श्रीब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि पुराणं दशमं तव ॥
ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम् ॥ १०१-१ ॥
सावर्णिर्यत्र भगवान्साक्षाद्देवर्षये स्थितः ॥
नारदाय पुराणार्थं प्राह सर्वमलौकिकम् ॥ १०१-२ ॥
धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे ॥
तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्तमुत्तमम् ॥ १०१-३ ॥
रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् ॥
शतकोटिपुराणे तत्सङ्क्षिप्य प्राह वेदवित् ॥ १०१-४ ॥
व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्तसञ्ज्ञिते ॥
अष्टादशसहस्रं तत्पुराणं परिकीर्तितम् ॥ १०१-५ ॥
ब्रह्मप्रकृतिविघ्नेशकृष्णखण्डसमन्वितम् ॥
तत्र सूतर्षिसंवादे पुराणोपक्रमस्ततः ॥ १०१-६ ॥
सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः ॥
विवादः सुमहान्यत्र द्वयोरासीत्पराभवः ॥ १०१-७ ॥
शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवात्मने ॥
शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य तु ॥ १०१-८ ॥
गमनं चैव सावर्णेर्ज्ञानार्थँ सिद्धसेविते ॥
आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी ॥ १०१-९ ॥
एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनम् ॥
ततः सावर्णिसंवादो नारदस्य समीरितः ॥ १०१-१० ॥
कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरम् ॥
प्रकृतेरंशभूतानां कलानां चापि वर्णितम् ॥ १०१-११ ॥
माहात्म्यं पूजनाद्यं च विस्तरेण यथास्थितम् ॥
एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम् ॥ १०१-१२ ॥
गणेशजन्मसम्प्रश्नः सपुण्यकमहाव्रतम् ॥
पार्वत्याः कार्तिकेयेन सह विघ्नेशसम्भवम् ॥ १०१-१३ ॥
चरितं कार्तवीर्यस्य जामदग्र्यस्य चाद्भुतम् ॥
विवादः सुमहानासीज्जामदग्र्यगणेशयोः ॥ १०१-१४ ॥
एतद्विघ्नेशखण्डं हि सर्वविघ्नविनाशनम् ॥
श्रीकृष्णजन्मसम्प्रश्नो जन्माख्यानं ततोऽद्भुतम् ॥ १०१-१५ ॥
गोकुले गमनं गश्चात्पूतनादिवदाद्भूताः ॥
बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः ॥ १०१-१६ ॥
रासक्रीडा च गोपीभिः शारदी समुदाहृता ॥
रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा ॥ १०१-१७ ॥
सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः ॥
कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः ॥ १०१-१८ ॥
काश्यसान्दीपनेः पश्चाद्विद्योपादानमद्भुतम् ॥
यवनस्य वधः पश्चाद्द्वारकागमनं हरेः ॥ १०१-१९ ॥
नरकादिवधस्तत्र कृष्णेन विहितोऽद्भुतः ॥
कृष्णखण्डमिदं विप्र नृणां संसारखण्डनम् ॥ १०१-२० ॥
पठितं च श्रुतं ध्यातं पूजितं चाभिवन्दितम् ॥
इत्येतद्ब्रह्मवैवर्तपुराणं चात्यलौकिकम् ॥ १०१-२१ ॥
व्यासोक्तं चादि सम्भूतं पठञ्छृण्वन्विमुच्यते ॥
विज्ञानाज्ञानशमनाद्धोरात्संसारसागरात् ॥ १०१-२२ ॥
लिखित्वेदं च यो दद्यान्माध्यां धेनुसमन्वितम् ॥
ब्रह्मलोकमवाप्नोति स मुक्तोऽज्ञानबन्धनात् ॥ १०१-२३ ॥
यश्चानुक्रमणीं चापि पठेद्वा श्रृणुयादपि ॥
सोऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम् ॥ १०१-२४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मवैवर्तपुराणानुक्रमणीनिरूपणं नामैकोत्तरशततमोऽध्यायाः ॥ १०१ ॥