१०३

ब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि वाराहं वै पुराणकम् ॥
भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम् ॥ १०३-१ ॥

मानवस्य तु कल्पस्य प्रसङ्गं मत्कृतं पुरा ॥
निबबन्ध पुराणेऽस्मिंश्चतुर्विंशसहस्रके ॥ १०३-२ ॥

व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुवि ॥
तत्रादौ शुभसंवादः स्मृतोभूमिवराहयोः ॥ १०३-३ ॥

अथादिकृतवृत्तान्ते रम्भस्य चरितं ततः ॥
दुर्जयस्य च तत्पश्चाच्छ्राद्धकल्प उदीरितः ॥ १०३-४ ॥

महातपस आख्यानं गौर्युत्पत्तिस्ततः परा ॥
विनायकस्य नागानां सेनान्यादित्ययोरपि ॥ १०३-५ ॥

गणानां च तथा देव्या धनदस्य वृषस्य च ॥
आख्यानं सत्यतपसो व्रताख्यानसमन्वितम् ॥ १०३-६ ॥

अगस्त्यगीता तत्पश्चाद्रुद्रगीता प्रकीर्तिता ॥
महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम् ॥ १०३-७ ॥

पर्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम् ॥
इत्यादि कृतवृत्तान्तं प्रथमे दर्शितं मया ॥ १०३-८ ॥

भगवद्धर्मके पश्चाद्वततीर्थकथानकम् ॥
द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम् ॥ १०३-९ ॥

तीर्थानां चापि सर्वेषां माहात्म्यं पृथगीरितम् ॥
मथुराया विशेषेण श्राद्धादीनां विधिस्ततः ॥ १०३-१० ॥

वर्णनं यमलोकस्य ऋषिपुत्रप्रसङ्गतः ॥
विपाकः कर्मणां चैव विष्णुव्रतनिरूपणम् ॥ १०३-११ ॥

गोकर्णस्य च माहात्म्यं कीर्तितं पापनाशनम् ॥
इत्येवं पूर्वभागोऽयं पुराणस्य निरूपितः ॥ १०३-१२ ॥

उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः ॥
संवादे सर्वतीर्थानां माहात्म्यं विस्तरात्पृथक् ॥ १०३-१३ ॥

अशेषधर्माश्चाख्याताः पौष्करं पुण्यपर्व च ॥
इत्येवं तव वाराहं प्रोक्तं पापविनाशनम् ॥ १०३-१४ ॥

पठतां श्रृण्वतां चैव भगवद्भक्तिवर्धनम् ॥
काञ्चनं गरुड कृत्वा तिलधेनुसमन्वितम् ॥ १०३-१५ ॥

लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः ॥
स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः ॥ १०३-१६ ॥

यो वानुक्रमणीमेन्तां श्रृणोत्यपि पठत्यपि ॥
सोऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारिणीम् ॥ १०३-१७ ॥

इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वाराहपुराणानुक्रमणीवर्णनं नाम त्र्युत्तरशततमोऽध्यायः ॥ १०३ ॥