॥ १०४-२०४ ॥
दुर्वासस उपाख्यानं यात्रोपक्रमकीर्तनम् ॥
गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम् ॥ १०४-२०५ ॥
चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसङ्गमः ॥
सनकादिह्रदाख्यानं नृगतीर्थकथा ततः ॥ १०४-२०६ ॥
गोप्रचारकथा पुण्या गोपीनां द्वारकागमः ॥
गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम् ॥ १०४-२०७ ॥
पञ्चनद्यागमाख्यानं नानाख्यानसमन्वितम् ॥
शिवलिङ्गगदातीर्थकृष्णपूजादिकीर्तनम् ॥ १०४-२०८ ॥
त्रिविक्रमस्य मूर्ताख्या दुर्वासःकृष्णसङ्कथा ॥
कुशदैत्यवधोञ्चारविशेषार्चनजं फलम् ॥ १०४-२०९ ॥
गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम् ॥
कृष्णमन्दिरसम्प्रेक्षा द्रारवत्यभिषेचनम् ॥ १०४-२१० ॥
तत्रतीर्थावासकथा द्वारकापुण्यकीर्तनम् ॥
इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विजाः ॥ १०४-२११ ॥
स्कान्देसर्वोत्तरकथे शिबमाहात्म्यवर्णने ॥
लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम् ॥ १०४-२१२ ॥
माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे ॥ १०४-२१३ ॥
इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे स्कन्दपुराणानुक्रमणीवर्णनं नाम चतुरधिकशततमोऽध्यायः ॥ १०४ ॥