०९६

ब्रह्मोवाच ॥
मरीचे श्रृणु वक्ष्यामि वेदव्यासेन यत्कृतम् ॥
श्रीमद्भागवतं नाम पुराणं ब्रह्मसम्मितम् ॥ ९६-१ ॥

तदष्टादशसाहस्रं कीर्तितं पापनाशनम् ॥
सुरपादपरूपोऽयं स्कन्धैर्द्वादशभिर्युतः ॥ ९६-२ ॥

भगवानेव विप्रेन्द्र विश्वरूपीसमीरितः ॥
तत्र तु प्रथमस्कन्धे सूतर्षीणां समागमे ॥ ९६-३ ॥

व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च ॥
परीक्षितमुपाख्यानमितीदं समुदाहृतम् ॥ ९६-४ ॥

परीक्षिच्छुकसंवादे सृष्टिद्वयनिरूपणम् ॥
ब्रह्मनारदसंवादे देवताचरितामृतम् ॥ ९६-५ ॥

पुराणलक्षणं चैव सृष्टिकारणसम्भवः ॥
द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता ॥ ९६-६ ॥

चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः ॥
सृष्टिप्रकरणं पश्चाद्बह्मणः परमात्मनः ॥ ९६-७ ॥

कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदाहृतः ॥
सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः ॥ ९६-८ ॥

पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषम् ॥
इत्येष तुर्यो गदितो विसर्गे स्कन्ध उत्तमः ॥ ९६-९ ॥

प्रियव्रतस्य चरितं तद्वंश्यानां च पुण्यदम् ॥
ब्रह्माण्डान्तर्गतानां च लोकानां वर्णनं ततः ॥ ९६-१० ॥

नरकस्थितिरित्येष संस्थाने पञ्चमो मतः ॥
अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् ॥ ९६-११ ॥

वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् ॥
षष्ठोऽयमुदितः स्कन्धोव्यासेन परिपोषणे ॥ ९६-१२ ॥

प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् ॥
सप्तमो गदितो वत्स वासनाकर्मकीर्तने ॥ ९६-१३ ॥

गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणे ॥
समुद्रमथनं चैव बलिवैभवबन्धनम् ॥ ९६-१४ ॥

मत्स्याक्तारचरितमष्टमोऽयं प्रकीर्तितः ॥
सूर्यवंशसमाख्यानं सोमवंशनिरूपणम् ॥ ९६-१५ ॥

वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते ॥
कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः ॥ ९६-१६ ॥

कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः ॥
भूभारहरणं चात्र निरोधे दशमः स्मृतः ॥ ९६-१७ ॥

नारदेन तु संवादो वसुदेवस्य कीर्तितः ॥
यदोश्च दत्तात्रेयेण श्रीकृष्णोनोद्धवस्य च ॥ ९६-१८ ॥

यादवानां मिथोन्तश्च मुक्तावेकादशः स्मृतः ॥
भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः ॥ ९६-१९ ॥

वेदशाखाप्रणयनं मार्कण्डेयतपःक्रिया ॥
सौरी विभूतिरुदिता सात्वती च ततः परम् ॥ ९६-२० ॥

पुराणसङ्ख्याकथनमाश्रये द्वादशो ह्ययम् ॥
इत्येवं कथितं वत्स श्रीमद्भागवतं तव ॥ ९६-२१ ॥

वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च ॥
साहाय्यकर्तुर्गदितं भक्तिभुक्तिविमुक्तिदम् ॥ ९६-२२ ॥

प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम् ॥
देयं भागवतायेदं द्विजायप्रीतिपूर्वकम् ॥ ९६-२३ ॥

सम्पूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता ॥
योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा ॥
स पुराणश्रवणजं प्राप्नोति फलमुत्तमम् ॥ ९६-२४ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे श्रीमद्भागवतानुक्रमणीनिरूपणं नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥