१००

श्रीब्रह्मोवाच ॥
अथ ते सम्प्रवक्ष्यामि पुराणं सर्वसिद्धिदम् ॥
भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम् ॥ १००-१ ॥

यत्राहं सर्वदेवानामादिकर्ता समुद्गतः ॥
सृष्ट्यर्थं तत्र सञ्जातो मनुः स्वार्थभुवः पुरा ॥ १००-२ ॥

स मां प्रणम्य पप्रच्छ धर्मं सर्वाथसाधकम् ॥
अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहिताम् ॥ १००-३ ॥

पुराणानां यदा व्यासो व्यासं चक्रे महामतिः ॥
तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः ॥ १००-४ ॥

अधोरकल्पवृत्तान्तं नानाश्चर्यकथान्वितम् ॥
तत्रादिमं स्मृतं पर्वं ब्राह्मं यत्रास्त्युपक्रमः ॥ १००-५ ॥

सूतशौनकसंवादे पुराणप्रश्नसङ्क्रमः ॥
आदित्यचरितप्रायः सर्वाख्यानसमन्वितः ॥ १००-६ ॥

सृष्ट्यादिलक्षणोपेतः शास्त्रसर्वस्वरूपकः ॥
पुस्तलेखकलेखानां लक्षणं च ततः परम् ॥ १००-७ ॥

संस्काराणां च सर्वेषां लक्षणं चात्र कीर्तितम् ॥
पक्षस्यादितिथीनां च कल्पाः सप्त च कीर्तिताः ॥ १००-८ ॥

अष्टम्याद्याः शेषकल्पा वैष्णवे पर्वणि स्मृताः ॥
शैवे च कायतो भिन्नाः सौरे चान्त्यकथान्वयः ॥ १००-९ ॥

प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमन्वितम् ॥
पुराणस्योपसंहारसहितं पर्व पञ्चमम् ॥ १००-१० ॥

एषु पञ्चसु पूर्वस्मिन् ब्रह्मणो महिमाधिकाः ॥
धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च ॥ १००-११ ॥

द्वितीयं च तृतीये च सौरे वर्गचतुष्टये ॥
प्रतिसर्गाह्वयं त्वन्त्यं प्रोक्तं सर्वकथान्वितम् ॥ १००-१२ ॥

सभविष्यं विनिर्द्दिष्टं पर्व व्यासेन धीमता ॥
चतुर्द्दशसहस्रं तु पुराणं परिकीर्तितम् ॥ १००-१३ ॥

भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्तितम् ॥
गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः ॥ १००-१४ ॥

तं लिखित्वा तु यो दद्यात्पौष्यां विद्वान्विमत्सरः ॥
गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः ॥ १००-१५ ॥

वाचकं पुस्तकं चापि पूजयित्वा विधानतः ॥
गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् ॥ १००-१६ ॥

यो वै जितेन्द्रियो भूत्वा सोपवासः समाहितः ॥
अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि ॥ १००-१७ ॥

स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् ॥
योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् ॥ १००-१८ ॥

पठेद्वा श्रृणुयाच्चैतां भुक्तिं मुक्तिं च विन्दति ॥ १००-१९ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे भविष्यपुराणानुक्रमणी निरूपणं नाम शततमोऽध्यायः ॥ १०० ॥